[highlight_content]

आकाशाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥

 आकाशाधिकरणम् ॥८॥

      एवम् सद्विद्यानन्दवल्लीप्रतिपाद्यम् जगत्कारणवस्तु जीवस्स्या-दित्याक्षेपेणोत्थानादवान्तरसङ्गतिः ।
अथ जगत्कारणम् आकाशप्राणादिकमेव न ततोऽन्यत् जगत्कारणम् ब्रह्मास्त्विति श्रुत्यवलम्बपूर्वपक्षादवान्तरपेटिका । पेटिकान्तरम् प्रस्तूयते- पूर्वम् आदित्यपुरुषस्य वैशेषिकलिङ्गात् वेदान्तवेद्यजगत्कारणत्वमुक्तम्, तदयुक्तम् । लिङ्गतः प्रबलया श्रुत्या भूताकाशस्यैव कारणत्वात्
इत्याक्षेपेणोत्थानादवान्तरसङ्गतिः ।
*त्रयो होद्गीथे कुशला बभूवुश्शिलकश्शालावत्यश्चेकितानो दाल्भ्य: प्रवाहणो जैवलिरिति । ते होचुः उद्गीथे वै कुशलास्स्मः हन्तो-द्गीथे कथाम् वदाम इति तथेति ह समुपविविशुः*(छान्.१-८-१) । *स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रेवदताम् ब्राह्मणौ *(छान्.१-८-२) । *शालावत्यो दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच* (छान्.१-८-३) स्पष्टोऽर्थः । *का साम्नो गतिरिति*(छान्.१-८-४) गतिः – अयनम् प्राप्यमित्यर्थः । *स्वर इति होवाच*(छान्.१-८-४) स्वरात्मकत्वात्साम्न इति भावः एवमुत्तरत्राप्यौचित्यमनुसन्धेयम् । *स्वरस्य का गतिरिति । प्राण इति होवाच प्राणस्य का गतिरिति अन्नमिति होवाच । अन्नस्य का गतिरिति । आप इति होवाच*(छान्. १-८-४) । “अपाम् का गतिरिति । असौ लोक इति होवाच*(छान्.१-८-५) द्युलोकादेव वृष्टिप्रभवादिति भावः । *अमुष्य लोकस्य का गतिरिति न स्वर्गम् लोकमतिनयेदिति*(छान्.१-८-५) । स्वर्गलोकमतीत्य परमा- श्रयान्तरम् साम न नयेदित्यर्थः । *तम् ह शिलकश्शालावत्य दाल्भ्य-मुवाच अप्रतिष्ठितम् वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयात्*(छान्.१-८-६) । अप्रतिष्ठितम् स्वर्गलोकम् सामगतिपरम्पराविश्रान्तिभूमिम् वदतः तव मते साम अप्रतिष्ठितमेव स्यात् । स्वर्गलोकस्य ज्योतिश्चक्रलग्न-तया बम्भ्रम्यमाणत्वात् अप्रतिष्ठितत्वमिति भावः । दाल्भ्यश्शालावत्य-माह – *हन्ताहमेत-द्भगवत्तो वेदानीति । विद्धीति होवाच*(छान्.१-८-७) तर्ह्यहम् सामगति-परम्पराविश्रान्तिभूमिम् त्वत्तो जानीयामिति प्रार्थितश्शालावत्यस्तथे-त्युक्तवानित्यर्थः । *अमुष्य लोकस्य का गति-रित्ययम् लोक इति होवाच*(छान्.१-८-७)”यागदानहोमादिभिः भूलोकस्य स्वर्गोपजीव्यत्वा-दिति भावः । *अस्य लोकस्य का गतिरिति न प्रतिष्ठाम् लोकमति-नयेदिति होवाच*(छान्.१-८-७) पृथिवीलोकस्य का गतिरिति दाल्भ्येन पृष्टः शालावत्यः प्रतिष्ठाम् पृथिवीलोकमतिक्रम्य सामगतिपरम्परा-विश्रान्तिभूमिम् अन्यम् न कश्चिदपि वदेत् । अतो वयमपि तथैव वदामः । स्वर्गस्य वम्भ्रम्यमाणत्वेन प्रतिष्ठात्वाभावेऽपि पृथिव्याः स्थिरत्वात् प्रतिष्ठात्वमिति भावः । *तम् ह प्रवाहणो जैबलिरुवाच अन्तवद्वै किल ते शालावत्य साम*(छान्.१-८-८) अन्तवतीम् पृथिवीम् सामगतिपरम्पराविश्रान्तिभूमितया प्रतिजानानस्य तव मते साम अन्तवदेव स्यादित्यर्थः । शालावत्यः प्रवाहणम् पृच्छति *हन्ता-हमेतद्भगवत्तो वेदनीति विद्वीति होवाच*(छान्.१-८-८) पूर्ववदर्थः ।
*अस्य लोकस्य का गतिरिति आकाश इति होवाच*(छान्.१-९-१) अस्य लोकस्य का गतिरिति शालावत्येन पृष्टः प्रवाहणः आकाश इत्युक्त-वानित्यर्थः । अत्र आकाशते आकाशयतीति वा व्युत्पत्त्या आकाशशब्दो ब्रह्मपरः । *आकाशो ह वै नामरूपयो र्निर्वहिते*(छान्.८-१४-१)त्यादौ आकाशशब्दस्य ब्रह्मण्यपि प्रसिद्धत्वात् न तु भूताकाशपर इति द्रष्टव्यम्। *सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशम् प्रत्यस्तम् यन्ति*(छान्.१-९-१) चिदचिदात्मकप्रपञ्च: आकाशादेव उत्पद्यते तत्रैव लीयत इत्यर्थः । *आकाशो ह्येवैभ्यो ज्यायान्*(छान्.१-९-१) ज्याय-स्त्वन्नाम सर्वैः कल्याणगुणैः सर्वेभ्यो निरतिशयनिरुपाधिकोत्कर्षः । *आकाश: परायणम्*( छान्.१-९-१)। परायणत्वम् – परमगतित्वम् परमप्राप्यत्वमिति यावत् । *स एष परोवरीयानुद्गीथः*(छान्.१-९-२) एवम् रूप आकाश उद्गीथः उद्गीथ एतादृशाकाशदृष्टिः कर्तव्येति यावत् । *स एषोऽनन्तः*(छान्.१-९-१) । उद्रीथे अध्यस्यमानोऽयमाकाशोऽनन्तः अपरिच्छिन्न इत्यर्थः । ततश्च अनन्तस्य आकाशशब्दितस्य परमात्मन एव सामगतिपरम्पराविश्रान्तिभूमित्वात्, मत्पक्षे *अन्तवद्वै किल ते सामे*(छान्.१-८-८)त्युक्तः अन्तवत्वदोषो न प्रसरतीति भावः। *परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयति य एतमेवम् विद्वान् परोवरी- याम्समुद्गीथमुपास्ते*(छान्.१-९-१) इत्यादि ।
अत्र उद्गीथे अध्यस्य उपास्यमान आकाशो भूताकाश एव । आकाश-  शब्दस्य भूताकाशे रूढत्वेन रूढाकाशशब्दाभ्यासादिति पूर्वपक्षे प्राप्त-उच्यते-।

आकाशस्तल्लिङ्गात् ॥१-१-२३॥

आकाशशब्दाभिधेयःपरमात्मा । निखिलजगदेककारणत्वपरायणत्वसर्व- ज्यायस्त्वानाम् परमात्मलिङ्गानाम् भूताकाशे असम्भवात् भूताकाशस्य अचेतनम् प्रति कारणत्वसम्भवेऽपि चिदचिद्वर्गकारणत्वासम्भवात्, सर्वैः कल्याणगुणैस्सर्वोत्कृष्टत्वरूपज्यायास्त्वासम्भवात्, अचेतनस्य स्वरूप-भिन्नत्वेन मोक्षविरोधितया च हेयस्य शब्दादिनिषिद्धविषय प्रावण्यजनक- तया सकलपुरुषार्थविरोधिनोऽचेतनस्य परायणत्व-परमप्राप्यत्वासम्भवात्, परायणत्वलक्षणप्राप्यत्वस्य च *का साम्नो गतिः*(छान् १-८-४) *अस्य लोकस्य का गतिरि*(छान्.१-८-७) त्युपक्रमलक्षणतात्पर्यलिङ्गेन प्रतिपि- पादयिषितत्वावगमात्, तथा *अन्तवद्वै किल ते शालावत्य सामे* (छान्. १-८-८)ति पृथिवीलोकस्य अन्तवत्त्वोक्तिदूषणपूर्वकमुपक्षिप्तेन *स एषोऽनन्त*(छान्.१-९-२) इत्यनन्तत्वलिङ्गेन च प्रतिपिपादविषितत्वा-वगमात्, प्रतिपिपादयिषितपरायणत्वानन्तत्वपरोवरीयस्त्वलिङ्ग- विरोधे अभ्यस्ताया अपि श्रुतेर्दुर्बलत्वाच्च, आकाशशब्दः आकाशते आकाशयतीति वा योगवशेन परमात्मपर एव । ननु *सर्वाणि ह वा इमानि भूतानी* (छान्.१-९-२)ति श्रुत्यैव आकाशस्य जगत्कारणत्वावेदनात् यथाश्रुताका-शस्यैव जगत्कारणत्वमभ्युपेतव्यमिति चेन्न *सदेव सोम्येदमग्र आसीत् *(छान्.६-२-१) *आत्मा वा इदमेक एवाग्र आसीत्*(ऐत १-१-१), *एको ह वै नारायण आसीदि*(महो.७.१-२) त्यादियोग्यार्थाननुवादरूपबहुवाक्य-विरोधे एकस्य अनुवादरूपस्य अयोग्या-र्थस्य दुर्बलत्वेन स्वार्थप्रतिपादनसामर्थ्याभावात् । अत आकाशशब्दो
यौगिक्या वृत्त्या ब्रह्मपर एव ।
यत्तु व्यासार्यैः अर्थाविरोध एव रूढिप्राबल्यमित्यपशूद्राधिकरण-नयोपजीवनेन अवयवशक्त्या निर्वाहो भाष्ये उक्तः । रूढ्यपरित्यागेन अपर्यवसानवृत्त्या आकाशशब्दस्य आकाशशरीरकपरमात्मपरतया निर्वाहोऽप्यभिमत इत्युक्तम्, तदुपायान्तरसम्भवप्रदर्शनमात्रपरम्, न तु प्रकृताभिप्रायम् । अनन्यथा-सिद्धाकाशलिङ्गसत्व एव *जीवमुख्यप्राण-लिङ्गादि*(ब्र.सू.१-१-३२)ति सूत्रोक्तन्यायावतारात् । *परविद्यासु जीवोक्ति-निरुक्त्यादेः पराश्रया । तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी* (न्यायसिद्धाञ्जनम्) इत्याचार्योक्तेः भूताकाशशरीरकात् ब्रह्मणः सकल- चेतनाचेतनवर्गोत्पत्त्यभावेन *सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त*(छान्.२-९-१) इत्यत्र आकाशशब्दस्य भूताकाशशरीरकब्रह्म प्रतिपादकत्वासम्भवाच्चेति द्रष्टव्यमिति स्थितम् ।।

इति आकाशाधिकरणम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.