॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥
ईक्षत्यधिकरणम् ॥५॥
एवमुपोद्धाताधिकरणचतुष्टयेन शास्त्रारम्भे समर्थिते ईक्षत्यधिकरणमारभ्य शास्त्रं प्रतायते । अत्र वेदार्थविचारत्वात् शास्त्रयोस्सङ्गतिः । वेदान्तार्थविचारत्वात् ब्रह्मकाण्डसङ्गतिः । कारणविषयत्वात् द्विकसङ्गतिः । कारणवाक्यसमन्वयविषयत्वादध्याय सङ्गतिः । अस्पष्टतरास्पष्ट स्पष्टच्छायानुसारिवाक्यविचारत्वात् पादसङ्गतिरिति विवेकः ।
इतः परं पेटिकासङ्गतयः । तासु चावान्तरसङ्गतयश्च वक्तव्याः । तत्र पादशेषाधिकरणानां पेटिकासङ्गतिः । तथा हि-ब्रह्म जगतः कारणमेव न भवति, किं तु प्रधानजीवाकाशादिकमेवेति शङ्कानिरासेन ब्रह्मकारणत्वायोगव्यवच्छेद उपोद्धाताधिकरण- चतुष्टयानन्तर प्रथमपादशेषरूप: पेटिकार्थ इति कारणत्वाक्षिप्ताः ब्रह्मणस्सर्वज्ञत्व सत्यसङ्कल्पत्वादिगुणाः तत्क्रतुन्यायेन मुक्तप्राप्याः । तस्य महाभोगशालित्वगुणः *निरञ्जनः परमम् साम्यमुपैती*(मुण्डक. ३-१-३)ति *भोग-मात्रसाम्यलिङ्गाच्चे*(ब्र.सू.४-४-२१)ति मुक्तप्राप्यगुणः । ब्रह्मणो निरतिशयानन्दस्तु मुक्तैः स्वयमप्राप्योऽपि सदा आस्वाद्य इत्य-नन्तकल्याणगुणाकरस्य निरतिशयानन्दशालिनः परब्रह्मणः प्रतिपादनम् पुरुषार्थपर्यवसायि भवत्येवेति सम-न्वयाधिकरणे विवक्षितम् । तदयुक्तम्, सर्वेषाम् कारणवाक्यानाम् प्रधानविषयत्वादित्याक्षेपिकी अवान्तर- सङ्गतिः।
एतदधिकरणचिन्तोपयुक्तानि नानाप्रदेशाम्नातानि वाक्यानि व्याख्या- यन्ते । *तदैक्षत बहुस्याम् प्रजायेयेति । तत्तेजोऽसृजत* (छान्.६-२-३) इति । तत् – सच्छब्दवाच्यम् परम् ब्रह्म । विचित्रानन्तचिदचिन्मिश्र-जगद्रूपेण अहम् बहुस्याम् तदर्थम् तेजोबन्नादिसमष्टिरूपेण प्रकर्षेण जायेयेति सङ्कल्प्य तेजस्ससर्ज । *तत्तेज ऐक्षत बहुस्याम् प्रजायेयेति । तदपोऽसृजत*(छान्.६-२-४) अत्राचेतनस्य तेज आदेरीक्षितृत्वासम्भवात् तेज आदिशब्दास्तच्छरीरक परमात्मपरा द्रष्टव्याः । न च तेजश्शब्दस्य ब्रह्मपरत्वे ब्रह्मणस्सृज्यत्वापत्तिरिति वाच्यम् । तेजश्शरीरकब्रह्मणः कार्य-त्वेन सृज्यत्वे दोषाभावात् । *ता आप ऐक्षन्त । बह्वयस्स्याम प्रजा- येमही*(छान्.६-२-४) ति स्पष्टोऽर्थः । *सेयम् देवतैक्षत, हन्ताहमिमा-स्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि*(छान्-६-३-२) सच्छब्दिता परा देवता इमा: तेजोबन्नरूपाः तिस्रो देवताः अनेन जीवेन जीवसमष्टिविशिष्टेनात्मना अनुप्रविश्य नामरूपे व्याकरवाणि । ततश्च अन्योन्यसम्सर्गमप्राप्तानाम् तेजोबन्नानाम् तासाम् त्रिवृतम् त्रिवृत-मेकैकाम् द्रव्यभूताम् करवाणीत्यर्थः । अत्र च देवता तेजोबन्नाभिमानि-देवतारूपा सा च परमात्मैव । देवतानाम् परमात्मव्यतिरिक्तत्वे प्रमाणा-भावात्, परमात्मनश्च सर्वाभिमानिदेवतात्वसम्भवाच्च, परमात्मरूपदेवता- धिष्ठिता इत्यर्थः । अत्र *तदैक्षते*(छान्.६-२-३)ति सर्वज्ञत्वम्, *असृजते* (छान्.६-२-३)ति निमित्तत्वम्, *बहुस्यामि*(छान्.६-२-३)त्युपादानत्वम्, तदुभयानुगुणम्, सर्वज्ञत्वम्, सर्वशक्तित्वञ्च, *अनेन जीवेनानुप्रविश्ये* (छान्-६-३-२)ति सर्वान्तरत्वञ्च, उक्तम् भवति ।
*अनेन जीवेनात्मनेति*(छान्-६-३-२)जीवशरीरकेण मयेत्यर्थः । *सिम्हेन भूत्वा बहवो मयात्ता” इतिवत् । सार्वज्ञयादिगुणकस्य विपरीता- कारजीवैक्यासम्भवात् *यस्यात्मा शरीरमि* त्यादिवचनात् तदनुप्रविश्ये-त्यचेतन इव जीवेप्यनुप्रवेशश्रवणाच्च, शरीरवाचकशब्दस्य शरीरिपर्यन्त-त्वस्य मुख्यतयोपपन्नत्वादयमेवार्थः । करवाणीति तिङा कर्तुरभि हित-त्वेनानभिहिताधिकारविहिततृतीयानुपपत्तिरिति चेत् सत्यम् मयेत्यस्य स्वरूपेणेत्यर्थः आत्मशब्दः स्वरूपपरः । यद्यपि जीवशरीरकम् स्वरूपम् व्याकरणकर्तुर्न भिद्यते, तथाऽपि *व्यपदेशिवदेकस्मिन् बुद्ध्या नानात्व- कल्पने* ति न्यायेन कल्पितभेदमादाय अनभिहिताधिकार-विहिततृतीयासम्भवात्, घटः स्वेन रूपेण इतरव्यावृत्तिम् करोतीति प्रयोग-दर्शनात् करोतीति तिङा कर्तुरनभिहितत्वात् करणार्थे तृतीया । करण-त्वञ्च न तिङाभिहितमिति चेत् तर्हि प्रकृतेऽपि तथाऽस्तु । *तेनेशस्त-द्विशिष्टस्वकरणकतयानुप्रवेशेऽपि कर्ते*(अधि.सा.२६४) त्यधिकरणसारा-वल्युक्तेश्चायमेवार्थः ।
यद्वा – अनेन जीवेनात्मना मदात्मकजीवेनेत्यर्थः । यद्वा – *अनेन जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठती त्यत्रे-वात्रापि जीवात्मनेत्येवार्थः । अनयोः पक्षयोः *चारेणानुप्रविश्य परबलम् सङ्कलयानि*, *देवदत्तेन पक्त्वा चैत्रेण भुज्यते* इत्यत्रेव प्रवेशक्रिया
प्रयोजककर्त्रा परमात्मना व्याप्रियमाणस्य जीवात्मनः करणतया न तृतीयानुपपत्तिः ।
इयाम्स्तु विशेष: – नामरूपव्याकरणस्य त्रिवृत्करणसमानकर्तृक-त्वावगमात् नामरूपव्याकरणाम्शे साक्षात्कर्तृत्वमप्यस्ति । प्रवेशे तु सर्वव्यापकस्य परमात्मनस्साक्षात्कर्तृत्वासम्भवात् प्रयोजककर्तृत्वम् । एवञ्च प्रवेशनामरूपव्याकरणयोस्समानकर्तृकत्वसम्भवात् क्त्वाप्रत्यय-स्यापि नानुपपत्तिरिति द्रष्टव्यम् । एतेन अन्तः करणविशिष्टस्य अहम-र्थत्वम् वदन्तः प्रत्युक्ताः । *बहुस्याम्, हन्ताहमिमा* इति सङ्कल्प-समये तस्याभावादित्यास्ताम् तावत् ।
अथ तृतीयसूत्रविषयवाक्यार्थ उच्यते- *एवमेव आचार्यवान् पुरुषो वेद तस्य तावदेव चिरम् यावन्न विमोक्ष्येऽथ सम्पत्स्य*(छान्.६-१४-२) इति एवमाचार्योपदेशेन ब्रह्मात्मकस्त्वम् अतस्तदात्मकतया स्वात्मान- मनुसन्धत्स्व इत्युपदिष्टस्तदात्मकत्वमनुसन्धत्ते । एतादृशानुसन्धान-निष्ठस्य तस्य तावानेव विळम्बः यावत्प्रारब्धकर्मारब्धान्न विमोक्ष्यते तदनन्तरम् तु सद्रूपम् ब्रह्म सम्पस्यते । पुरुषव्यत्ययः छान्दसः। केचित्तु, *मे *इत्यध्याहारात् तस्य मे तावानेव विळम्बः यावत्कर्मभिर्न विमोक्ष्ये, अथ परम् ब्रह्म सम्पत्स्ये* इति उपासकस्य अनुसन्धानप्रकारोऽनेन वाक्येन उच्यत इति वदन्ति ।
ननु, *यावन्न विमोक्ष्य*(छान्.६-१४-२) इत्युक्ते कथम् शरीरान्मोक्ष-सिद्धिः उच्यते । मोक्ष इत्युक्ते कस्मान्मोक्ष इत्याकाङ्क्षायाम् अस्यामेव विद्यायाम् *अथ यदास्य वाङ्मनसि सम्पद्यते*(छान्.६-८-६)इत्यादिना देहादुत्क्रमण श्रवणात्, अन्यत्र च *अस्मात् शरीरात्समुत्थाय परञ्ज्योति- रुपसम्पद्य*(छान्.६-३-४) *धूत्वा शरीरम्*(छान्.८-१३-१) *अशरीरम् वाव सन्तम् न प्रियाप्रिये स्पृशत*(छान्.८-१२-१) इति श्रवणात् *त्यक्त्वा देहम् पुनर्जन्म नैती*(गी,४-९)त्यादिस्मरणाच्च शरीरान्मोक्ष इत्येवाव-गम्यते । *अथ सम्पत्स्य*(छान्.६-१४-२) इत्यत्रापि सम्पत्तेः कर्मापे-क्षाया *सता सोम्य तदा सम्पन्नो भवतो*(छान्.६-८-१)ति वाक्यान्तर-प्रतिपन्नम् ब्रह्मैव कर्मतया सम्बद्धयत इत्यवगम्यते । उत्तरखण्डिकाया- मेतद्विवरणप्रवृत्तायाम् देहमोक्षब्रह्मसम्पत्त्योः कथनाच्च एवमेवार्थः । न च *आचार्यवान् पुरुषो वेदे*(छान्.६-१४-२)त्यत्र वेदेत्यस्य शाब्दज्ञानमात्रार्थ-कत्वम् वक्तुम् शक्यम् । वेदान्तेषु विद्युपास्योर्व्यतिकरेण प्रयोगात् । शाब्दज्ञानमात्रेण मोक्षस्य *बुद्धे क्षेमप्रापणम् तच्छास्त्रैर्विप्रतिषिद्धमि* (आप.ध.२-२५-१४)त्यादि प्रमाणप्रतिषिद्धत्वाच्च । विदिधातुरुपासन-वाच्येव । अस्यामेव विद्यायाम् *अविज्ञातम् विज्ञातमि*(छान्.६-१-३)ति
प्रमाणान्तरेण *निदिध्यासितव्य*(बृह.४-४-५)इत्युक्तत्वात् उपासनपरत्व-मेवाश्रयणीयमित्यलम् विस्तरेण ।
प्रसक्तानुप्रसक्त्या पञ्चमसूत्रविषयवाक्यार्थ उच्यते – *उत तमादेश-मप्राक्ष्यो येनाश्रुतम् श्रुतम् भवत्यमतम् मतमविज्ञातम् विज्ञातमि*(छान्. ६-१-३)ति । *आदेशशब्दो नियोक्तृप्रयोजनवचनः, उपदेशशब्दो नियोज्यप्रयोजनवचन*(न्यासकार:- काशिका व्याख्या)इति न्यासकारः । नियोक्तरि प्रयोजनम् यस्य तस्यार्थस्य वाचक इत्यर्थः । ततश्च आदेशम् आदेष्टारम् प्रशासितारमित्यर्थः । *कृत्यल्युटो बहुळमि*(अष्टा.३-३-११३) ति कर्तरि ल्युट् । तेन न गुणानुपपत्तिः । *उपदेशेऽजनुनासिक*(अष्टा.१-३-२)इति सूत्रे *करणाधिकरणयोश्चे*(अष्टा.३-३-११०)ति बाधितस्य घञ्जः* अकर्तरि च कारके सञ्ज्ञायामि*(अष्टा.३-३-१९) त्यनेनाप्रसङ्ग- माशङ्क्य *कृत्यल्युटो बहुळमि*(अष्टा.३-३-११३)ति भाष्यकृता समर्थि- तत्वात्तद्वत् । एवञ्च शासनोक्तया शासनेन धारकत्वलक्षणमात्मत्वम् फलितम् । ततश्चादेशशब्द आत्मत्वपर्यन्तः । येन श्रुतेन मतेन विज्ञातेनाश्रुतमम-तमविज्ञातम् श्रुतम् मतम् विज्ञातम् भवतीति वाक्यपर्यवसितार्थः । ब्रह्मस्वरूपसत्तामात्रस्य अश्रुतत्वश्रुतत्वादिहेतुत्वाभावादिति द्रष्टव्यम् । अत्र अश्रुतामतादिशब्दानाम् *इदम् सर्वम् विदितम् भवती* (मुण्ड.२-३)ति श्रुत्यन्तरानुसारात् सर्वार्थकत्वम् । ततश्च येन श्रुतेन सर्वम् श्रुतम् भवतीत्यर्थः । उपादानोपादेययोः अनन्यत्वस्य वक्ष्यमाणत्वादिति भावः।
यद्वा अवस्थाविशिष्टतया अश्रुतम् स्वरूपेण श्रुतम् भवतीत्यर्थः । अत्र ज्ञानशब्दः निदिध्यासनापरः । *निदिध्यासितव्य*(बृह.४-४-५)इति तत्प्रत्यभिज्ञानादिति द्रष्टव्यम् । *येनाश्रुतमि*(छान्. ६-१-३)त्यनेन
किमुपादानमिति पृष्टम् भवति । प्रशासितृत्वार्थकेन आदेशशब्देन आत्म- स्वरूपम् पृष्टम् भवति । ततश्चात्मभूतम् उपादानम् किमिति प्रश्नस्य फलितोऽर्थः । अत एव श्रीविष्णुपुराणे *यन्मयमि*(वि.पु.१-१-५) ति आत्म-स्वरूपम् *यतश्चैतच्चराचरमि*(वि.पु.१-१-५)ति उपादानम् च पृष्टम्। अत एव *अथातोऽहङ्कारादेश*(छान्.७-२५-१) इत्यादाविव आदेशशब्दस्य उपदेशार्थक्तत्वमेव अस्त्विति शङ्का निराकृता । प्रशासने प्रसिद्धिप्राचुर्यात् । अतो जगदुपादानभूतम् जगदात्मानम् किम् पृष्टवान-सीत्यर्थः । अत्र ज्ञातवानसीत्यर्थः । अत्र ज्ञातवानसीत्यनुक्त्वा पृष्टवा-नसीत्युक्तवत: प्रणिपातादिप्रसन्नाचार्योपदेशगम्य एव सोऽर्थः, न तु प्रकारान्तरेण ज्ञातुम् शक्य इत्यभिप्रायः । अन्यज्ञानेनान्यज्ञाना- सम्भवादेकविज्ञानेन सर्वविज्ञानासम्भवम् मन्वान- श्चोदयति । *कथन्नु भगवस्स आदेशो भवतीति*(छान्.६-१-३) ईदृश आदेशः कथम् भवती- त्यर्थः । *उपादानोपादेययोस्तद्भवती*त्यभिप्रायेणाह- *यथा सोम्येकेन मृत्पिण्डेन सर्वम् मृण्मयम् विज्ञातम् स्यात्*(छान्.६-१-४) यथा उपादान-भूते मृत्पिण्डे ज्ञाते तदुपादेयघटशरावादिकम् ज्ञातम् भवति तद्वदित्यर्थ । कथम् मृत्पिडे ज्ञाते सर्वमृण्मयानाम् ज्ञातत्वमिति मन्वानम् प्रत्याह *वाचारम्भणम् विकारो नामधेयम् मृत्तिकेत्येवसत्यमि* (छान्.६-१-४)ति। आरभ्यत इत्यारम्भणम् *कर्मणि ल्युट्*(अष्टा) नपुम्सकैकशेषेण नपुम्स- कैकवचन निर्देशः । मृद्द्रव्येण विकारनामधेये स्पृश्येते इत्यर्थः । कस्मै प्रयोजनाय स्पृश्येते इत्यत्राह *वाचेति*(छान्.६-१-४)। वाक्पूर्वकहानादिव्य- वहारार्थम् मृत्पिण्ड एव नामरूपभाक् भवतीत्यर्थः । कार्यकारणयोरेक-द्रव्यत्वे प्रमाणमाह – *मृत्तिकेत्येव सत्यमि* (छान्. ६-१-४)ति । मृत्ति-केत्येव प्रमाणप्रतिपन्नम् न तद्भिन्नत्वेनेत्यर्थः। ततश्चोपादानोपादेय-योरभेदात्, उपादाने ज्ञाते उपादेयस्य ज्ञातता भवतीत्यर्थः । प्रतिज्ञातस्य एकविज्ञानेन समर्थनाय जगतो ब्रह्मैककारणताम् प्रतिपादयितुम् प्रवृत्त उद्दालको यथा अपराह्णे प्रसारितानाम् घटशरावोदञ्चनादीनाम् मृत्पिण्डो-पादानताम् प्रतिपिपादयिषुः पूर्वाह्णे एतद्घटशरावादिकम् मृत्पिण्ड एवासी-दिति प्रतिपादयति, तथा प्रतिपादयति -*सदेव सोम्येदमग्न आसीदेकमेवा-द्वितीयम्*(छान्.६-२-१) – अत्र सच्छब्दो प्रमाणसम्बन्धयोग्यत्वलक्षणम् सत्वम् प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते । अयञ्च विशेष्यभूत-परमात्मवाचकोऽपि कारणविषयत्वसामर्थ्यात् कारणत्वौपयिकगुण-विशिष्टप्रकृतिपुरुषकालशरीरकम् परमात्मानमुप-स्थापयति । *देवाना-माज्यपानामि*(आप.श्रौ.पशु.प्र)त्यादौ विशेष्य-वाच्याज्यशब्दस्य विकृतिषु पृषदाज्यपरत्वस्य दाशमिकन्यायसिद्धत्वात्।
अत्र सदेवेत्येवकारेण उत्पत्तेः प्राक् जगतो सत्वम्, एकमेवेत्येवकारेण *बहुस्या*(छान्.६-२-३)मिति स्रक्ष्यमाणकार्यबहुत्वावस्था अद्वितीयमित्य-नेन निमित्तान्ततरम् च निषिध्यते । उत्तरसन्दर्भेषु असत्कार्यवादिनि-रासात्, *बहुस्यामि*(छान्.६-२-३)ति बहुभवनसङ्कल्पात् *तत्तेजोऽसृजते* (छान्.६-२-३)ति सच्छब्दितस्य निमित्तत्वकथनाच्च। ततश्च एकमद्वितीय- मितिपदाभ्यामभिन्नानिमित्तोपादानत्वम् सिद्धम् भवति । ततश्चायमर्थः । इदम् बहुत्वावस्थम् विभक्तनामरूपम् विभक्ततया दृश्यमानम् जगत्सृष्टेः प्राक् निमित्तान्तरशून्यमविभक्तनामरूपतया एकम् सच्छब्दितम् ब्रह्मैवा-सीदित्यर्थः ।
यद्यपीदानीमपि जगत्सदेव, तथाऽप्यविभक्त नामरूपसद्रूपापत्तिस्सृष्टेः प्रागेवेति *अग्र*(छान्.६-२-१) इत्यस्य नानुपपत्तिः। एतेन एकमेवाद्वितीय-मित्येतत्प्रपञ्चमिथ्यात्वेप्रमाणयन्तः परे प्रत्युक्ताः। तस्य ब्रह्मव्यतिरिक्त-मिथ्यात्वपरत्वे *इदमग्र आसीदि*(छान्.६-२-१)ति कालप्रापकेण पूर्वेणाग्र-पदेन *तदैक्षत*(छान्.६-३-१) *नामरूपेव्याकर-वाणी*(छान्.६-३-१)ति ईक्षणनामरूपात्मकप्रपञ्चप्रापकेण उत्तरेण च विरोधप्रसङ्गात् । किञ्च *इदम् सर्वशब्दोदितम् सर्वम् जगत्सृष्टेः प्रागेकमेवाद्वितीयम् सदेवासीदि* -ति परैर्व्याख्यातत्वेन सृष्टिप्राक्काले अद्वितीय-पदेन द्वितीयासत्वबोधनेऽपि सृष्ट्युत्तरकालम् तस्यासत्वाप्रतिपादनेन जगतो मिथ्यात्वासिद्धेः। प्राग-सत्वप्रतिपादनेन ह्यनित्यत्वमात्रम् सिध्येत् न तु मिथ्यात्वम् । न च *नेह नानास्ती*(बृह.६-४-२९) ति वाक्यात् सृष्ट्युत्तरकालमप्यसत्वावेद- नात् मिथ्यात्वसिद्धिरिति वाच्यम् । *न स्थानतोऽपि परस्ये*(ब्र.सू.३-२-११) त्यधिकरणे तस्य वाक्यस्य ब्रह्मगतनानात्वनिषेधपरतया परैरेव व्याख्यातत्वात् । ननु अनित्यत्व- मसत्यत्वमिति वाचस्पतिविद्यारण्यो-क्तेः, *अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । यत्तु कालान्तरेणापि नान्य-सञ्ज्ञामुपैति वै । परिणामादि-सम्भूताम् तद्वस्तु नृपतच्च किम्*(वि.पु. २-१४-२४,२५)इति पराशर- स्मरणाच्च, अनित्यत्वमेव मिथ्यात्वमिति चेत् । ईदृशस्य प्रामाणिकस्य प्रत्यक्षाविरुद्धस्य प्रपञ्चमिथ्यात्व-स्यास्माभिरप्य- प्रतिक्षेप्यत्वादित्यास्ताम् तावत् । *वाचारम्भणमि* (छान्.६-१-४)ति वाक्येऽपि यत्परैरुक्तम् विकारो वाचारम्भणम् वागा- लम्बनमात्रम्, नामधेयम् – स्वार्थे धेयप्रत्ययः, नामैव केवलम् विकारो नाम, न वस्त्वस्ति मृत्तिकैव सत्यमिति तदयुक्तम् । वाचारम्भण-मित्यस्य वागालम्भनमित्येतदर्थत्वे प्रमाणाभावात् । वागालम्भन-मात्रमित्यत: नामधेयमित्यनेनातिरिक्तार्थाप्रतिपादनात् पुनरुक्तिश्च । मृत्तिकासत्यत्व- मात्रविवक्षायामितिशब्दवैयुर्थ्यञ्च। उक्तञ्चाभियुक्तैः *वाचारम्भणमित्युक्ते: मिथ्येत्यश्रुतकल्पनम् । पुनरुक्तनामधेयमितीत्यस्य निरर्थतेति। किञ्च परमते *येनाश्रुतम् श्रुतम् भवती*(छान्.६-१-३)ति सन्दर्भोऽपि न युज्यते । शुक्तितत्वे ज्ञाते तदद्ध्यस्तरजतादेर्नि-वृत्तावपि रजतस्य ज्ञातत्वादर्शनेन ब्रह्मणि ज्ञाते तदध्यस्तप्रपञ्चस्य निवृत्तावपि ज्ञातत्वासम्भ-वात् । ननु शुक्तौ ज्ञातायाम् रजतस्य तत्वम् ज्ञातमेव शुक्तिव्यतिरि-क्तस्य रजतत्वस्याभावात् ब्रह्मणि ज्ञाते प्रपञ्च-तत्वम् ज्ञातमेवेति चेन्न परमार्थशुक्तेरपरमार्थरजतत्वरूपत्वाभावात् । नहि शुक्तौ ज्ञातायाम् रजतम् ज्ञातमिति व्यवहारो दृष्टचर इत्यास्ताम् तावत् । ननु, *सर्वम् मृण्मयम् विज्ञातमि*(छान्.६-१-४)त्यत्र विकारार्थ-मयट्प्रत्ययेन घटशरावत्वावस्थाव- द्द्रव्यरूपो विकार एवाभिधातव्यः । न तु घटशरावत्वाद्यवस्थारूपो विकारः । तस्य मृत्पिण्डापेक्षया भिन्न-त्वेन तज्ज्ञानेन ज्ञातत्वा-सम्भवात् । ततश्च तदुपपादकवाचारम्भण-वाक्येऽपि विकारशब्दे-नावस्थावद्रव्यलक्षणस्यैव विकारस्याभिधान-मुचितम्, नत्ववस्थालक्षण-विकारस्येति चेत्, सत्यम् तस्यैवाभिधा-मुचितम् । तथाऽपि मृद्द्रव्येण घटशरावादिलक्षणस्य अवस्थावतो द्रव्यस्य स्पर्शासम्भवात् । न ह्यात्मै-वात्मना स्प्रष्टुम् शक्यःअतो मृण्मयमित्यत्र विकारवाचिमयट्प्रत्यये-नावस्थावतोऽभिधानेऽपि तदुप-पादकवाचारम्भणवाक्येऽपि विकारशब्दे-नावस्थाया एव ग्रहणमुचितम् । तथा मृत्तिकेत्येवसत्यमित्यत्रावस्था-द्रव्यमेव विकारवाचिना मयट्प्रत्यये-नाभिधीयत इति न कश्चिद्दोषः । एतत्सर्वम् *येनाश्रुतमि*(छान्.६-२-३) त्युपक्रम्य *एकमेवाद्वितीयमि* (छान्.६-२-१)त्येतदन्तम् *प्रतिज्ञाविरो-धादि*(ब्र.सू.१-२-९)ति गुणसूत्रस्य विषयतयाव्याख्यातमिति द्रष्टव्यम् ।।
सर्वम् हि जगत्सुखदुःखमोहात्मकम् दृष्टम् । लोके होकस्यैव रूप-यौवनशालिनो योषित्पिण्डस्य भर्तारम् प्रति सुखरूपत्वम् सपत्नीजनम् प्रति दुःखरूपत्वम्, कामुकपुरुषान्तरम् प्रति मोहरूपत्वञ्च दृष्टम् । अतस्सुखदुःखमोहात्मकतया सत्वरजस्तमोमयस्य जगतः तदनुरूपमेव कारणम् वक्तव्यमिति युक्तिसिद्धम् त्रिगुणात्मकम् प्रधानम् सर्वज्ञकपिल-स्मृतिसिद्धम् सद्विद्याप्रतिपाद्यमिति पूर्वपक्षे प्राप्ते उच्यते ।
ईक्षतेर्नाशब्दम् ॥१-१-५॥
शब्दः प्रमाणमेव न भवति यस्य तदशब्दम्। आनुमानिकमिति यावत् । आनुमानिकम् प्रधानम् न *सदेव सोम्येदमग्र आसीदि*(छान्.६-२-१)ति सच्छब्दितम् अपि तु परम् ब्रह्मैव कुतः? ईक्षतेः – ईक्षणादित्यर्थः । यद्यपि *इक्श्तिपौ घातुनिर्देशे वक्तव्यावि*(वार्तिकम्)ति ईक्षतिशब्दो घातुवाची । तथाऽपीह घातुवाचिना ईक्षतिशब्देनार्थो लक्ष्यते । *तदैक्षत बहुस्याम् प्रजायेये*(छान्.६-२-३)ति अचेतने ईक्षणासम्भवात् । न चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मृत्पिण्डादिदृष्टान्तस्य चोपन्यासात् अनुमानवेषत्व-प्रतीतेरानुमानिकमेव प्रधानमिह प्रतिपाद्यत इति शङ्क्यम् । प्रतिज्ञा-दृष्टान्तोपन्यासेऽपि प्रधानभूतहेत्ववयवानुपादानेनानुमानोपन्यासरूपत्वा-भावात् । *तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ(छान्.६-८-४) इति कार्यालिङ्गोपन्यासादनुमानविवक्षा प्रतीयत एवेति वाच्यम् । उपक्रमोप-सम्हाराद्यन्तर्गतोपपत्तिरूपतात्पर्यलिङ्गतया कार्यलिङ्गोपन्या-सेऽपि साङ्ख्याभिमतसुखदुःखमोहान्वितत्वरूपहेतूपन्यासादर्शनात् ।
गौणश्चेन्नात्मशब्दात् ॥१-१-६॥
ननु *तत्तेजोऽसृजत*(छान्.६-१-३) *ता आप ऐक्षन्ते*(छान्. ६-२-४) त्यचेतने तेज आदौ श्रुतस्येक्षणस्य मुख्यस्यासम्भवेन कार्यौन्मुख्य- लक्षणगौणार्थस्यैव समाश्रयणीयतया सच्छब्दितेऽपि श्रूयमाणमीक्षणम् गौणमेवास्त्विति चेन्न *ऐतदात्म्यमिदम् सर्वम् तत्सत्यम् स आत्मे* (छान्.६-८-७)ति सत आत्मत्वप्रतिपादकश्रुतिकोपप्रसङ्गेन गौणेक्षणप्राय- पाठस्यानादर्तव्यत्वात् तेजः प्रभृतिशब्दानामपि परमात्मपर्यन्ततया तत्रा-पीक्षणस्य मुख्यत्वसम्भवाच्च ।
तन्निष्ठस्य मोक्षोपदेशात् ॥१-१-७॥
*तस्य तावदेव चिरम् यावन्नविमोक्ष्येऽथ सम्पत्स्य*(छान्.६-१४-२) इति सदात्मविद्यानिष्ठस्य शरीरपातमात्रान्तरायब्रह्मसम्पत्ति लक्षणमोक्ष-श्रवणात् न प्रकृत्यात्मत्वानुसन्धान निष्ठस्य मोक्षस्साङ्ख्यमतेऽपि सम्प्रतिपन्नः ।
हेयत्वावचनाच्च ॥१-१-८॥
यदि सच्छब्दितम् प्रधानम् स्यात्तर्हि सदात्मकत्वम् मुमुक्षोर्हेयतयो पदेश्यम् स्यात् । न त्वनुसन्धातव्यत्वेनेत्यर्थः ।
प्रतिज्ञाविरोधात् ॥१-१-९॥
प्रधानविज्ञाने तत्कार्याचेतनमात्रविज्ञानेऽपि चिदचिदात्मकसर्वप्रपञ्च-विज्ञानाभावेन एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा पीड्येत ।
स्वाप्ययात् ॥१-१-१०॥
*सता सोम्य तदा सम्पन्नो भवती*(छान्.६-८-१)ति श्रुता सत्सम्पत्तिः *स्वमपीतोभवती*(छान्.६-८-१)ति स्वाप्ययत्वेन बोधयति-सच्छब्दितस्य प्रधानत्वे स्वशब्दार्थ भूतस्यात्मत्वम् नोपपद्यते । ब्रह्मत्वे तु स्वशब्दार्थ- भूतमात्मत्वमुपपद्यते । तथा अचेतने अकारणे जीवस्याप्ययशब्दितो लयश्च नोपपद्यते । ननु *सता सोम्ये*(छान्.६-८-१)ति वाक्य *सदेव सोम्य*(छान्.६-२-१)ति प्रकृतेन सता सम्पन्नो भवतीति तस्या एव सत्सम्पत्तेः सति लयरूपत्वम् श्रुतिरेवाह – *स्वमपीतो भवती* (छान्. ६-८-१)ति । ततश्च सच्छब्दस्वशब्दयोरेकविषयत्वावश्यम्भावात् सच्छब्द-स्यास्मिन् प्रकरणे परमात्मविषयत्वात् परमात्मपुरुषयोभिन्न- त्वात् परमात्मनस्तस्य कथम् पुरुषम् प्रति स्वत्वमिति चेदुच्यते – मनुष्यादि- नामरूपाभिमानरागलोभाद्यनुगुणबहिर्दुःखज्ञानप्रसरवज्जागरितावस्थजीव- विशिष्टः परमात्मा देवमनुष्यादिनामरूपरागद्वेष लोभमोहाद्यौपयिकबाह्या-भ्यन्तराभिमानकालुष्यरहित जीवशरीरकस्सन्नात्मन्यन्तर्भूत इत्यर्थ इति न स्वत्वानुपपत्तिः । अत्र अपिपूर्वस्य इतेर्लयार्थस्य सकर्म-कत्वात् स्वमपीत इति द्वितीया । *तस्मादेनम् स्वपितीत्याचक्षते स्वम् ह्यपीतो भवति*(छान्.६-८-१) यस्मात् स्वस्मिन् लीनो भवति तस्मात् स्वपितीति लौकिका आचक्षत इत्यर्थः । तत्र जीवस्य परमात्मनि लयप्रतिपादनात् तेजोबन्नादिवत् जीवस्यापि तदुपादेयत्वात् तज्ज्ञानेन ज्ञातत्वमुपपादितम् भवति ।
ननु *यत्रैतत्पुरुषः स्वपिति नामे*(छान्.६-८-१)ति पुरुषशब्द-निर्दिष्टस्यैव स्वशब्देन परामृष्टव्यतया पुरुषशब्दस्य जीवमात्रविश्रान्तत्वेन स्वशब्दस्यापि तत्पर्यन्तत्वमेव उचितम् । न च पुरुषपदस्यापि ब्रह्म- पर्यन्तत्वकल्पनम् युक्तम् । *यत्रैतत्पुरुषस्स्वपिति नाम तस्मादेनम् स्वपितीत्याचक्षत*(छान्.६-८-१) इत्युपक्रमोपसम्हारयोर्लौकिकप्रसिद्धा-नुवादात् लौकिकानाम् ब्रह्मणि प्रसिद्धेरभावात्, *सति सङ्गम्य न विदु- स्सति सम्पत्स्यामहे सत आगत्य न विदुः सत आगच्छामहे*(छान्.६-९-२)रित्युत्तरखण्डयो: प्रतिपाद्यमानस्याज्ञानस्य ब्रह्मान्वयासम्भवाच्च, *पुरुष-स्वपिति नामे*(छान्.६-८-१)ति वाक्यस्थपुरुषशब्दस्य ब्रह्मपर्यन्तत्वाभावेन स्वशब्दस्यापि ब्रह्मपर्यन्तत्वम् न सम्भवति । किञ्च *सता सोम्ये* (छान्.६-८-१)ति वाक्ये सच्छब्दिते ब्रह्मणि स्थूलावस्थजीवविशिष्ट परमा-त्मलयप्रतिपादने तत्तुल्यार्थत्वेनाभ्युपेते *प्राज्ञेनात्मना सम्परिष्वक्तः* (बृह.६-३-२१)इति वाक्येऽपि परिष्वक्तत्वमपि जीवशरीरकस्य ब्रह्मण एव स्यात् । न चेष्टापत्तिः । *सुषुप्त्युत्क्रात्योर्भेदेने*(छान्.६-९-२)ति सूत्रे परिष्वञ्जकेन प्राज्ञेन परिष्वज्यमानस्यापि अज्ञस्य जीवस्य भेदप्रति-पादनम् विरुद्ध्येति चेत्,
अत्र केचित् – शास्त्रानभिज्ञलौकिक प्रसिद्धेर्देहातिरिक्त जीवेऽप्यभावाद-भिज्ञप्रसिद्धिरेव *स्वपितीत्याचक्षत*(छान्.६-८-१) इत्यनूद्यते । अभिज्ञ-प्रसिद्धिश्च परमात्मविषयापि सम्भवति । *सति सम्पद्य नविदु* (छान्.६-९-२)”रित्यग्रिमखण्डप्रतिपाद्यमानमपि जीवद्वारा ब्रह्मणि सङ्गस्यते । *सम्परिष्वक्त*(बृह.६-३-२१)इति प्रतिपाद्यमानस्य परिष्वङ्गस्य सत्स-म्पत्तेश्च ऐक्यमपि नाभ्युपगन्तव्यम् । *सम्पन्नो भवति* (छान्.६-८-१)
सम्परिष्वक्तो भवतीत्यनयोरैकार्थ्योक्तिश्च उभयोरपि सुषुप्तिविषयत्वा-दुपपद्यते । न तु सर्वात्मनैकार्थ्यम् यतः *सुषुप्त्युत्क्रान्त्योर्भेदेने*(ब्र.सू.१-३-४३)ऽति सूत्रम् न विरुद्ध्यते । अतः *पुरुषस्स्वपिति नामे*(छान्.६-८-१)तीत्यत्रापि पुरुषशब्दो ब्रह्मपर्यन्त एव । अतः स्वशब्दस्य ब्रह्मपर्य-न्तत्वे नानुपपत्तिरिति वदन्ति ।
गतिसामान्यात् ॥१-१-११॥
सर्वेषु वेदान्तेषु *आत्मा वा इदमेक एवाग्र आसीत्*(ऐत.१-१-१) *एको ह वै नारायण आसीत्*(महोपनिषत्.१-१)। *सत्यम् ज्ञानमनन्तम् ब्रह्मे* (तै.आन.१) त्यादिषु चेतनकारणत्वावगतेस्तत्साम्यमेवेहापि वक्तव्यम् । अतस्तदैकार्थ्याय इहापि सच्छब्दितम् ब्रह्मैव कारणत्वेन निर्दिश्यते ॥
श्रुतत्वाच्च ॥१-१-१२॥
अस्यामेव उपनिषदि सच्छब्दवाच्यस्य आत्मत्वेन नामरूपव्याकर्तृत्व- सर्वज्ञत्व सर्वशक्तित्वसर्वाधारत्वापहतपाप्मत्वादीनाम् श्रवणात् नाचेतनम् प्रधानम् सच्छब्दितमिति स्थितम् ॥
इति ईक्षत्यधिकरणम् ॥