॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥
ज्योतिरधिकरणम् ॥१०॥
एवम् श्रुत्यवलम्बनपूर्वपक्षावान्तरपेटिका उक्ता । अथ कारणत्वाक्षेपक- लिङ्गानुगृहीतश्रुत्यवलम्बनमवान्तरपेटिकान्तरम् प्रस्तूयते ।
यद्यपि एतदधिकरणस्य *अथ यदतःपरो दिवो ज्योति*(छान्.३-१३-७) रित्यत्र ज्योतिश्शब्द एव सन्देहविषयः, तथाऽपि द्वितीयसूत्राद्यर्थवर्णनोप-युक्ततया लिख्यते । तथा हि-चतुष्पात्वषाङ्विध्याभ्याम् ब्रह्मणि गायत्री-सादृश्यानुसन्धानरूपा विद्या प्रस्तूयते । चतुर्विम्शत्यक्षरयुक्ता षडक्षरपाद- चतुष्टयवती च गायत्री भवति । तच्छन्दः पाञ्चालशाखाध्यायिनः उदाह-रन्ति – *पेटिला लगन्ते । पेटा विटकन्ते । तत्र किम् सम्बद्धा । तत् जग्ध्युपरेही*(पाञ्चालशाखा)ति । *इन्द्रश्शचीपतिः । वलेन पीडितः । दुश्चयवनो वृषा । समित्सु सासहिः* । इति हि गायत्री चतुष्पदा एकैकस्य पादस्य षडक्षरात्मकतया षडक्षर-पादवत्त्वेन षड्विधा च । एवम् ब्रह्मणोऽपि भूतशब्दितात्मवर्ग एकपादः, कर्मार्जित- भोगस्थानरूपः पृथिवीलोकःएकःपादः, भोगोपकरणम् शरीरमेक:पादः, आत्मस्थित्यनुगुण- प्रदेशविशेषरूपम् हृदयमेकः पाद इति भूतपृथिवीशरीरहृदयानिचत्वारः पादाः । तत्र सर्वभूतलक्षणपादस्य ब्रह्मात्मकवाक्कर्तृकगानकर्मत्वत्राण- कर्मत्वलक्षणम् विधाद्वयम् । पृथिवीलक्षण- पादस्य सर्वभूतप्रतिष्ठात्व सर्वभूतानतिवर्त्यत्वलक्षणम् विधाद्वयम् शरीरहृदयलक्षणयोः पादयोः प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वलक्षणम् विधाद्वयम् । एवम् द्वयोरपि विधा-द्वययोर्भेदाभावात् ततश्च ब्रह्मरूपा गायत्री भूतपृथिवीशरीरहृदयरूपचतुष्ट-यवत्तया चतुष्पदा गानकर्मत्वत्राणकर्मत्व सर्वभूतप्रतिष्ठात्वसर्वभूतानति-वर्त्यत्वसर्वप्राणप्रतिष्ठात्वसर्वप्राणानतिवर्त्यत्वलक्षण विधाषट्क युक्ततया षड़िवधा । अतश्चतुष्पात्त्वषाड्विध्याभ्याम् ब्रह्मणि गायत्रीसादृश्यानुसन्धा-नम् कर्तव्यमिति प्रतिपादयति *गायत्री वा इदम् सर्वम् भूतम् यदिदम् किञ्च*(छान्.३-१२-१)।
अत्र गायत्रीशब्देन न प्रसिद्धागायत्र्यभिधीयते । तस्याः भूतादिपाद-चतुष्टयसम्बन्धाभावात्,*तावानस्य महिमे*(छान्.३-१२-६)ति पुम्सूक्तमन्त्र- प्रतिपाद्यत्वाभावाच्च। अपि तु परमात्मा। कुण्डपायिनामयने *मासमग्नि- होत्रम् जुहोती*ति अग्निहोत्रशब्दः प्रयुज्यमान; तत्सादृश्यविशिष्टा- नुष्ठानार्थः । तथा गायत्रीशब्दो ब्रह्मणि प्रयुज्यमानः तत्सादृश्यानुसन्धा-नार्थः । ततश्च गायत्रीशब्देन ब्रह्मैवाभिधीयते । वै शब्दोऽवधारणे । ब्रह्मैव परिदृश्यमानसर्वभूतात्मकमित्यर्थः । ततश्च ब्रह्मणि भूतलक्षणपादवत्त्व-मुक्तम् । गायत्रीशब्दप्रवृत्तिनिमित्तमपि ब्रह्मण्युप-पादयन् विधाद्वयमाह – *वाग्वै गायत्री*(छान्.३-१२-१) । गायत्रीशब्दितम् ब्रह्मैव वाग्रूपविशिष्टम् भवतीत्यर्थः । *शब्दमूर्तिधरस्यैतद्रूपम् विष्णोर्महात्मनः* (पराशरस्मृतिः) इति पराशरस्मृत्यनुरोधात् ब्रह्मण एव शब्दरूपत्वमिति भावः । ततश्च किमित्यत्राह – *वाग्वा इदम् सर्वम् भूतम् गायति च त्रायते च*(छान्.३-१२-१) वाग्रूपमेव ब्रह्म सर्वाणि भूतान्यभिधत्ते हिताहितविधिनिषेधमुखेन त्रायते च । ब्रह्मणो वाग्रूपस्य गानत्राणकर्तृत्वाभ्याम् गायत्रीशब्दवाच्य-
त्वम् । भूतात्मकपादवतो ब्रह्मणः वाक्कर्तृकगानत्राणकर्मत्वाभ्याम् द्वै-विध्यम् चोक्तम् भवति । उक्तार्था- नुवादपूर्वकम् द्वितीयपादम् सामानाधि-करण्येनाह – *या वै सा गायत्री । इयम् वा व सा येयम् पृथिवी*(छान्. ३-१२-२) । उक्तरूपविशिष्टप्रकृतधर्मिपरः यच्छब्दः या सा सर्वभूतरूपै-कपादयुता गायत्री गायत्र्याख्यम् ब्रह्म तदेव प्रसिद्धपृथिवीत्यर्थः । कथम् पृथिव्याः ब्रह्मात्मकत्वमित्यत्राह – *अस्याम् हीदम् सर्वम् भूतम् प्रतिष्ठि-तम्*(छान्.३-१२-२) ब्रह्मात्मकत्वादेव सर्वभूतप्रतिष्ठात्वम् नहि केवलपृथि-व्यास्सर्वभूतधारणशक्तिरस्तीत्यर्थः । प्रतिष्ठात्वञ्च नियतमित्याह -*एता- मेव तानि नातिशीयन्त*(छान्.३-१२-२) इति । पृथिवीम् भूतानि नातिव-र्तन्त इत्यर्थः । पृथिवीमयब्रह्माण्डोदरे हि भोक्तृवर्ग: परिवर्तते न ततोऽ-न्यत्रेति भावः। एवम् द्वितीयपादो भूतप्रतिष्ठात्वतदनतिवर्तित्वरूपम् विधा- द्वयम् चोक्तम् । अथ तृतीयम् पाद-माह *या वै सा पृथिवी इयम् वा व सा यदिदमस्मिन् पुरुषे शरीरम्* (छान्.३-१२-३) पुरुषशब्दश्शरीरविशिष्ट-जीवपरः पृथिवीरूपपादविशिष्टा या गायत्री गायत्र्याख्यम् ब्रह्म सा शरीरम्, शरीराख्यपादविशिष्टेत्यर्थः । भूत- पृथिव्योर्गायत्रीसामानाधिकरण्येन निर्दि-ष्टतया भूतपृथिवीशब्दस्य ब्रह्मपर्यन्तत्वेन तदुपस्थापनक्षमत्वात्, अग्र्यप्रा-यन्यायेन अत्र शरीरलक्षण-पादान्तरनिर्देशकस्य शरीरशब्दस्य निष्कर्ष-कशब्दत्वेऽपि सामानाधि-करण्येन निर्देशो युक्तः । शरीरस्य ब्रह्मात्म-कत्वम् प्राणप्रतिष्ठात्वतदनति- वर्तित्वाभ्यामुपपादयति – *अस्मिन् ही मे प्राणा: प्रतिष्ठिताः एतदेव नातिशीयन्ते*(छान्.३-१२-३) नातिवर्तन्त इत्यर्थः । चतुर्थम् पादमाह – *यद्वै तत्पुरुषे शरीरम् इदम् वा व तद्यदिदमस्मिन्नन्तः पुरुषे हृदयम् * (छान्.३-१२-४)शरीराख्यपादविशिष्टम् यत् गायत्र्याख्यम् ब्रह्म तदेव हुदयशरीरकम् हृदयलक्षणपादकमित्यर्थः । हृदयस्य ब्रह्मात्मकत्वमुप- पादयति – *अस्मिन् हीमे प्राणाः प्रतिष्ठिताः । एतदेव नातिशीयन्ते* (छान्.३-१२-४) प्राणशब्देन प्राणापानादयः इन्द्रि-याणि वा गृह्यन्ते । तेषाम् हृदयसम्बन्धिनाडीद्वारा हृदयप्रतिष्ठितत्वमेव । तृतीयचतुर्थपादौ प्राणप्रतिष्ठात्वतदनतिवर्तिरूपम् विधाद्वयञ्चोक्तम् । एव-मुक्तम् चतुष्पात्त्वम् षाड्विध्यम् च निगमयति – *सैषा चतुष्पदा षङ्क्विधा गायत्री*(छान्.३-१२-५) । नन्वेवम् चतुष्पात्त्वे ब्रह्मणः परिच्छि-न्नत्वम् स्यादिति शङ्कायाम् उक्तमहिम्न एतावत्त्वप्रतिषेधिकामृचमुदा-हरति *तदेतदृचाभ्यनूक्तम्*(छान्.३-२२-५) एतत् गायत्र्याख्यम् ब्रह्म अभिमुखीकृत्य तामेव वाचम् पठति । *तावानस्य महिमा*(छान्.३-१२-६) नियाम्यवर्गः । *ततो ज्यायाम्श्च पूरुषः*(छान्.३-१२-६) पूर्वोक्तमहि-मापेक्षया पुरुषो ज्यायान् । परमात्मा ततोऽधिकमहिमशालीत्यर्थः । *पादोस्य सर्वाभूतानि*(छान्.३-१२-६) अचिसम्सृष्टा श्चेतनास्सर्वे पाद: अम्शमात्रमित्यर्थः । *त्रिपादस्यामृतन्दिवि*(छान्.३-१२-६) अप्राकृत-स्थानविशेषे अस्य परमात्मनः अमृतम् पादत्रयमित्यर्थः । त्रिपात्त्वम् च अप्राकृतभोग्यभोगस्थानभोगोपकरणविशेषैरिति मन्तव्यम् ।
अथ ब्रह्मोपासनाङ्गत्वेन द्वारपोपासनम् विधीयते *तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः*(छान्.३-१३-१) । *ते वा एते पञ्च ब्रह्म पुरुषा: स्वर्गस्य लोकस्य द्वारपाः*(छान्.३-१३-६) ब्रह्मपुरुषा: ब्रह्मसम्बन्धिनः पुरुषाः। हृदयाकाशाख्यस्य भगवल्लोकस्य द्वारपाः आतिवाहिकाः । आनुषङ्गिकम् फलमाह – *य एतानेवम् पञ्च ब्रह्म पुरुषान् स्वर्गस्य लोकस्य द्वारपान्वेद अस्य कुले वीरो जायते*(छान्.३-१३-६) वीरः पुत्री जायत इत्यर्थः। प्रधानम् फलमाह – *प्रतिपद्यते स्वर्गम् लोकम् य एतानेवम् पञ्च ब्रह्म पुरुषान् स्वर्गस्य लोकस्य द्वारपान्वेद*(छान्.३-१३-६) भगवल्लोकद्वारपालकोपासनया अनिवारितस्सन् स्वर्गम् लोकम् प्रतिपद्यत इत्यर्थः । एवम् गायत्रीविद्या प्रकृता ।
तत्सम्बन्धिनस्सकलफलप्रदस्य परस्य ब्रह्मणः आभिरूप्यकीर्तिमत्त्व-रूपफलविशेषार्थम् कौक्षेयज्योतिषैक्यानुसन्धानमुपदिश्यते*अथ यदत: परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषु*(छान्.३-१३-७) *तथाऽक्षरात्सम्भवतीह विश्वमि*(मुण्ड.१-१-७)ति। इह जगदन्तर्वर्तिव्यष्टि- जाते विश्वशब्दप्रयोगात् विश्वशब्दो व्यष्टिपरः। सर्वशब्दः परिशेषात्समष्टि- तत्वपरः । ततश्च अप्राकृतस्थानविशेषस्य उपरिष्टात् समष्टिव्यष्टिबहि- र्भूतेषु स्वावधिकोत्तमरहितोत्तमस्थानविशेषेषु *तस्य भासा सर्वमिदम् विभाती*(मुण्ड.२-२-१०, कठ.२-५-१५)ति अवभासकतया ज्योतिश्शब्दित-परमात्मा यद्दीप्यत इत्यर्थः । अत्र यच्छब्दस्य सर्वनामात्वेन प्रकृत-परामर्शितया प्रकृतम् त्रिपाद्ब्रह्म परामृश्यते । इदम् वा व तद्यदिद- मस्मिन्नन्तः पुरुषे ज्योतिः*(छान्.३-१३-७) दिवः परस्ताद्दीप्यमानम् त्रिपाद्ब्रह्म कौक्षेयज्योतिरेव कौक्षेयज्योतिश्शारीरकमेव ततश्च तदात्म-कत्वानुसन्धानम् कर्तव्यमित्यर्थः। *तस्यैषा दृष्टिर्यत्रैतदस्मिन् शरीरे सम्स्पर्शेनोष्णिमानम् विजानाति*(छान्. ३-१३-७) यत्र -यदा शरीरे हस्तस्पर्शेनोष्णिमानम् विजानातीति यत् । यदौष्ण्योपलम्भनम्, तत्तस्य परमात्मनश्शरीरभूतस्य जाठराग्नेरेषा दृष्टिः । उपलभ्यमानस्य उष्ण-स्पर्शस्य जाठराग्निसम्बन्धित्वात् तत्स्पर्शसाक्षात्कार एव तत्साक्षात्कार इत्यर्थः । तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव – रथघोषमिव । नदधुमिव – वृषभकूजितमिव । बहिर्ज्वलतोऽग्नेश्शब्दमिव श्रुणोतीति यत्, तच्छब्दश्रवणमेवतच्छ्रवणमित्यर्थः । *तदेतदृष्टञ्च श्रुतञ्चेत्यु-पासीते*(छान्.३-१३-७)ति । तदेतत् परमात्मशरीरभूतम् कौक्षेयज्योतिः उक्तरीत्या दृष्टत्वश्रुतत्वाभ्याम् उपासीतेत्यर्थः ।
*अथ यदतः परो दिवो ज्योतिरि*(छान्.३-१३-७)ति वाक्ये ज्योति-श्शब्दितम् प्रसिद्धम्ज्ञ्यादिज्योतिरेव । कौक्षेयज्योतिषैक्या-ध्यासस्य भौतिकज्योतिष्येवोपपतेः । दीप्तेः रूपवद्विषयत्वेन नीरूपे परमात्मनि दीप्तेरसम्भवात्, *परो दिवः*(छान्.३-१३-७) इति द्युमर्यादत्व-स्यापि निर्मर्यादे परमात्मनि असम्भवात्, *लोकेष्वि* (छान्.३-१३-७) त्याधारबहुत्वस्यापि निराधारे असम्भवात्, चक्षुष्यत्वश्रुतत्वरूपाल्प-फलश्रवणाच्च रूपवद्विषयदीप्ति– द्युमर्यादत्वआधारबहुत्वकौक्षेयज्योति-रध्यासचक्षुष्यश्रुतत्वरूपाल्पफलोपासनोपास्यत्वरूपवाक्याशेषश्रुतत्व-लिङ्गानुगृहीतज्योतिश्श्रुत्या प्रसिद्धम् अग्न्यादिज्योतिरेवेह उपदिश्यत इति पूर्वपक्षे प्राप्त उच्यते –
ज्योतिश्चरणाभिधानात् ॥१-१-२५॥
द्युसम्बन्धितया निर्दिष्टनिरतिशयदीप्तियुक्तम् ज्योतिःपरमपुरुष एव । *पादोऽस्य सर्वाभूतानी*(छान्.३-१२-६)ति मन्त्रे द्युसम्बन्धिनस्सर्वभूत-चरणत्वाभिधानात् तस्यैव द्युसम्बन्धिनः इहापि द्युसम्बन्धित्वेन प्रत्य- भिज्ञानात्, यच्छब्दस्य सर्वनामत्वेन प्रकृतपरामर्शित्वस्यैव युक्ततया द्युसम्बन्धित्वेन प्रकृतत्रिपाद्ब्रह्मपरामर्शस्यैव युक्तत्वात्, फलार्थतया परमात्मन्येव कौक्षेयज्योतिश्शरीरकत्वानुसन्धानस्य उपपत्तेः, रूपवद्वि-षयदीप्तिद्युमर्यादत्वलोकाधारत्वादीनामन्तरादित्यविद्यान्यायेन विग्रहविशिष्ट एव उपपत्तेः, भासकत्वप्रवृत्तिनिमित्तकज्योतिश्शब्दस्यापि तत्र वृत्तिसम्भ-वात्, ज्योतिश्शब्दित: परमपुरुष एव ।
छन्दोऽभिधानान्नेति चेन्न तथाचेतोऽर्पणनिगमात्तथा हि दर्शनम्
॥१-१-२६॥
पूर्वत्र *गायत्री वा इदम् सर्वमि*(छान्.३-१२-१)ति गायत्र्याख्यछन्दसः प्रकृतत्वात् तस्यैव *पादोऽस्य सर्वाभूतानी*(छान्.३-१२-६)ति सर्वभूत-चरणत्वाभिधानात् न परब्रह्मणः प्रकृतत्वम्, येन यच्छब्दश्रुत्या तत्परा-मर्शस्स्यादिति चेन्न । तत्र गायत्रीशब्देन न छन्दः परामृश्यते, अपि तु ब्रह्मण एव गायत्रीचेतोऽर्पणम् हि निगम्यते । ब्रह्मणि गायत्रीसादृश्यानु-सन्धानम् फलाय उपदिश्यत इत्यर्थः । चतुष्पादश्च ब्रह्मणः चतुष्पादया गायत्र्या सादृश्यसम्भवात् । तथा अन्यत्रापि सादृश्यात् छन्दोऽभिधायी शब्दः अर्थान्तरे प्रयुज्यमानो दृश्यते । यथा सम्वर्गविद्यायाम् अग्निसूर्य-जलचन्द्रवायुवाक्चक्षुश्श्रोत्रमनः प्राणरूपेषु दशसु दशत्वसङ्ख्यासाम्यात् *सैषा विराडन्दोन्नात्*(छान्.४-३-८) इति छन्दोवाचिनो विराट्छब्दस्य प्रयोगो दृष्टस्तद्वत् ।
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥१-१-२७॥
भूतपृथिवीशरीरहृदयलक्षणपादचतुष्टयवत्त्वस्य *सैषा चतुष्पदे*(छान्.३-१२-५)ति प्रतिपादितस्य छन्दोरूपायाम् गायत्र्यामसम्भवात् गायत्रीशब्देन ब्रह्मैवाभिधीयते । ततो गायत्रीशब्दाभिहितम् त्रिपाद्ब्रह्मैव ज्योतिर्वाक्येऽपि यच्छब्दश्रुत्या पूर्वप्रत्यभिज्ञापकद्युसम्बन्धित्वलिङ्गानुगृहीतया प्रतिपाद्यते।
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥१-१-२८॥
पूर्ववाक्ये *त्रिपादस्यामृतम् दिवी*(छान् ३-१२-६)ति दिवोऽधिकरण-त्वेन निर्देशात् ज्योतिर्वाक्ये *परो दिवः*(छान्.३-१३-७) इत्यवधित्वेन निर्देशान्न प्रत्यभिज्ञा सम्भवतीति चेन्न । वृक्षाग्रे वर्तमाने *वृक्षाग्रात् श्येनोवृक्षाग्रे श्येन* इति पञ्चमीसप्तम्योः प्रयोगदर्शनात् इहाप्युपपत्तेरिति भाव इति स्थितम् ।
॥ इति ज्योतिरधिकरणम् ॥