॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥
प्राणाधिकरणम् ॥९॥
चिन्तोपयुक्तवाक्यानि व्याख्यायन्ते । *अथ हैनम् प्रस्तोतोपससाद* (छान्.१-११-४) उषस्तिवचनम् श्रुत्वा प्रस्तोता विनयेन उषस्तिसमीपमाग- तवानित्यर्थः । *प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता ताञ्चेदविद्वान प्रस्तो-ष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति* (छान्.१-११-४) भगवान् माम् प्रति *प्रस्तोतर्या देवते*(छान्.१-११-४)त्या-दिना यान्देवतामुक्तवान् सा देवता केति पप्रच्छेत्यर्थः । *प्राण इति होवाच *(छान्.१-११-५) अत्र प्राणयितृत्वगुणयोगात् प्राणशब्देन परमात्मोच्यते । प्राणशब्दस्य मुख्यप्राणपरत्वम् व्यावर्तयति । *सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसम्विशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्ताव-मन्वायत्ता*(छान्.१-११-५) प्राणमभिलक्ष्य सम्विशन्ति समित्येकीकरणे । ऐक्येन विशन्ति लीयन्त इत्यर्थः । प्राणमभ्युज्जिहते – प्राणादेवोद्गच्छ-न्तीत्यर्थः सर्वभूतलयोत्पत्तिस्थानत्वेन वेदान्तेषु प्रसिद्धा प्राणरूपा देवता प्रस्तावभक्त्यनुगता प्रस्तावभक्तावध्यस्य उपास्येत्यर्थः । *ताञ्चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति*(छान्.१-११-५) *ताञ्चेद-विद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यती* (छान्.१-११-५)ति मदुक्त्यन-न्तरमपि मदुक्तिमनादृत्य तद्देवतामनभिज्ञाय यदि प्रस्तोष्यसि तदा ते मूर्धा व्यपतिष्यदेव । साधुकृतम् त्वया मत्समीपमागत्य विनयेन पृच्छ-तेति भावः । अत्र *मूर्धा ते व्यपतिष्यत्तथोक्तस्यमये*(छान्.१-११-५) त्युक्त्या विदुषा एवमुक्तस्य अविदुषस्तदनादरेण कर्मकरणे प्रत्यवायः, न तु विदुषाऽनुमतस्याप्यविदुष इत्यर्थः । यद्यपि *तेनोभौ कुरुतो यश्चैवम् वेद यश्च न वेद*(छान्.१-१-१०) इति अविदुषोऽपि आर्त्विज्याधिकारोऽस्ति, तथाऽपि विद्वत्सन्निधौ अविदुषः कर्माधिकारो नास्तीति ध्येयम् । व्या-सार्यैस्तु *मूर्धा ते व्यपतिष्यदि*(छान्.१-११-६)त्यस्य आत्म- सत्ता न लभ्यत इत्यर्थ इत्यात्मसत्ताहानिपर्यन्तः प्रत्यवायोऽपि वर्णितः । *अथ हैनमुद्गातोपससाद उद्गातर्या देवता उद्गीथमन्वायत्ता ताञ्चेदविद्वानु-द्गास्यति मूर्धा ते विपतीष्यतीति मा भगवान-वोचत्कतमा सा देवतेति* (छान्.१-११-६) पूर्ववदर्थः । *आदित्य इति होवाच सर्वाणि ह वा इमानि भूतानि आदित्यमुच्चैस्सन्तम् गायन्ति सैषा देवतोद्गीथमन्वायत्ता ताञ्चे-दविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति*(छान्.१-११-७) उच्चैस्सन्तम् उच्चैस्थितम् अत:स्थितानि भूतानि गायन्तीत्यर्थ: उच्छब्दवत्त्वेन साम्यमिति भावः शिष्टम् पूर्ववत्। *अथ हैनम् प्रतिहर्तो-पससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता ताञ्चेदविद्वान् प्रतिहरिष्यसि मूर्द्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति *(छान्.१-११-९)। *अन्नमिति होवाच सर्वाणि ह वा इमानि भूतानि अन्नमेव प्रतिहर-माणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता ताञ्चेदविद्वान् प्रत्य-हरिष्यो मूर्द्धा ते व्यपतिष्यत्तथोक्तस्य मयेति*(छान्.१-११-९) प्रतिहरमा-णानि – भक्षयन्ति सन्तीति शेषः । अत्र प्रतिशब्दवत्त्वेन अन्नप्रतिहार-योस्साम्यात् प्रतिहारे अन्नाभिमानिदैवताध्यासः ततश्च प्रस्तावोद्गीथ- प्रतिहारभक्तिषु प्राणादित्यान्नदृष्टिः कर्तव्येत्यर्थः ।
अत्र प्राणवाक्ये चिन्त्यते, तथाहि – प्राणस्य भूतजातप्रवृत्तिहेतुत्व-सम्भवात्, प्राणशब्देन मुख्यप्राण एवाभिधीयतामिति पूर्वपक्षे प्राप्ते –
अत एव प्राणः ॥१-१-२४॥
शिलाकाष्ठाद्यचेतनस्वरूपस्य शुद्धस्य जीवस्वरूपस्य च मुख्यप्राणा-धीनस्थितिकत्वाभावात् प्रसिद्धवन्निर्दिष्ट सकलचेतनोत्पत्तिलयहेतु- त्वस्य परमात्मव्यतिरिक्ते असम्भवात् चेतनवाचिदेवताशब्दस्य अचेतने मुख्य-प्राणे असम्भवाच्य परमात्मैव प्राणयितृत्वादियोगवशेन अभिधीयत इति अत एव प्राण इति सूत्रेण सिद्धान्तितम् ।
ननु प्रस्तावोद्गीथप्रतिहारभक्त्यनुगतत्वेन देवतात्वेन च निर्दिष्टेषु प्राणादित्यान्नेषु प्राणस्यैव परमात्मत्वम्, आदित्यान्नयोस्तु न तथात्व-मित्यत्र किम् विनिगमकम् । चेतनवाची देवताशब्दस्त्रिष्वपि समानः, प्राणवाक्यशेषे प्रसिद्धप्राणासम्भावितासङ्कुचित सर्वभूतसम्वेशनोद्गमना-धारत्व श्रवणवत् आदित्यान्न-वाक्यशेषयोरपि असङ्कुचितसर्वभूतगेयत्व-सर्वभूतोपजीव्यत्वयोः प्रसिद्धादित्यान्नासम्भावितयोश्श्रवणाविशेषात् । यदि चादित्यवाक्ये सर्वभूतशब्द आदित्यादिगानयोग्यचेतन-विशेषपरतया अन्नवाक्यशेषे च अन्नोपजीवनयोग्य-चेतनविशेषपरतया सङ्कोच्यते, देवताशब्दश *अभिमानिव्यपदेशस्तु विशेषानुगातिभ्यामि*(ब्र.सू.२-१-५)ति सूत्रोक्तन्यायेन अभिमानिपरतया योज्यते, तर्हि प्राणेऽपि तथाऽस्तु विशेषा-भावादिति चेत्, उच्यते । प्राणशब्दस्य *प्राणस्य प्राणः*(तलवकार.उ(केन) १-२) । *यदिदम् किञ्च जगत्सर्वम् प्राण एजति निस्सृतमि*(कठ.२-६-२)त्यादिषु परमात्मन्यपि निरूढत्वात् *सर्वाणि ह वा इमानि भूतानी* (छान्.१-११-९)त्यादिशब्दस्वारस्याच्च परमात्म-परत्वमाश्रितम् । आदि- त्यान्नशब्दयोरतथात्वात् चेतनवाचिदेवताशब्दस्य केवलादित्यमण्ड-लान्नयोरभावात् तदभिमानि-देवतापरत्वम् । अन्नाभिमानिदेवतायाश्च भूतभक्ष्यत्वम् तदधिष्ठेयान्नाभेदारोपेण उपपद्यते। *सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैस्सन्तम् गायन्ती* (छान्.१-११-९)ति प्रतिपादितम् सर्वभूतगेयत्वम् परमात्मनो न सम्भवति । भूतशब्दो हि प्राणिनिकाये महाभूते च रूढः । महाभूतस्य गातृत्वप्रसक्तेरेवाभावात् प्राणिनिकाय-परत्वम् वक्तव्यम् तदपि न सम्भ-वति। न हि सर्वे प्राणिनः परमात्मा-नम् गायन्ति, स्थावरेषु पश्चादिषु चाभावात् । तस्माद्गानयोग्यप्राणिविशेष-परत्वेन सङ्कोच: परमात्म-परत्वेऽप्यावश्यक इत्यादि-त्यशब्दस्य लोक-व्युत्पत्तिविरुद्धपरत्वन्नाश्रयणीयम्, एवमन्नवाक्यशेषेऽपि *प्रतिहरमाणानी* (छान्.३-१३-७) ति भक्ष्यमाणत्वम् न परमात्मनि मुख्यम् । अत आदि-त्यान्नशब्दयोर्ब्रह्म-परत्वाभावेऽपि प्राणशब्दस्य ब्रह्मपरत्वम् सिद्धमिति द्रष्टव्यम् ॥
इति प्राणाधिकरणम् ॥