॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥
शास्त्रयोनित्वाधिकरणम् ।। 3 ||
शास्त्रयोनित्वात्।।
अथ ब्रह्मणो मानान्तरसिद्धिमूलशास्त्रानारम्भशङ््कानिराकरणार्थम् तृतीयमिदमधिकरणम् । शास्त्रयोनित्वादिति ।।
बृहदारण्यके शाकल्य-याज्ञवल्क्यसम्वादे याज्ञवल्क्यः शाकल्यं पृच्छति – ‘एतान्यष्टावायतनानि अष्टौ लोका अष्टौ देवा अष्टौ पुरुषास्सर्वान् यस्तान् पुरुषान्निरूह्य प्रत्यूह्यात्यक्रामत् तन्त्वौपनिषदं” पुरुषं पृच्छामि तच्चेन्मे न वक्ष्यसि मूर्धा ते व्यपतिष्यदिति । यानि प्रागुक्तानि पृथिव्यादीन्यष्टावायतनानि, अग्न्याद्या अष्टौ लोकाः, अमृताद्यावष्टौ देवाः शरीराद्यावष्टौ पुरुषाः, सर्वान् य एतान् पुरुषान्निरूह्य प्रत्यूह्यात्यक्रामत् । अत्र पुरुषानित्युपलक्षणम् । आयतनलोकादीन्यपि द्रष्टव्यम् । सम्यक् निर्धारणार्थो निरूहः । प्रतिव्यक्त्यूहः प्रत्यूहः । ण्यर्थगर्भश्च । तथा चायमर्थः । यः पुरुषः आयतनदेवलोकपुरुषान् प्रतिव्यक्ति तर्केण तत्तत्स्वरूपं निर्धार्य तान् सर्वानूहयित्वा अत्यक्रामत् । अतिक्रमणन्नाम इदं वा परं इदं परमिति संशयविषयतातिक्रमणम् । सकलकार्यवर्गविलक्षणत्वेन निश्चितमित्यर्थः । एतेन अतिक्रमणकर्तृत्वं औपनिषदात्मगतम् । निरूहप्रत्यूहकर्तृत्वम् तु पुरुषगतमिति शङ््का परास्ता । ऊहविषयस्यापि परमात्मनः ऊहयितृत्वसम्भवात् सम्शयविषयतातिक्रमणव्यापारमात्रकर्तृत्वसम्भवाच्च । तं त्वौपनिषदं पृच्छामि । तं सकलकार्यविलक्षणम् । औपनिषदं – उपनिषदेकसमधिगम्यम् । उपनिषदेकप्रमाणकम् । तां पृच्छामि । तं चेन्मम न वक्ष्यसि मूर्धा ते व्यपतिष्यदिति शशापेत्यर्थः ।
ननु ब्रह्मण उपनिषदेकसमधिगम्यत्वमसिद्धम् । अंकुरादिकं सकर्तृकं कार्यत्वादित्यनुमानसिद्धत्वादीश्वरस्य । अतो न वेदान्ताः प्रमाणम् । अनुमानसिद्धेश्वरानुवादित्वात् । अत एव वेदान्तग्रथनमीमांसाशास्त्रं नारम्भणीयम् । न चेश्वरमनुमानसिद्धमनूद्य वेदान्तैर्जगदुपादानत्वादिकं बोध्यताम् । अतश्शास्त्रमारभ्यतामिति वाच्यम् । कार्यत्वस्य उपादानभिन्नकर्तृव्याप्ततया अभिन्ननिमित्तोपादानप्रतिपादकवेदान्तवाक्यस्य धर्मिग्राहकानुमानजातीयनिमित्तोपादानभेदग्राह्यनुमान बाधितत्वात् न वेदान्तवाक्यं ब्रह्मणि प्रमाणमिति प्राप्त उच्यते शास्त्रयोनित्वादिति ।।
शास्त्रं योनिः प्रमाणं यस्य तत् शास्त्रयोनि । तत्त्वात् । शास्त्रैकसमधिगम्यत्वात् । वेदान्तानां” ब्रह्मणि प्रामाण्यमस्तीत्यर्थः । कार्यत्वेन हेतुना सकर्तृकत्वसाधनात् तेनैव हेतुना गुणत्रयवश्यकर्तृकत्वशरीर जन्यत्वादेरपि प्रसङ्गात् प्रासादादिविपुलकार्यस्य अनेककर्तृकत्वदर्शनेन क्षित्यादिकार्यस्यापि तथात्वप्रसङ्गाच्च । ईश्वरस्य नित्यकृत्यभ्युपगमे तद्द्वारा हेतुभूतयोः ज्ञानेच्छयोरीश्वरे असिद्धिप्रसङ्गेन ज्ञानेच्छप्रयत्नलक्षणगुणत्रयाश्रयेश्वरासिद्धिप्रसंगात्् । अतश्शास्त्रैकसमधिगम्येश्वरे उपादानत्वप्रतिपादकवेदान्तभागस्य नानुपपत्तिरिति ब्रह्मण उपनिषदेकगम्यत्वं युक्तम् ।।
इति शास्त्रयोनित्वाधिकरणम् ।।