॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥
अन्तर्याम्यधिकरणम् ॥४॥
*स्थानादिव्यपदेशाच्चे*(ब्र.सू.१-२-१४)तिसूत्रे *यश्चक्षुषि तिष्ठन्नि*(बृह.५-७-१८)त्यादिना उक्तम् चक्षुषि स्थितिनियमनादिकर्म परमात्मधर्म इति सिद्धव-त्कृत्वा अक्षिपुरुषस्य परमात्मधर्मत्वम् साधितम् । तदेवेदानीम् समर्थ्यत इति सङ्गतिः ।
अन्तर्यामिब्राह्मणमस्य विषयः । तत् सङ्गृहा लिख्यते – *अथ हैनमुद्दालक आरुणि: पप्रच्छ*(बृह-५-७-१) अरुणस्यापत्यमारुणिः *याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य गृहेषु यज्ञमधीयानाः*(बृह-५-७-१) । *गृहाः पुम्सि च भूम्न्येव*(अमर कोशः (पुरवर्गः))ति एकस्मिन् बहुवचनम् । यज्ञम् – कल्पसूत्रम् । अवसाम – उषितवन्तः । *तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसी-ति सोऽब्रवीत् कबन्ध आधर्वणिक इति*(बृह-५-७-१)। नाम्ना कबन्धः अथर्वपुत्रश्च । *सोऽब्रवीत्पतञ्जलम् काप्यम् याज्ञिकाम्श्च*(बृह-५-७-१) । याज्ञिकान् –कल्प-सूत्राद्ध्येतॄन् । *वेत्थ नु त्वम् काप्य तत्सूत्रम् येनायञ्च लोकः परश्च लोकस्सर्वाणि च भूतानि सन्दृब्धानि भवन्ति*(बृह-५-७-१) । तत्सूत्रम् तादृशसूत्रमात्रम् वेत्थ किमिति प्रश्नः । सन्दृब्धानि सूत्रेण पुष्पाणीव ग्रथनेन विष्टब्धानीत्यर्थः । काप्य आह *नाहन्तद्भगवन्वेदेति*(बृह-५-७-१) । पुनर्गन्धर्वः पृच्छति *सोऽब्रवीद्वेत्थ नु त्वम् काप्य तमन्तर्यामिणम् य इमम् लोकम् परम् च लोकम् सर्वाणि च भूतानि योऽन्तरोयमयतीति*(बृह-५-७-१) । सोऽब्रवी-त्पतञ्जलम् काप्यम् याज्ञिकाम्श्च यो वै तत्काप्य सूत्रम्श्च विद्यात्तम् चान्तर्यामि-णमिति । इतिशब्दः प्रकारवचनः । तत्सूत्रम् तम् चान्तर्यामिणम् अस्मद-वगतप्रकारेण यो विद्यादित्यर्थः । *स ब्रह्म-वित्स लोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्ववित्*(बृह-५-७-१) एवम् तेभ्यः काप्य याज्ञिकेभ्यः गन्धर्वोऽब्रवीदित्यर्थः । *यथा वेत्थ तथा ब्रूहीति स होवाच वायुर्वै गौतम तत्सूत्रम् वायुना वै गौतम सूत्रेण अयम् च लोकः परश्च लोकस्सर्वाणि च भूतानि सन्दृब्धानि भवन्ति तस्माद्वै गौतम पुरुषम् प्रेतमाहुर्व्यस्रम्सिषतास्याङ्गानीति* (बृह-५-७-१) यस्मात्सर्वाणि वायुना ग्रथितानि तस्मा-देव हेतोरुत्क्रान्तप्राणस्य पुरुषस्य अङ्गानि उत्सूत्रमाल्यानीव विस्रस्तानि भवन्ति । अतो वायुग्रथितम् सर्वमिति भावः । भवत्वेतदेवम् इतरद्रूहीत्याह । *एवमेवैतद्याज्ञवल्क्यान्त-र्यामिणम् ब्रूहीति स होवाच*(बृह-५-७-२) । *यः पृथिव्याम् तिष्ठन् पृथिव्या अन्तरो यम् पृथिवी न वेद यस्य पृथिवी शरीरम् यःपृथिवीमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृतः*(बृह-५-७-३) पृथिव्याम् स्थितः तदन्तर्गतः तच्छरीर-कस्सन् योऽन्तः प्रविश्य प्रवृत्तिनिवृत्तिलक्षणनियमनम् करोति एषो-ऽन्तर्यामी ते अमृतः आत्मा निरुपाधिकामृतत्वशाली आत्मेत्यर्थः । अत्र *त आत्मे*(बृह-५-७-३)ति व्यधिकरणनिर्देशात् अन्तर्यामिणो जीवव्यतिरेकस्सिद्धः । आत्मशब्दस्य स्वरूपवचनत्वशङ्कया जीवव्यावृत्तिर्न प्राप्नोतीति अमृत इत्यु- क्तम् । निरुपाधिकामृतत्वशाली आत्मा परमात्मैव । नन्वत्र प्रश्नानुरूप्येण *इमम् च लोकम् परञ्च लोकम् सर्वाम् च भूतानि योऽन्तरो यमयति एष त आत्माऽन्तर्यामी*त्येकेनैव निर्देशेन सर्वान्तर्यामिणः उद्दालकम् प्रति ते आत्मेति आत्मत्वप्रतिपादनसम्भवात् *यः पृथिव्याम् तिष्ठन्*(बृह.५-७-३) *योऽप्सुतिष्ठन्* (बृह-५-७-४) इत्यादिपर्यायोपदेशबाहुळ्यम् किमर्थमिति चेन्न । एकैकवस्तु-ष्वपि परिपूर्णत्वेन नियन्तृतया स्थितिज्ञापनार्थत्वेन तत्सार्थक्यात् । परिपूर्णत्वञ्च अणुमात्रेऽपि स्थितस्य निरवधिकषाड्गुण्यविशिष्टस्वप्रतिपत्तियोग्यत्वम् । ननु *सर्वाणि भूतानि योऽन्तरो यमयति तम् मे ब्रूही*(बृह-५-७-१)ति सर्वभूतस्या- न्तर्यामी एकोऽस्ति स वक्तव्य इति पृष्टवन्तम् प्रति पृथिवीजलाद्यन्तर्याम्येव ते अन्तर्यामीति पृथिवीजलान्तर्यामिणः उद्दालकान्तर्यामिणश्चाभेदबोधनमसङ्गतम्, अन्तर्याम्यैक्यस्य प्रागेव निश्चितत्वात् *स त आत्मे*(बृह.५-७-२२ (माध्यन्दिनाः)) त्यत्र आत्मशब्दो नान्तर्यामिवचनः, अपि तु स्वरूपवचन इत्येव युक्तमिति चेन्न आत्मशब्दस्य शेषित्वाधारत्वाद्यर्थकतयाऽप्युपपत्तेः । *पतिम् विश्वस्ये*( तै. महान १० आनु)त्यादिवाक्यैः विश्वशेषिणः कस्यचिदवगतत्वात् तेन वाक्येन प्रतिपन्नस्ते आत्मा ते शेषी पृथिव्यादीनामन्तर्यामीति प्रघट्टार्थः । एवम् *योऽज्ञानावप्सु अन्तरिक्षे वायौ दिवि आदित्ये दिक्षु चन्द्रतारके आकाशे
तमसि तिष्ठन्नेष त आत्मेत्यधिदैवतम्*(बृह-५-७-२५) । *सर्वेषु भूतेषु तिष्ठ-न्नधिभूतम् । अथाध्यात्मम् । यःप्राणे वाचि चक्षुषि श्रोत्रे मनसि त्वचि विज्ञाने रेतसि तिष्ठन् एष त आत्मा*(बृह-५-७-१५, १६ -२३) । उपदिष्टः अन्तर्यामीति
शेषः । अत्र विज्ञानशब्दः जीवात्मपरः । समानप्रकरणे माध्यन्दिनशाखायाम् विज्ञानशब्दस्थाने *य आत्मनि तिष्ठन्नि*(बृह. ५-७-२२ (माध्यन्दिनाः))त्यात्म-शब्देन निर्देशात् । *अदृष्टो द्रष्टा अश्रुतश्श्रोता अमतो मन्ता अविज्ञातो विज्ञाता* (बृह.५-७-२३) अत्र द्रष्टत्वम् – रूपसाक्षात्कारवत्त्वम् । न चक्षुर्जन्यज्ञानवत्त्वम् । तस्य परमात्मन्यसम्भवात् । श्रोतृत्वम् -शब्दसाक्षात्कारवत्त्वम् । मन्तृत्वम् -मन्तव्यविषयसाक्षात्कर्तृत्वम् । विज्ञातृत्वम् – विज्ञान – शब्दितनिदिध्यासन-विषयसाक्षात्कर्तृत्वम् । यद्यपि द्रष्टुत्वादिकम् जीवस्याप्यस्ति, तथाऽपि अदृष्ट-त्वादिना विशेषितम् द्रष्टुत्वम् तस्य नास्तीति भावः । अत्र च द्रष्टुत्वादावुपा- ध्यनुक्ते: निरुपाधिकद्रष्टुत्वमर्थसिद्धम् । *नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति विज्ञाता एष त आत्माऽन्तर्याम्यमृतः अतोऽन्यदार्तम् ततो होद्दालक आरुणिरुपरराम*( बृह.५-७-२२) । अन्यशब्दादेस्सर्वनाम्नः पूर्व-निर्दिष्टसदृशान्यपरत्वस्य *समानेषुपूर्वत्वादि*(जै.मी.७-२-१३)ति साप्तमिका-धिकरणे व्यवस्थितत्वात् अत्राप्यन्यशब्देन पूर्वनिर्दिष्टादृष्टत्वादिविशेषितनिरु- पाधिकसाक्षात्कारादिमतः निषेध उपपद्यते, जीवस्य करणायत्तज्ञानत्वात्,
अन्यस्तादृशो द्रष्टा नास्तीत्यर्थः । एवमुत्तरत्रापि ।
*यः पृथिव्याम् तिष्ठन्नि*(बृह.५-७-३) ‘त्यारभ्य अधिदैवतमधिलोकमधिवेद-मधियज्ञमधिभूतमध्यात्मञ्चान्तरवस्थितोऽयमन्तर्यामी जीव एव स्यात् । वाक्य-शेषे *द्रष्टा श्रोते*ति करणायत्तज्ञानवत्त्वोक्तेः । न च दर्शनश्रवणादिशब्दाः रूपशब्दादिसाक्षात्कारपराः, तादृशसाक्षात्कारवत्त्वञ्च परमात्मनोऽपि सम्भव-तीति वाच्यम् । तथा हि सति *नान्योऽतोऽस्ति द्रष्टे*(बृह.५-७-२३)ति तदतिरि- क्तद्रष्ट्रुनिषेधानुपपत्तेः, जीवस्यैव रूपादिसाक्षात्कारवतस्सत्वात् । द्रष्ट्रादिशब्दानाम् करणायत्तज्ञानवत्त्वार्थकतया जीवपरत्वे तु जीवव्यतिरिक्तस्य करणायत्तज्ञानवतो निषेध उपपद्यते, ईश्वरस्य करणायत्तज्ञानवत्त्वाभावादिति शङ्कायामाह
अन्तर्याम्यधिदैवादिलोकादिषु तद्धर्मव्यपदेशात् ॥१–२–१९॥
अधिलोकादयो माध्यन्दिने द्रष्टव्याः । अधिदैवादिषु श्रूयमाणोऽन्तर्यामी परमात्मैव । सर्वभूतान्तरत्वादेः परमात्मधर्मस्य श्रवणात् ।
न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ॥१–२–२०॥
यथा स्मार्तम् प्रधानम् *अदृष्टो द्रष्टे*(बृह.५-७-२३)ति श्रुतस्यादृष्टत्वविशिष्टे द्रष्ट्रुत्वस्य सर्वान्तर्यामित्वामृतत्वादेश्च तदसम्भावितधर्मस्य श्रवणान्न प्रतिपाद्यम्, एवम् न जीवोऽत्र प्रतिपाद्यः।
उभयेऽपि हि भेदेनैनमधीयते ॥१–२–२१॥
काण्वा माध्यन्दिनाश्चोभयेऽपि अन्तर्यामिणम् जीवभिन्नत्वेनामनन्ति । माध्यन्दिना हि *य आत्मनि तिष्ठन्नात्मनोऽन्तर*(बृह.(माध्यन्दिन).५-७-२२) इति, काण्वाश्चात्मपदस्थाने विज्ञानपदमधीयते, अतो न जीवोऽन्तर्यामीति नात्र शङ्का-वकाशः ।
इति अन्तर्याम्यधिकरणम् ॥