॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥
वैश्वानराधिकरणम् ॥६॥
त्रैलोक्यात्मकरूपोपन्यासात् अक्षरवद्वैश्वानरोऽपि परमात्मेति निर्णीयत इति सङ्गतिः ।
छान्दोग्ये *यस्त्वेतमेवम् प्रादेशमात्रमभिविमानमात्मानम् वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति*(छान्.५-१८-१) अभिविमानम् – सर्वाभिव्याप्ततया विगतमानम् विश्वेषाम् नराणाम् नेतारम् एतमात्मानम् प्रादेश-मात्रम् – द्युलोकादिप्रदेशसम्बन्धिनी प्रादेशीमात्रा यस्य तम् प्रादेशमात्रम् ।
द्युप्रभृतिप्रदेश परिच्छिन्नम् य उपास्ते स सर्वलोकसर्वभूतसर्वात्मवृत्तिब्रह्म-रूपमन्नमत्ति । सर्वत्र वर्तमानम् सदन्नम् भोग्यम् तत् स्वत एव अनवधिकाति-शयमानन्दम् ब्रह्मानुभवतीत्यर्थः । अनेन वैश्वानरोपासनस्य ब्रह्मप्राप्ति फलकत्वमुक्तम् भवति । यत्तु सर्वैः कर्मवश्यैरात्मभिः प्रत्येकमनन्यसाधारणमन्नम् भुज्यते तन्मुमुक्षुभिः त्याज्यत्वादिह न गृह्यते । न च अपरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया कथम् परिच्छि–न्नत्वमिति चोदनीयम् । परिच्छिन्नत्वे बुद्धिसौकर्यलक्षणाभिव्यक्तेस्सम्भवात् । प्राणाहुत्याधारत्वत्रिविधाग्निपरिकल्पनजाठराग्निशरीरकद्युमूर्धत्वादि विशिष्टात्मत्वभाविते स्वशरीरे क्रियमाणप्रणाद्याहुतिभिः वैश्वानरविद्यानिष्ठेन परमात्मा समाराधनीय इति प्रतिपादयति – *तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राण:पृथग्वर्त्मात्मा सन्देहो बहुळो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयम् गार्हपत्यो मनोऽन्वा- हार्यपचन आस्यमाहव नीयः*(छान्.५-१८-२) । एतस्योपासकस्यात्मनः मूर्द्धैव तस्य वैश्वानरस्य *मूर्द्धात्वेष आत्मन*(छान्.५-१२-१) इति वैश्वा-नरमूर्द्धत्वेन निर्दिष्टः सुतेजा इत्यर्थः । न च *तस्य ह वा एतस्ये*(छान्.५-१८-२)ति पदयोस्सामानाधिकरण्यमेवास्तु, नत्वेतस्येत्युपासकपरामर्शित्वमिति शङ्क्यम् । *उर एव वेदि*(छान्.५-१८-२)रित्यादावुपासकोरः परामर्शस्या-वश्यम्भावात् *मूर्द्धे*(छान्.५-१८-२)त्यत्रापि उपासकमूर्द्धैव परामृश्यते । तस्मादेतस्येति पदस्योपासकपरत्वमेव सिद्धम् । अयमस्य प्रकरणस्यार्थः – *यस्त्वेतमेवमि*(छान्.५-१८-१)त्यादिना त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनम् विधाय *सर्वेषु लोकेष्वि*(छान्.५-१८-१) त्यादिना ब्रह्मप्राप्तिफलमुपदिश्य अस्यैव उपासनस्याङ्गभूतम् प्राणाग्निहोत्रम् *तस्य ह वा एतस्ये*(छान्.५-१८-२)त्यादिना उपदिशति । यः पूर्वम् उपास्यतया उपदिष्टो वैश्वानरः तस्यावयवभूतान् वाय्वादित्यादीन् सुतेजोविश्वरूपादि-नामधेयान् उपासकशरीरे मूर्द्धादिपादान्तेषु सम्पादयति-*मूर्द्धैव सुतेजाः* उपासकस्य मूर्द्धैव परमात्ममूर्द्धभूता द्यौरित्यर्थः । *तच्चक्षुः विश्वरूपः*(छान्.५-१८-२) –आदित्य इत्यर्थः। *प्राणः पृथग्वर्त्मात्मा* (छान्.५-१८-२)-वायुरित्यर्थः *सन्देहो बहुळः*(छान्.५-१८-२) –उपासकमध्य-काय एव परमात्म मध्यकाय भूत आकाश इत्यर्थः *पृथिव्येव पादौ*(छान्.५-१८-२)- अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः । एवमुपासकः स्वशरीरे परमात्मानम् त्रैलोक्यशरीरकम् वैश्वानरम् सन्निहितमनुसन्धाय स्वकीयानि उरोलमहृदया-स्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिर्गार्हपत्यान्वाहार्य- पचनाहवनीयान् अग्निहोत्रोपकरणभूतान् परिकल्प्य प्राणाहुतेश्च अग्निहोत्रत्वम् परिकल्प्य एवम् विधेन प्राणाग्निहोत्रेण परमात्मानम् वैश्वान-रमाराधयेदिति ।
अत्र *यस्त्वेतमेवम् प्रोदेशमात्रमभिविमानमात्मानम् वैश्वानरमुपास्त* इति वाक्ये वैश्वानर शब्दार्थोऽशक्यनिर्णयः । वैश्वानरशब्दस्य जाठराग्नौ महाभूततृतीये देवताविशेषे परमात्मनि च वैदिकप्रयोगदर्श-नात्, अस्मिन् प्रकरणे सर्वेषाम् लिङ्गोपलब्धेश्च इति पूर्वपक्षे प्राप्त उच्यते –
वैश्वानरस्साधारणशब्दविशेषात् ॥ १–२–२५ ॥
वैश्वानरः परमात्मा । *को न आत्मा किम् ब्रह्मेति*(छान्.५-१०-१) सर्वेषाम् जीवानामात्मभूतम् ब्रह्म किमिति प्रश्नकरणात्, उत्तरे च *आत्मानम् वैश्वा-नरमि*(बृह.८-२-९)ति ब्रह्मशब्दस्थाने सर्वत्र वैश्वानरशब्दप्रयोगात्, जाठरादि- चतुष्टयसाधारणस्यापि वैश्वानरशब्दस्य अस्मिन् प्रकरणे अभिविमानशब्देन अभिव्याप्त्यर्थकेन *ब्रह्मरूपमन्नमत्ती*(छान्.५-१८-१)त्यनेन मुमुक्षुभोग्यत्वार्थ-केन प्रतिपन्नैः मुमुक्षुजिज्ञास्यत्वसर्वात्मकत्वादि ब्रह्मलिङ्गैर्विशेषितत्वादिति ॥
स्मर्यमाणमनुमानम् स्यादिति ॥१–२–२६॥
*अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुःप्राणो हृदयम् विश्वमस्य पदभ्याम् पृथिवी ह्येष सर्वभूतान्तरात्मा*(मुण्ड.२-१-४) अग्निरिह द्युलोकः *असौ वै लोकोऽग्नि*(बृह.८-२-९)रिति श्रुतेः । स्मरन्ति च मुनयः – *द्याm मूर्द्धानम् यस्य विप्रा वदन्ति खम् वै नाभिश्चन्द्रसूर्यौ च नेत्र* इति श्रुत्यन्तरप्रतिपादितम् ईश्वरत्वाभिज्ञानम् इह *मूर्द्वैव सुतेजा* (छान्.५-१८-२) इत्यादिना द्युप्रभृतिपृथिव्यन्तम् रूपमिह स्मर्य-माणम् प्रत्यभिज्ञायमानम् वैश्वानरस्य परमात्मत्वे अनुमापकम् स्यादिति ।
शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्यु–
पदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥१–२–२७॥
वाजिनाम् वैश्वानरविद्याप्रकरणे *स एषोऽग्निर्वैश्वानर*(बृह.अग्निरहस्यम्.१०-५-६) इति वैश्वानरशब्दसामानाधिकरण्येन अग्निशब्दश्श्रूयते । अत्र च प्रकरणे *हृदयम् गार्हपत्य*(छान्.५-१८-२) इत्यादिना वैश्वानरस्य हृदयादि-स्थस्याग्नित्वपरिकल्पनम् प्राणाहुत्याधारत्वमित्याद्यग्निलिङ्गानि । वैश्वानरस्य शरीरान्तःप्रतिष्ठितत्वश्रवणाच्च वैश्वानरस्य जाठराग्नित्वप्रतीतेः नायम् परमात्मेति शक्यो निर्णय इति चेन्न । *अग्निर्वैश्वानरः पुरुषेऽन्तः प्रतिष्ठित* इत्यादौ जाठराग्निशरीरतया वैश्वानरस्य परमात्मन उपदेशात् केवलजाठराग्नेः त्रैलोक्य-शरीरत्वासम्भवाच्च वा वाजिनः तत्रैव *स एषोऽग्निर्वैश्वानरो यत्पुरुष* (अग्नि-रहस्यम्.१०-५-६-११) इति एनम् वैश्वानरपुरुषमधीयते, पुरुषश्च परमात्मैव, *पुरुष एवेदम् सर्वम्*(पुरुषसूक्तम्-२, मुण्ड.२-२-१०) पुरुषान्न परम् किञ्चिदि*(कठ.१-३-११)त्यादिषु प्रसिद्धेरिति ॥
अत एव न देवता भूतञ्च ॥१–२–२८॥
यतस्त्रैलोक्यशरीरोऽसौ, यतश्च निरुपाधिकशब्दनिर्दिष्टः, अत एव नाज्ञ्याख्या देवता, न तेजस्सञ्ज्ञम् भूतञ्च वैश्वानर इति ।
साक्षादप्यविरोधम् जैमिनिः ॥१–२–२९॥
अग्निशरीरतया वैश्वानरस्य उपासनार्थम् अग्निशब्दसामानाधिकरण्यनिर्देश इत्युक्तम् । विश्वेषाम् नराणाम् नेतृत्वादिसम्बन्धेन यथा वैश्वानरशब्दः परमात्मनि वर्तते, तथैव अग्निशब्दस्य अग्रनयनादि योगेन साक्षात्परमात्मनि वृत्तौ न कश्चि- द्विरोध इति जैमिनिर्मन्यत इति ।
अपरिच्छन्नस्य परस्य ब्रह्मणो द्युप्रभृतिप्रदेशसम्बन्धिन्या मात्रया कथम् परिच्छिन्नत्वमित्यत्राह-
अभिव्यक्तेरित्याश्मरथ्यः ॥१–२–३०॥
बुद्धिसौकर्यलक्षणाभिव्यक्तेर्हेतोरभिविमानस्यापि ब्रह्मणः प्रादेशमात्रत्व-मुपदिश्यत इत्याश्मरथ्य आचार्यो मन्यत इति ।
ननु अभिव्यक्त्यर्थम् परिच्छिन्नत्वोपदेशेऽपि मूर्धाप्रभृत्यवयवविशेषैः पुरुष-विधत्वम् परस्य ब्रह्मणः किमर्थमिति न चोदनीयम्, तथोपासनार्थत्वात् इत्याह –
अनुस्मृतेर्बादरिः ॥१–२–३१॥
अनुस्मृतिः – उपासनम् । अनुस्मृतेर्हेतोः पुरुषविधत्वरूपणमिति बादरि-राचार्यो मन्यत इति ॥
ननु अयम् वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्य उपदिश्यते चेत् *उर एव वेदि*(छान्.५-१८-२)रित्यादिना उरःप्रभृत्युपासकशरीरावयवानाम् वेद्या-दित्वपरिकल्पनम् किमर्थमिति शङ्कायामाह-
सम्पत्तेरिति जेमिनिस्तथा हि दर्शयति ॥१–२–३२॥
वैश्वानरविद्याङ्गभूताया उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्र-सम्पत्त्यर्थम् उरःप्रभृतीनाम् वेद्यादित्वोपपत्तेरिति जैमिनिराचार्यो मन्यते । तथा अग्निहोत्रसम्पत्तिमेव दर्शयति श्रुतिः, प्राणाहुतीर्विधाय *य एतदेवम् विद्वानग्नि-होत्रम् जुहोती*(छान्.७-२४-१)ति । सर्वत्राचार्यग्रहणम् पूजार्थम् न तु विकल्प- नार्थमिति द्रष्टव्यम् ॥
आमनन्ति चैनमस्मिन् ॥१–२–३३॥
एनम् पुरुषम् द्युमूर्द्धत्वादिविशिष्टम् वैश्वानरम् अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति ॥
इति वैश्वानराधिकरणम् ॥
*****
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रcथमस्याध्यायस्य द्वितीयःपादः॥