॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥
अक्षराधिकरणम् ॥ ३ ॥
यथा जीवादूर्ध्वमुपदेशात् भूमा न जीवः, एवम् प्रधानादूर्ध्वमुप-देशादक्षरम् न प्रधानमिति समर्थ्यत इति सङ्गतिः ।
*वाजसनेयके गार्गिब्राह्मणे – *एतद्वै तदक्षरम् गार्गि*(बृह.५-८-८)। एतदधिकरणचिन्तोपयुक्तविषयाम्शो लिख्यते – *अहम् त्वा द्वाभ्याम् प्रश्नाभ्यामुपोदस्थाम्*(बृह.५-८-२) *गातिस्थे*(अष्टा.२-४-७७)ति सिचो लुक् । *तौ मे ब्रूहीति*(बृह.५-८-२) । याज्ञवल्क्य आह – *पृच्छ गार्गीति*(बृह.५-८-२) । *सा होवाच यदूर्ध्वम् याज्ञवल्क्य दिवो यदर्वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्य-च्चेत्याचक्षते कस्मिन् तदोतञ्च प्रोतञ्चे*(बृह.५-८-३)ति द्युलोकादूर्ध्वम् पृथिव्याश्चाधस्तनम् यद्वस्तुजातम् द्यावापृथिव्यन्तराळवर्ति कालत्रयपरि-च्छिन्नम् च यद्वस्तुजातमेतत्सर्वम् कुत्र पटे दीर्घतन्तुवदोतम् तिर्यक्त-न्तुवत् प्रोतञ्चेति वाक्यार्थः । *स होवाच यदूर्ध्वम् गार्गि दिव*(बृह.५-८-३) इत्यादि *आचक्षत*(बृह.५-८-३) इत्येतदन्तम् पूर्ववत् । *आकाशे तदोतञ्च प्रोतञ्चे*(बृह.५-८-४)ति । अत्र आकाशशब्देन न वायुमद-म्बरम् गृह्यते । तस्य सर्वविकाराश्रयत्वाभावात्, किंत्वव्याकृताकाशः । *सा होवाच+अपरस्मै धारयस्वेति*(बृह.५-८-५) द्वितीयप्रश्नाय अवधानम् कुर्वित्यर्थः । *स होवाच पृच्छ गार्गीति*(बृह.५-८-५) *सा होवाच यदूर्ध्वम् दिव*(बृह.५-८-६) इत्यादि *आचक्षत*(बृह.५-८-६) इत्यन्तम् पूर्ववत् । *आकाश एव तदोतञ्च प्रोतञ्चेति*(बृह.५-८-७) य आकाशस्त्वया उक्त इति शेषः । *कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति*(बृह.५-८-७) सोऽव्याकृताकाशः किमाश्रित इत्यर्थः । *स होवाच एतद्वै तदक्षरम् गार्गी ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्व-मदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धम-चक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यम् न तदश्नाति किञ्चन न तदश्नाति कश्चने*(बृह.५-८-८)ति – हे गार्गि तदेतत् सर्वासूपनिषत्सु प्रसिद्धम् अश्नुत इति वा न क्षरतीति वा अक्षरम् ब्रह्म । ब्राह्मणाः – ब्रह्मविदः अभिवदन्ति मात्राः – इन्द्रियाणि । यद्वा मात्रा – परिच्छेदः । तद्रहितमित्यर्थः । अनन्तरमबाह्यम् – स्वाव्याप्तदेशशून्य-मित्यर्थः । *न तदश्नाति किञ्चन*(बृह.५-८-८) । तदक्षरम् किञ्चिदपि नाश्नाति । अवाप्तकामतया भक्ष्यनिरपेक्षमित्यर्थः । तत् स्वयमपि न कस्यापि भक्ष्यमित्याह – *न तदश्नाति कश्चने*(बृह.५-८-८)ति तत् ब्रह्म कर्म । *एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः*(बृह.५-८-९) वैशब्दोऽवधारणे । प्रशासने – आज्ञाचक्रे विधृतौ -विशेषेण धृतौ । प्रकृष्टम् शासनम् प्रशासनम् क्वचिदप्यप्रतिहतत्वमेव शासनस्य प्रकर्षः । ततश्च
सर्वविषयकशासनमिति फलति *प्रशासितारम् सर्वेषामि*(मनुस्मृतिः १२-१२२)तिस्मृत्यनुसारात् । ततश्च सर्वविषय-
कशासनाधीनद्युपृथिव्यादिधारकत्वमर्थ इति पर्यवस्यति । तत्र प्रधानस्य जगद्धारकत्वेऽपि शासनाधीनधारकत्वाभावात् जीवस्य प्रशासनशब्दित- सर्वविषयकशासनाधीनसर्वधारकत्वासम्भवाच्च नात्र प्रधानम् जीवो वा प्रतिपाद्यते । *एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता आहोरात्रा-ण्यर्धमासा ऋतवस्सम्वत्सरा इति विधृतास्तिष्ठन्तीति*(बृह.५-८-९) इति शब्दः प्रकारवचनः स्पष्टोऽर्थः । *एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो-ऽन्या नद्यस्स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्याश्च याम् याम् च दिशमनु*(बृह.५-८-९) प्रशासन इति सप्तमी । गङ्गाद्या नद्यः श्वेतेभ्यो हिमवदादिभ्यः लोकोप-काराय स्यन्दन्ते । तत्प्रशासनाभावे तास्स्यन्दनाय न प्रभवन्तीति भावः । *अन्याश्च याम् याम् दिशमनु*(बृह.५-८-९)प्रस्थिता इति शेषः । *एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशम्सन्ति यजमानम् देवा दर्वीम् पितरोऽन्वायत्ताः*(बृह.५-८-९) प्रशासने निमित्ते ददतः तदाज्ञया आज्ञाकैङ्कर्यबुद्ध्या दानम् कुर्वतो जनान् मनुष्याः – यजमानाः अन्वायत्ताः – अनुवशास्सन्तः प्रशम्सन्ति स्तुवन्तीत्यर्थः । *यो वा एतदक्षरम् गार्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्ष- सहस्राणि अन्तवदेवास्य तद्भवति यो वा एतदक्षरम् गार्ग्यविदित्वा अस्माल्लो-कात्प्रैति स कृपणः । अथ य एतदक्षरम् गार्गि विदित्वा अस्माल्लोका-त्प्रैति स ब्राह्मणः*( बृह.५-८-१०) ब्रह्मज्ञानमन्तरेण क्रियमाणम् होमयज्ञ- बहुकालसाध्यतप आदिकम् सर्वम् नश्वरफलसाधनम् भवति, तज्ज्ञानमन्तरेण कर्तृर्लोकान्त-रगतस्यापि शोच्यता भवति । ब्राह्मणः – ब्रह्मवित् ब्रह्मणोऽनु-भविता मुक्त इति यावत् । यदज्ञानात्सम्सारप्राप्तिः यज्ज्ञानाच्च अमृतत्वप्राप्ति-स्तदक्षरम् परम्ब्रह्मेत्युक्तम् भवति । *तद्वा एतदक्षरम् गार्ग्यदृष्टम् द्रष्ट्रु श्रुतम् श्रोत्रमतमन्त्रविज्ञातम् विज्ञातृ*(बृह.५-८-११) ।अदृष्टम् – योगिभिरदृश्यम् । द्रष्ट्रु – रूपादिसाक्षात्कर्तृ श्रोतृ – शब्दसाक्षात्कर्तृ । मन्तृ – मन्तव्यसाक्षात्कर्तृ । विज्ञातृ – अध्यवसायसाक्षात्कर्तृ । विज्ञातृ – अध्यवसेयसाक्षात्कर्तृ । *नान्यदतो-ऽस्ति द्रष्ट्रु नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ* (बृह.५-८-११) । अन्तर्यामिब्राह्मणव्याख्यानोक्तरीत्या अत्राप्यन्यशब्दस्य तत्स-दृशनिषेधपरत्वमेव । यथा *चोळ एव भूपति:नान्य*(लौकिक वाक्यम्) इत्युक्तेः तत्सदृशभूपतिनिषेधपरत्वम्, एवमिहापि अदृष्टत्वविशिष्टनिरुपाधिकद्रष्ट्रु-त्वाश्रयस्य परमात्मनः सदृशम् किमपि नास्तीत्येवार्थः । पूर्वव्याख्यायाम् सम-निषेधः अस्याम् व्याख्यायामधिकनिषेधश्च फलति । न च *नेह नानास्ती* (कठ.२-४-१०. बृह.६-४-१९)ति वाक्यवत् अस्यापि वाक्यस्य अब्रह्मात्मक- वस्तुनिषेधपरत्वोपपत्तौ समाभ्यधिकनिषेधपरतया व्याख्यानम् किमर्थमिति वाच्यम् तद्वदत्र ऐक्यविधिशेषत्वाभावेन समाभ्यधिकनिषेधपरत्वस्यैव युक्तत्वात् । उपसम्हरति *एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चे* (बृह.५-८-११)ति ।
अत्र विचार्यते *एतद्वै तदक्षरम् गार्गि ब्राह्मणा अभिवदन्ती*(बृह.५-८-७) त्यत्र अक्षरशब्दितम् प्रधानमेव, *अक्षरात्परतःपर*(मुण्ड. १-२-२) इत्यादावक्षर-शब्दस्य प्रधाने प्रयोगात्, अस्थूलत्वादिनिषेधानाम् च स्थूलत्वादिप्रसक्तिमत्य- चेतने सामञ्जस्यात्, *कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चे*(बृह.५-८-७) त्याकाशाधारत्वेन प्रश्नस्य आकाशोपादानतया तदाधारभूतप्रधानविषयत्वौ-चित्याच्चेत्येवम् प्राप्त उच्यते
अक्षरमम्बरान्तधृतेः ॥ १–३–९॥
अक्षरम् परम्ब्रह्म – अम्बरान्तधृते: । अम्बरस्य आकाशस्य अन्तः पारभूतम् प्रधानम् तद्धारकत्वादित्यर्थः । अयम् भाव:- *कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चे*(बृह.५-८-७)त्यत्र आकाशो न वायुप्रकृतिभूताकाशः, अपित्वव्याकृता-काशः । *यदूर्ध्वम् गार्गि दिवो यदर्वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतञ्च प्रोतञ्चे*(बृह.५-८-४)ति कालत्रयवर्तिविकाराधारतयोच्यमानत्वस्य भूताकाशे असम्भवेन अव्या-कृताकाश एव सम्भवात् तस्याप्याधारतया निर्दिश्यमानमक्षरम् परम् ब्रह्मैव भवितुमर्हति ।
ननु जीवस्याप्यचेतनाधारत्वसम्भवाज्जीव एवाक्षरशब्दितः किन्न स्यादि-त्यत्रोत्तरम्-
सा च प्रशासनात् ॥१–३–१०॥
सा च अम्बरान्तधृतिः “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत*(बृह.५-८-९) इत्यादिना प्रशासनाधीना श्रूयते । प्रकृष्टम् शासनम् प्रशासनम् । शासने प्रकृष्टत्वञ्च असङ्कुचितसर्वविषयत्वम् । ततश्च असङ्कु-चितचिदचिच्छासनम् परमात्मधर्मः ।
अन्यभावव्यावृत्तेश्च ॥१–३–११॥
*तद्वा एतदक्षरम् गार्गि अदृष्टम् द्रष्ट्रु* इत्यादिना उपदिश्यमानैः इतरादृष्टत्वे सति सर्वद्रष्ट्रुत्वरूपैः धर्मैः परमात्मनः प्रकृतिजीव-भावव्यावृत्तेश्च परमात्मैवेति स्थितम् ॥
इति अक्षराधिकरणम् ॥