॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥
ईक्षतिकर्माधिकरणम् ॥४॥
प्रश्नोपनिषदि – *अथ हैनम् शैब्यस्सत्यकामः पप्रच्छ*(प्रश्न.५-१) स्पष्टोऽर्थः । *स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमम् वा व स तेन लोकम् जयती*(प्रश्न.५-१)ति, हे भगवान् योऽधिकारी मनुष्याणाम् मध्ये मरणान्तमोङ्कारमभिध्यायति सः कतमम् लोकम् तेन ओङ्कारेण आप्नोतीत्यर्थः । *तस्मै स होवाच एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारः तस्मादिद्वाने –
तेनैवायतनेन एकतरमन्वेति*(प्रश्न.५-२) एतदेव परञ्चापरञ्च ब्रह्म उभयवाच-कमित्यर्थः । वाच्यवाचक भावनिबन्धनम् सामानाधिकरण्यम् । किम् तदित्यत्राह – *यदोङ्कार*(प्रश्न.५-२) इत्यादि । तस्मादुपासकः एतेनैव ओङ्काररूपेण मार्गेण परमपरम् वा ब्रह्म अन्वेति उपास्त इत्यर्थः । *स यद्ये-कमात्रमभिध्यायीत स तेनैव सम्वेदितस्तूर्णमेव जगत्यामभिसम्पद्यते*(प्रश्न.५-३) । सः उपासकः एकमात्रम् ह्रस्वम् प्रणवम् उपास्ते तेनैव एकमात्रोङ्का- रकरणकपरब्रह्मध्यानेनैव सम्वेदितः – लब्धसत्ताक: जगत्याम् – भुवि अभ्यर्हितः – श्रेष्ठः सम्पद्यते । *तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति*(प्रश्न.५-३) तम् ऋङ्मन्त्राः मनुष्यलोकम् प्रापयन्ति । सः मनुष्यलोकम् नीतः तपसा – अनशनादिना ब्रह्म-चर्येण – मैथुनवर्जनेन श्रद्धया आस्तिक्यबुद्धया यदि सम्पन्नो भवति, तदा महिमानम् श्रेयस्साधनम् ब्रह्मोपासनमनुतिष्ठतीत्यर्थः । न च एचो ह्रस्वाभावात् कथमोङ्कारस्य ह्रस्वत्वमिति वाच्यम् ।न्यूङ्खे ह्रस्वस्य ओङ्कारस्य दर्शनात् । *अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षलोकम् यजुर्भिरुन्नीयते स सोम-लोकम्*(प्रश्न.५-४) द्विमात्रेण अपरब्रह्मवाचकेन प्रणवेन यस्य मनसि अपरब्रह्मध्यानम् सम्पद्यते सः अन्तरिक्षाश्रितम् सोमलोकम् द्विमा-त्रोपासकः पुमान् यजुमन्त्रैरुन्नीयते । अन्तरिक्षसोमलोकशब्दः ऊर्ध्वमात्रोप-लक्षकः सः आमुष्मिकलोकमात्रचर: सोमलोके विभूतिमनुभूय तत्पुण्या-वसाने पुनरावर्तत इति भावः । *यःपुनरेतम् त्रिमात्रैणैव ओमित्यनेनैवाक्षरेण परम् पुरुषम-भिध्यायीत*(प्रश्न.५-५) । एकमात्रत्वद्विमात्रत्वदशायामर्वाचीनफलसाधनेन एतेनैवाक्षरेण त्रिमात्रेण परमपुरुषमभिध्यायति आभिमुख्येन ध्यायति निरन्तरम् ध्यायतीत्यर्थः । *स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यते एवम् हैव स पाप्मना विनिर्मुक्तस्ससामभिरुन्नीयते ब्रह्मलोकम्*(प्रश्न.५-१) सामभूतैः पुरुषैः वैकुण्ठमुन्नीयत इत्यर्थः । *स एतस्माज्जीवघनात्परात्परम् पुरिशयम् पुरुषमीक्षते*(प्रश्न.५-५) । *मूर्तौ घन*(अष्टा.३-३-७७) इति काठिन्यशब्दितमूर्तौ घनशब्दस्य निपातितत्वात् देहद्वारा आत्मनि काठिन्यस्य घनशब्दो देहिपर एव । अतो जीवघनशब्देन सम्सारिमण्डलमुच्यते । तस्मात् पर: परिशुद्धात्मा तस्मादपि परभूतः पुरिशयः *पू: प्राणिनस्सर्व एव गुहाशयस्ये*(आपस्तम्ब धर्म. सू.२२-४)ति सर्वेषु प्राणिषु अन्तरात्मतया शयानम् *वासुदेवे सनातन* (पाद्मोत्तरखण्डः.६-२५४-६६) इति निरुपाधिकपुरुषशब्दवाच्यम् परवासुदेवमित्यर्थः । अत एवम् *स सामभिरुन्नीयते ब्रह्मलोकमि*(प्रश्न.५-५)त्यत्र ब्रह्मलोकशब्दस्य चतुर्मुखलोक-परत्वशङ्काव्युदस्ता, चतुर्मुखलोकगतानाम् परवासुदेवेक्षणासम्भवादिति द्रष्टव्यम् ।
अत्र विचार्यते – ध्यायतीक्षतिकर्मतया व्यपदिष्टो हिरण्यगर्भ एव । पूर्वमे-कमात्रम् प्रणवमुपासीनस्य फलत्वेन मनुष्यलोकप्राप्तिम् फलम् द्विमात्रमु-पासीनस्य अन्तरिक्षलोकप्राप्तिम् च फलमभिधाय अनन्तरम् *यः पुनरेतम् त्रिमात्रेणे*(प्रश्न.५-५)ति त्रिमात्रप्रणवमुपासीनस्य फलत्वेनोच्यमानब्रह्मलोकस्थ- पुरुषेक्षणकर्मभूतश्चतुर्मुख एवेति ज्ञायते । मनुष्यलोकान्तरिक्षलोकसाहचर्यात्
ब्रह्मलोकोऽपि क्षेत्रज्ञलोक इति निश्चीयत इति पूर्वपक्षे प्राप्ते, सिद्धान्तस्तु –
ईक्षतिकर्म व्यपदेशात्सः ॥१–३–१२॥
*परात्परम् पुरिशयम् पुरुषमीक्षत*(प्रश्न.५-५) इति ईक्षतिकर्मतया निर्दिष्ट पुरुषविषये श्लोके *तर्मोकारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृत-मभयम् परञ्चे*(प्रश्न.५-७)ति निरुपाधिकशान्तत्वादिव्यपदेशात् परमात्मै-वायमिति निश्चीयते । एवम् परमात्मत्वे निश्चिते ब्रह्मलोकशब्दश्च तत्स्थान- मेवाभिदधतीत्यवगम्यते । तद्विषयोदाहृते श्लोके *यत्तत्कवयो वेदयन्त*(प्रश्न.५-७) इति सूरिभिर्दृश्यत्ववचनम् तदेव द्रढयति । सूत्रार्थस्तु – ईक्षतिकर्म सः पर-मात्मा । ध्यायतीक्षत्योरेकविषयत्वे ध्यायतिकर्मापि स एवेत्यर्थः व्यपदेशात् – तद्विषयतया *यत्तच्छान्तममृतमजरमभयम् परञ्चे *(प्रश्न.५-७)ति पमरा- त्मधर्माणाम् व्यपदेशादिति ।
इति ईक्षतिकर्माधिकरणम् ॥