[highlight_content]

दहराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः

दहराधिकरणम् ॥५॥

 

पूर्वाधिकरणे *परात्परम् पुरिशयम् पुरुषमीक्षत*(प्रश्न.५-५) इत्युक्तस्य पुरिशयस्य परमात्मत्वम् समर्थितम् इहापि तथैव पुरिशयस्य परमात्मत्वम् समर्थ्यत इति सङ्गतिः ।

 

छान्दोग्ये – *अथ यदिदमस्मिन् ब्रह्मपुरे दहरम् पुण्डरीकम् वेश्म दहरोऽ–स्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम् तद्वाव विजिज्ञासितव्यमि*   (छान्.८-१-१)ति । विद्यान्तरारम्भनिदर्शनार्थोऽयमथशब्दः । उपास्यतया सन्नि-हितस्य परब्रह्मणः स्थानतया नवद्वारादिमत्त्वेन च पुरशब्दिते अस्मिन् शरीरे पुण्डरीकाकारमल्पम् हृदयाख्यम् परस्य ब्रह्मणो वेश्मेत्यर्थः । अस्मिन् वेश्मनि अन्तःदहरः – सूक्ष्मः आकाशः । अत्र *य* इति पुल्लिङ्गयच्छब्दोऽध्याहर्तव्यः । *तस्मिन् यदन्तरि*(छान्.८-१-१)त्यत्र अन्तश्शब्दोऽन्तर्वर्तिपरः चशब्दश्चाध्याह-र्तव्यः । ततश्चायमर्थः – अस्मिन् दहरपुण्डरीके यो दहर आकाशः तदन्तर्वर्ति च यत् तदुभयम् श्रवणमननाभ्यामवगन्तव्यम्, ध्यातव्यञ्चेति । *तदन्वेष्टव्यमि*      (छान्.८-१-१)त्यत्र तदिति नपुम्सकलिङ्गनिर्देशो लिङ्गसामान्यविवक्षया द्रष्टव्यः ।

यद्वा – न पुल्लिङ्गयच्छब्दोऽध्याहर्तव्यः । अस्मिन् दहराकाशः तदन्तर्वर्ति च यदिति यच्छब्देनैव *नपुम्सकमनपुम्सकेने*(अष्टा.१-२-८९)ति कृतनपुम्सकैक-शेषवद्भावेन एकेनैव नपुम्सकलिङ्गेन द्वयोरपि परामर्शसम्भवात् । तच्छब्देऽपि नपुम्सकैकशेषसम्भवादेकेनैव तच्छब्देन द्वयोरपि परामर्श: । ततश्च अनेन

वाक्येन दहराकाशः तदन्तर्वर्ति चान्वेष्टव्यमित्युक्तम् भवति । अत्र च आकाश-शब्दः आसमन्तात्काशते प्रकाशत इति व्युत्पत्त्या परमात्मपरः । तत्र च हेतु-रुत्तरत्र वक्ष्यते । न च तदन्तर्वर्तिन एव अन्वेष्टव्यत्वे प्रतीयमाने दहराकाश-स्याप्यन्वेष्टव्यता किमर्थम् वक्तव्या । किञ्च *विश्वजित्सर्वपृष्ठोऽतिरात्रो भवती*

(जै.मी.१०-६-५)त्यत्र पृष्ठगतसर्वताविध्याक्षिप्तपृष्ठविधिवत् दहराकाशान्तर्वर्ति-त्वेन गुणजातोपासनस्य तदुपासनमन्तरेणासम्भवात्, आक्षेपादेव दहरोपास-नस्यापि सिद्धतया यत्तच्छब्दयोर्नपुम्सकैकशेषवद्भावचशब्दाध्याहारक्लेशा-नुभवो व्यर्थ इति वाच्यम् । *अथ य इहात्मानमनुविद्य व्रजन्त्येताम्श्च सत्यान्का-मानि*(छान्.८-१-६)त्यौपसम्हारिकोभयोपासनापरवाक्यशेषानुसारेण क्लेशस्य

अनुभोक्तव्यत्वात् । न च तदेव वाक्यमुभयोपासनाविधिपरमस्त्विति वाच्यम् । उपक्रमस्थम् विस्पष्टतव्यप्रत्यययुक्तम् वाक्यम् विहाय औपसम्हारिकस्य विस्पष्टविधिप्रत्ययशून्यस्य यच्छब्दयुक्तस्य विधित्वकल्पनानौचित्यात् । तस्य विधित्वकल्पनायामपि अनुवादरूपस्याप्यस्य वाक्यस्य तदनुसारेण अर्थद्वयो-पासनपरत्वस्य आश्रयणीतया एकशेषादिक्लेशस्याश्रयणीयत्वादिति! इति- शब्दो वाक्यसमाप्तौ अथवा इतीत्यस्यानन्तरम् आचार्यो ब्रूयादित्यद्ध्याहारः । *तञ्चेद् ब्रयुर्यदिदमस्मिन् ब्रह्मपुरे दहरम् पुण्डरीकम् वेश्म दहरोऽस्मिन्नन्तर आकाशः किम् तदत्र विद्यते यदन्वेष्टव्यमि*(छान्.८-१-२)त्यादि । एवमुक्तवन्त-माचार्यम् स्वल्पहृदयमध्यवर्तितया अतिस्वल्पे किम् वा वर्तितुमर्हति यदन्वेष्ट-व्यम् स्यादिति दहराकाशशब्दितस्य ब्रह्मत्वम् तदन्तर्वर्तितया निर्दिष्टस्य तद्गुणजातत्वञ्चाजानानाश्शिष्या यदि ब्रूयुरित्यर्थः । *स ब्रूयाद्यावान्वा अयमा-काशस्तावानेषोऽन्तर्हृदय आकाशः उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि*(छान्.८-१-५) एवमु-क्तस्य आचार्यः प्रतिब्रूयात् किमिति ? हृदयपुण्डरीकमध्यवर्ती आकाशशब्द-निर्दिष्टः भूताकाशवद्विपुलः । द्यावापृथिव्यादिशब्दलक्षितम् भोक्तृवर्गश्च तदा-श्रित इत्यर्थः । *यच्चास्येहास्ति यच्च नास्ति सर्वम् तदस्मिन् समाहितमि*(छान्. ८-१-३)ति । अस्य उपासकस्य इह लोके यद्भोग्यजातमस्ति, यच्च मनोरथमात्र-गोचरमिह नास्ति, सर्वम् तद्भोग्यजातमस्मिन् दहराकाशे समाहितमित्यर्थः । दहराकाशो निरतिशयभोग्य इति यावत् । ननु *यच्चास्येहास्ती*(छान्.८-१-३)ति वाक्येन उपासकभोग्यवस्त्वाधारत्वमात्रम् प्रतीयते, नतु दहराकाशस्य निरति-शयभोग्यत्वम्, *अस्मिन् समाहितमि*(छान्.८-१-३)त्याधारत्वश्रवणात् । न च उपासकस्य ब्रह्मप्राप्त्येकफलस्य स्वर्गपश्चादीनाम् भोग्यत्वाभावात्, *यच्चास्ये-हास्ती*ति वाक्ये दहराकाशस्य निरतिशयभोग्यत्वमेव प्रतिपाद्यत इति वाच्यम् । *स यदि पितृलोककामो भवती*(छान्.८-२-१)त्यादिना प्राचीनानेकजन्म-सम्बन्धिपित्रादिवर्गादिदृक्षया सङ्कल्पमात्रेण तत्स्रष्टृत्वस्य च प्रतिपादयिष्यमाण-त्वात्, सूत्रकृताऽपि *सङ्कल्पादेव तच्छ्रुतेरि*(ब्र.सू.४-४-८)ति सूत्रेण तद्वाक्यस्य विवक्षितार्थत्वाविष्करणात्, *यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते । अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वम् तदत्र गत्वा विन्दत*     (छान्.८-३-१) इति नष्टपित्रादीनाम् मुक्तकामनाविषयत्वप्रतिपादनात्, *प्रत्यक्षो-पदेशान्नेति चेन्नाधिकारिकमण्डलस्थोक्तेरि*(ब्र.सू.४-४-१८)ति सूत्रोक्तन्यायेन ब्रह्मविभूतितया नष्टपित्राद्यनुभवस्य कामनाविषयत्वसम्भवाच्च । अन्यथा *अस्मिन्कामास्समाहिताः*(छान्.८-१-५) *एताम्श्च सत्यान्कामानि*(छान्.८-१-६)त्यादावपि कामशब्दस्य निरतिशयभोग्यार्थकत्वम् को वारयेत् । ततश्च

*जक्षत्क्रीडन्नि*(छान्.८-१२-३)त्यत्रापि भोग्यत्वार्थकत्वम् स्यादिति परो विजयेत । न चेष्टापत्तिः, *निरतिशयभोग्यत्वम् दहराकाशस्याभिधाये*(श्रीभाष्यम्)ति भाष्यविरोधादिति चेत्र भाष्यस्य भोग्यवस्त्वाधारत्वफलितभोग्यत्वपरत्वे बाध-काभावात् । अत्र भूताकाशतुल्यवैपुल्यप्रतिपादनेन द्यावापृथिव्यादिजगदाश्र-यत्वप्रतिपादनेन उपासकम् प्रति निरतिशयभोग्यत्वप्रतिपादनेन च दहरा- काशस्य प्रसिद्धाकाशवैलक्षण्यप्रतिपादनात् स्वल्पे दहराकाशे किमपि मातुम्

न शक्नोतीत्याक्षेपबीजम् परिहृतम् भवति । *तञ्चेद् ब्रूयुरस्मिम्श्चेदिदम् ब्रह्मपुरे सर्वम् समाहितम् सर्वाणि च भूतानि सर्वे च कामा यदैनज्जरावाप्नोति प्रध्वम्सते वा किम् ततोऽतिशिष्यत इति*(छान्.८-१-४) अल्पत्वरूपमाक्षेपबीजम् परिहृत्य *किम् तदत्र विद्यत*(छान्.८-१-२) इति प्रश्नम् प्रतिविवक्षत्येवाचार्ये उक्तेऽर्थे अनुपपत्तिम् पश्यन्तश्शिष्याः यद्याचार्यम् ब्रूयुः । किमिति? ब्रह्मपुरशब्दितम् शरीरम् द्यावापृथिव्यादिशब्दनिर्दिष्टभोग्यभोगोपकरणभोगस्थानानि अग्निवाय्वादिशब्दनिर्दिष्टो भोक्तृवर्गश्च यद्याश्रयेयुः तदा शरीरस्य जरानाशादौ सति द्यावापृथिव्यादिकम् किमपि नावशिष्यते तदपि नश्येदित्यर्थः । ननु दहराकाशाश्रितम् द्यावापृथिव्यादिकमिति वदन्तम् प्रत्यस्याः शङ्कायाः कथम् उत्थानम् । दहराकाशाश्रितत्वस्यैवोक्तत्वात् ब्रह्मपुरशब्दितशरीराश्रित-त्वस्यानुक्ततया तज्जरानाशानुविधायिजरानाशवत्त्वस्य दहराकाशाश्रिते द्यावा-पृथिव्यादौ कथम् प्रसक्तिरिति चेन्न । यावद्देहस्य भारधारणानुकूलम् बलम् तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमित्याक्षिपताम् शिष्याणामभिप्रायः । *स ब्रूयात्*(छान्.८-१-४) । आचार्यस्तत्प्रतिवक्ति – *नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यम् ब्रह्मपुरम्*(छान्.८-१-५)। भोग्यभोगस्थानभोगोपक-रणवर्गादिशालितया पुरमिव वर्तमानम् दहराख्यम् ब्रह्म, न तु घटादिवत् केवलमवकाशात्मना उपकारकमित्यर्थः । ननु स्वतो धारकत्वेऽपि देहान्त- र्वर्तितया तदन्तर्गतहृदयवत् तज्जरानाशानुविधायिजरानाशत्वम् स्यादिति शङ्काबीजम् परिहरति – *एतत्सत्यमि*(छान्.८-१-५)ति । सत्यम् – निर्विकार-मित्यर्थः । अत एव देहजरामरणानुविधायि न भवतीत्यर्थः । एवम् मध्ये प्रसक्त-माक्षेपम् परिहृत्य *किम् तदत्र विद्यत*( छान्.८-१-२) इति अन्तर्वर्तिविशेष-जिज्ञासाम् शमयति – *अस्मिन्कामास्समाहिताः*(छान्.८-१-५) । काम्यन्त इति कामाः कल्याणगुणाः । को दहराकाशः स च कैः कामैर्विशिष्ट इत्याकाङ्क्षा-यामाह- *एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास- स्सत्यकामस्सत्यसङ्कल्प:*( छान्.८-१-५ + (मैत्रा.७-७)) । एष दहराकाशरूप आत्मा पापजरामरण-शोकबुभुक्षापिपासावर्जितस्सत्यकामस्सत्यसङ्कल्पश्चेत्यर्थः । परमात्मप्रकुरणेषु पाप्मशब्दस्सुकृतदुष्कृतसाधारणः । *न सुकृतम् न दुष्कृतम् सर्वे पाप्मानोऽतो निवर्तन्ते*(छान्.८-४-१) इति सुकृतेऽपि पापशब्द- प्रयोगात् । *एते वै निरयास्तात स्थानस्य परमात्मन*(वि.पु.) इति स्वर्गादीनामपि मुमुक्ष्वनिष्टत्वेन स्वर्गादिसाधनकर्मणः मुमुक्षून् प्रत्यनिष्टत्वेन अलौकिकत्वे सत्य-निष्टसाधनस्वलक्षणपापशब्दप्रवृत्तिनिमित्तक्रोडीकृतत्वेन पापशब्दार्थत्वाव-श्यम्भावात् । अपहतपाप्मत्वञ्च न ध्वस्तपाप्मत्वम् *नैनम् सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतम् न दुष्कृतमि*(छान्.८-४-१)ति सुकृतदुष्कृत-प्राप्त्यभावश्रवणात् तस्मादपहतपाप्मत्वमश्लिष्टपाप्मत्वमित्यर्थः । अकृतकर्मा-श्लेषस्य सर्वसाधारणत्वात् कृतेऽपि कर्मणि तत्फलाश्लेष उच्यते । अतः ईश्वर-कृतानि पुण्यपापजातीयानि कर्माणि न शुभाशुभफलजननशक्तानीत्यर्थः । कृते पापे तत्फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदीश्वरस्वभावविशेषः अपह-तपाप्मत्वम् । परिशुद्धात्मविषयस्यापहतपाप्मत्वस्याप्ययमेवार्थः स तु तस्य तिरोधानार्हः प्रतिबन्धनिवृत्तावाविर्भवति, ईश्वरस्य तु तिरोधानानर्हो नित्याविर्भूत इति विशेषः । सत्यकामशब्दश्च न कामनायास्सत्यत्वपरः, अमोघाशत्वस्य सत्यसङ्कल्पशब्देनैव सिद्धत्वात् । नापि काम्यन्त इति व्युत्पत्त्या गुणमात्रपरः कतिपयगुणान्तराणाम् पृथगुक्तेः । अतो भोग्य भोगोपकरणभोगस्थानरूपाः नित्याः कामा अस्य सन्तीत्युच्यते । *तदक्षरे परमे व्योमन्नि*(तै.महाना. १-२) त्युक्त नित्यविभूतिविशष्टत्वमेव सत्यकामशब्दार्थः । *यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनम् यम् यमन्तमभिकामा भवन्ति यम् जनपदम् यम् क्षेत्रभागम् तम् तमेवोपजीवन्ति*(छान्.८-१-५) कर्मणः फलापवर्गत्वात् फलमेव कर्मणोऽन्तः । इह अस्मिन् लोके प्रजाः यम् यमन्तमधिकामा भवन्ति तम् तमिह लोके प्रजा यथाऽन्वाविशन्ति, राजानमनुसृत्य लभन्ते, तथा परलोकेऽप्युपजीव-न्तीत्यर्थः । एवम् कर्मसाध्ये परलोके पारतन्त्र्यमुक्त्वा क्षयिष्णुत्वमप्याह – *तद्य-थेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते । तद्य इहा- त्मानमननुविद्य व्रजन्त्येताम्श्च सत्यान्कामान्स्तेषाम् सर्वेषु लोकेष्वकामचारो भवति*(छान्.८-१-६) यस्मात्सुकृतसाध्येषु परलोकेषु पारतन्त्र्यक्षयिष्णुत्वा-दिकम्, तस्मात् ये उक्तमात्मानम् अपहतपाप्मत्वादीनेताम्श्च सत्यान्नित्यान् काम्यमानान् कल्याणगुणाम्श्च अनुपास्य परलोकम् व्रजन्ति तेषाम् सर्वलोककामचारो न भवति पारतन्त्र्यमिति यावत् । *अथ य इहात्मान- मनुविद्य व्रजन्त्येताम्श्च सत्यान्कामान् तेषाम् सर्वेषु लोकेषु कामचारो भवति*(छान्.८-१-६) । ये त्वात्मानमपहतपाप्मत्वादीम्श्च काम्यमानान् कल्याणगुणानुपास्य परलोकम् व्रजन्ति ते ब्रह्मविभूतिभूतान् विकारलोकाननु-भूय यथाकामम् तृप्ता न पारतन्त्र्यमनुभवन्तीत्यर्थः । ननु *अपहतपाप्मे*(छान्. ८-१-५) त्यादिवाक्येषु अपहतपाप्मत्वादिधर्माणाम् स्वातन्त्र्येण अनुपस्थितानाम् कथम् *एतान्* इत्यनेन परामर्शः न च गत्यभावात्तेषामेव परामर्श इति वाच्यम् । *यच्चास्येहास्ती*(छान्.८-१-३)ति वाक्ये निर्दिष्टस्य *सर्वाणि च भूतानि सर्वे च कामा*(छान्.८-१-४) इति बहुवचनान्तकामशब्देन अनूदितस्य निरतिशय-भोग्यत्वस्यैव *अस्मिन्कामास्समाहिताः*(छान्.८-१-५) एताम्श्चा सत्यान्कामानि* (छान्.८-१-६)त्यत्रापि निर्देशोऽस्त्विति चेन्न । तथा सति *अपहतपाप्मा विजर*( छान्.८-१-५) इत्याद्युपन्यासस्य वैयर्थ्यप्रसङ्गात् *कामानि*(छान्.८-१-६)त्यस्य भोग्यत्वपरत्वे बहुवचनासङ्गतेश्च अपहत-पाप्मत्वादय एव *एताम्श्चा सत्यान्कामानि*(छान्.८-१-६)ति कामशब्देन निर्देश्याः । भोग्यत्वहेतुपितृ- लोकादिविषयपरत्वे *सत्यान्*(छान्.८-१-६) इति कामानाम् नित्यत्वकथनस्य असम्भवादिति भावः ।

 

अत्र विचार्यते – किम् दहराकाश: भूताकाशः उत परमात्मेति । किम् युक्तम् भूताकाश इति । आकाशशब्दस्य तत्रैव प्रसिद्धेः, व्यापके परमात्मनि दहरत्वाभावाच्च, *तस्मिन् यदन्तरि*(छान्.८-१-१)ति अन्वेष्टव्यान्तराधारत्व- निर्देशाच्च । न हि परमात्मनः स्वयमेवान्वेष्टव्यस्य अन्वेष्टव्यान्तराधारत्वमस्ति । *यावान्वा अयमि*(छान्.८-१-३)त्यादिना निर्दिश्यमानस्य भूताकाशोपमेयत्वस्य *गगनम् गगनाकारमि*(रामा.युद्धः.११०-२३)त्यादिवत् अभेदेऽप्युपपत्तेः, निरति-शयविपुले परमात्मन्यपि परिच्छिन्न भूताकाशोपमेयत्वस्य अस्वारस्याच्च, भूताकाशो दहराकाश इति पूर्वपक्षे प्राप्त उच्यते

 

दहर उत्तरेभ्यः ॥ ११३

 

दहराकाश: परमात्मा | वाक्यशेषगतभूताकाशोपमेयत्वसर्वाधारत्वनिरति-शयभोग्यत्वनिरुपाधिकापहतपाप्मत्वादिगुणानाम् परमात्मव्यतिरिक्ते भूताकाशे असम्भवात्, परमात्मनोऽपहतपाप्मत्वादिलक्षणान्वेष्टव्यान्तराधारत्वसम्भवाच्च । नच *गगनम् गगनाकारमि*(रामा.युद्धः.११०-२३)तिवत् अभेदेऽपि उपमानोप-मेयभावोऽस्त्विति वाच्यम् । *गगनम् गगनाकारमि*(रामा.युद्धः.११०-२३)त्यादौ अभेदे सादृश्यम् निबध्यमानम् अनन्वितत्वादनुपमत्वफलकम् सत् अनन्वया-लङ्काररूपम् । न चेह तथा सम्भवति, *यावान्वा अयमाकाश*(छान्. ८-१-३) इति वाक्ये भूताकाशत्वहार्दाकाशत्वरूपोपमानोपमेयतावच्छेदकधर्मभेद-

सत्त्वेनानन्वयस्य असम्भवात् । उपमानोपमेयतावच्छेदकधर्मैक्ये हि अनन्व-यालङ्कारः । यथा *गगनम् गगनाकारमि*(रामा.युद्धः.११०-२३)त्यादौ । यच्चोक्तमतिविपुलस्य ब्रह्मणः परिच्छिन्नभूताकाशोपमेयत्वम् न सम्भवतीति तन्न । अधिकजवेऽपि सवितरि *इषुवद्गच्छति सविते*ति गतिमान्द्यनिवृत्तिपर-वचनवत् स्वल्पत्वनिवृत्तिपरतया भूताकाशसादृश्यकथनस्योपपत्तेः ।

 

गतिशब्दाभ्याम् तथाहि दृष्टम् लिङ्गञ्च ॥ ११४

 

*तद्यथा हिरण्यनिधिमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतम् ब्रह्मलोकन्न विदन्ति अनृतेन हि प्रत्यूढाः*(छान्.८-३-१) । यथा अधस्तान्निक्षिप्तम् हिरण्यनिधिम् अक्षेत्रज्ञाः क्षेत्रस्वभावविज्ञान-हीनाः निधेः उपर्युपरि सञ्चरन्तोऽपि निधिम् न लभन्ते एवमेवेमास्सर्वाः प्रजाः

सुषुप्तिकाले अहरहर्गच्छत्यः सुषुप्तौ *सति सम्पद्य न विदु*(छान्.६-९-२) रित्युक्तरीत्या अविभागम् गच्छन्त्यः एवम् दहराकाशाख्यम् ब्रह्मलोकम् न विन्दन्ति न लभन्ते-न जानन्ति । यथा हिरण्यनिधिम् निहितम् तत्स्थानमजानानाः तदुपरि सर्वदा वर्तमाना अपि न लभन्ते । सुषुप्तिकालीन गमनविषयत्वपूर्वव्या- ख्यायाम् *उपर्युपरी*(छान्.८-३-२)त्यस्य दृष्टान्तेऽन्वयो न दार्ष्टान्तिके । सुषुप्तिकाले एकीभावसद्भावेऽपि उपरिगमनाभावान्न तदन्तर्यामिविषयः। द्विती-  यव्याख्यायाम् तु अन्तर्यामिण उपरि सर्वदा गतिसत्त्वात् *उपर्युपरी*(छान्.८-३-२)त्यस्य दार्ष्टान्तिकेऽप्यन्वयो ज्ञेयः । ननु अन्तर्यामिणि अहरहर्गमनस्य दहराकाशपरब्रह्मत्वसाधकत्वमयुक्तम्, उपासकानुग्रहाय अवस्थितो हि दहरा-काशः, अन्तरात्मतया स्थितो ह्यस्याधारः, तयोः रूपभेदादिति चेन्न । धर्मैक्या-भिप्रायेण एवम् व्याख्याने दोषाभावादिति । दहरविद्याप्रकरणगतैस्तद्वाक्यशेषा- वगतहेतुभिरपि दहराकाशो ब्रह्मेति ज्ञातुम् शक्यत इत्याह – *गतिशब्दाभ्यामि* (ब्र.सू.१-३-१४)ति । *तद्यथा हिरण्यनिधिम् निहितमि*(छान्.८-३-२)ति अहरह- स्सर्वेषाम् क्षेत्रज्ञानाम् गमनात् ब्रह्मलोकशब्दाच्च दहराकाशो ब्रह्मेत्यवसीयते । तथा ह्यन्यत्र सुषुप्तिकालीनगमनब्रह्मलोकशब्दौ ब्रह्मविषयावेव दृष्टौ । *एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति सम्पद्य न विदुः*(छान्.८-३-२), एष

ब्रह्मलोकस्सम्राडिति होवाचे*(बृह.६-३-३३)ति । माभूदन्यत्र सुषुप्तिकाले ब्रह्मणि गमनदर्शनम्, एतदेव तु दहराकाशे सर्वेषाम् क्षेत्रज्ञाणाम् प्रळयकाल इव निरस्तनिखिलदुःखानाम् सुषुप्तिकालेऽवस्थानम् ब्रह्मव्यतिरिक्तेष्वसम्भावितम् दहराकाशस्य परब्रह्मत्वे लिङ्गम् । अथवा *अहरहर्गच्छन्त्य*(छान्.८-३-२) इति न सुषुप्तिकालीनम् गमनमुच्यते । अपि तु अन्तरात्मत्वेनावस्थितस्य दहराका-शस्योपरि तन्नियमितानाम् सर्वासाम् प्रजानाम् सर्वदा गतिरस्य दहराकाशस्य परब्रह्मताम् गमयति । तथाह्यन्यत्र परस्य ब्रह्मणोऽन्तरात्मतयाऽवस्थितस्य स्वनियाम्याभिः स्वस्मिन् वर्तमानाभिः प्रजाभिरवेदनम् दृष्टम् । यथा अन्तर्यामि- ब्राह्मणे – *य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेदे*(बृह.५-७-२२) ति । *अदृष्टो द्रष्टा अश्रुतश्श्रोते*(बृह.५-७-२३)ति च । माभूदन्यत्र दर्शनम्, स्वयमेवत्वियम् निधिदृष्टान्तावगतपरमपुरुषार्थभावस्यास्य हृदयस्थस्योपरि तदाधारतयाऽहरहस्सर्वासाम् प्रजानामजानतीनाम् गतिरस्य परब्रह्मत्वे पर्याप्तम्

लिङ्गमिति । सूत्रार्थश्च वर्णितः ।

 

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥११५

 

*अथ य आत्मा स सेतुर्विधृतिरेषाम् लोकानामसम्भेदाये*(छान्.८-४-१)ति परब्रह्ममहिमत्वेन प्रसिद्धस्य जगद्विधरणमहिम्नः दहराकाशे उपलभ्यमानत्वा-द्दहराकाश: परम्ब्रह्मेति सूत्रार्थः । श्रुत्यर्थस्तुउक्तलक्षण आत्मा सेतुरिव विधा-रकः । किमर्थम् स सेतुर्विधृतिरित्यत्राह – *एषाम् लोकानामि*(छान्.८-४-१)ति

असम्भेदः – असङ्करः । यद्ययम् परमात्मा स्वशासनेन जगन्न धारयेत् सर्वधर्मा-णाम् साङ्कर्यमेव स्यात् पृथिव्या गन्धवत्त्वम् जलस्य शैत्यम् तेजस औष्ण्य-मित्यादयो धर्माः परमात्माज्ञया व्यवस्थिता न भवन्ति । सिनोति बघ्नाति स्वस्मिन् चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुरुच्यत इति ॥

 

यदुक्तम् आकाशशब्दस्य भूताकाशे प्रसिद्धत्वादिति तत्राह –

 

प्रसिद्धेश्च ॥ ११६॥

 

*यदेष आकाश आनन्दो न स्यादि*(तै.आन.७)त्यादौ परमात्मन्यप्याकाश-शब्दस्य प्रसिद्धेः ।

 

इतरपरामर्शात्स इति चेन्नासम्भवात् ॥११७

 

एतदधिकरणचिन्तोपयोगिवाक्यार्थः कथ्यते – *अथ च एष सम्प्रसादोऽस्मा-च्छरीरात्समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते*(छान्.८-३-४)। अथशब्दः प्रकृतापेक्षत्वद्योतकः । सम्प्रसादशब्दस्सुषुप्तिस्थानवचनः तत्स-म्बन्धाज्जीवम् लक्षयति । *अहरहर्वा एवम् विदि*(छान्.८-३-३)ति पूर्ववाक्ये निर्दिष्ट उपासक एष जीवः अतिहेयतया परिदृश्यमानत्वात् शरीरादुत्क्रम्य देशविशेषनिष्ठपरमात्मानम् प्राप्य स्वेन रूपेणाभिनिष्पद्यते । *एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मे*(छान्.८-३-४)ति । *एष आत्मा*(छान्.८-३-४)

*एतदमृतमि*(छान्.८-३-४)त्येतच्छब्दः पूर्ववाक्ये *परञ्ज्योतिरुपसम्पद्ये*        (छान्.८-३-४)ति प्राप्यतया निर्दिष्टपरञ्ज्योतिश्शब्दितब्रह्मपरः । अव्यवहित-परञ्ज्योतिश्शब्दितपरमात्मपरित्यागे कारणभावात् । अन्यथा व्यवहितसम्प्र- सादशब्दितजीवपरिग्रहे तस्य निरुपाधिकात्मत्वनिरतिशयसुखरूपत्वामृतत्व-

लक्षणामृतत्वदुःखासम्भिन्नत्वरूपाभयत्वब्रह्मत्वविधानासम्भवाच्च । नच *स्वाम् देवतामार्च्छत्*  – इत्यत्र तच्छब्देन विभक्त्यैकरूप्यात् व्यवहितप्रजा-पतिपरामर्शवत् व्यवहितसम्प्रसादग्रहणम् युक्तमिति वाच्यम् । तत्र *स* इत्यनेन प्रजापतिपरामर्शे अश्वदानसम्प्रदानत्वेन स्वीयाम् देवतामार्छदित्यर्थो

युज्यते । वरुणपरामर्शे तु वरुणस्य आत्मीयाया देवतायाः प्रागप्रस्तुतत्वात् अर्थासङ्गतया व्यवहितप्रजापतिपरामर्शः, न तु विभक्तयैकरूप्यमात्रेणेति वैषम्यात् । यद्यपि *स्वेन रूपेणाभिनिष्पद्यत*(तै.आन.७) इति स्वरूपाविर्भावे कथिते आविर्भवत्स्वरूपम् किमित्यपेक्षायाम् प्रजापतिवाक्ये *एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मे*(छान्.८-३-४)ति निर्दिष्टम् अमृताभयब्रह्मात्मशब्द-निर्दिष्टम् मुक्तरूपमित्येतदर्थकेऽपि नानुपपत्तिः । तथाऽपि *तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमि*(छान्.८-३-४) त्युत्तरवाक्यनिर्देक्ष्यमाणचेतनाचेतननियन्तृ- त्वार्थकसत्यनामत्वस्य मुक्तात्मन्यसम्भवात् न पूर्ववाक्यनिर्दिष्टो जीवः अपि तु प्राप्यम् ब्रह्मैव । वस्तुतस्तु *एष आत्मेति होवाचे*(छान्.८-३-४) त्येतावन्मात्र- स्याविर्भूतस्वरूपपरत्वम्, *एतदमृतमभयमेतद् ब्रह्मे*(छान्.८-३-४)त्यत्र तु एतच्छब्दस्य परञ्ज्योतिशब्दितब्रह्मपरत्वमित्याश्रयणेऽपि नानुपपत्तिः ।

 

अत्र आशङ्क्यते । *अथ च एष सम्प्रसाद*(छान्.८-३-४) इति दहरविद्या-

मध्यस्थवाक्ये जीवप्रतिपादनदर्शनाद्दहराकाशोऽपि जीव एवास्तु तस्य *यावान्वा अयमाकाश*(छान्.८-१-३)इत्यादिवाक्य सन्दर्भप्रतिपादितभूताकाशोपमेयत्वस्य भूताकाशे अनन्वयेन दहराकाशस्य भूताकाशत्वाभावेऽपि जीवे कथञ्चिन्निर्लेप-त्वादिना भूताकाशोपमेयत्वसम्भवादणुपरिमाणे जीवे दहरशब्दिताल्पपरिमाण

त्वस्यापि सम्भवाद्दहराकाशो जीव एवास्त्विति *इतरपरामर्शात्स इति चेदि*(ब्र. सू.१-३-१७)ति सूत्रखण्डेनाक्षिप्य *दहर उत्तरेभ्यः*(ब्र.सू.१-३-१३) *गतिशब्दा-भ्याम् तथा हि दृष्टम् लिङ्गञ्च*(ब्र.सू.१-३-१४) *धृतेश्च महिम्नोऽस्यास्मिन्नुप- लब्धे*(ब्र.सू.१-३-१५)रिति सूत्रत्रयोक्तानाम् परमात्मधर्माणाम् जीवे असम्भवान्न जीवो दहराकाश इति *नासम्भवा*(ब्र. सू.१-३-१७)दिति सूत्रखण्डेन परिहारः कृतः ।

 

ननु *अथ च एष सम्प्रसाद*(छान्.८-३-४) इति दहरविद्यामध्यस्थवाक्य-परामृष्टजीवस्य अपहतपाप्मत्वादिगुणयोगासम्भवान्न दहराकाशत्वमित्युक्तम् । उत्तरात् प्रजापतिवाक्याज्जीवस्यापि अपहतपाप्मत्वादिगुणयोगावसायात् अपह-तपाप्मत्वादिगुणैर्दहराकाशः परमात्मेति न शक्यम् निर्णेतुमिति चेत्तत्राह –

 

उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ ११८

 

पूर्वमनृततिरोहितापहतपाप्मत्वादिस्वस्वरूपः पश्चाद्विमुक्तकर्मबन्धः शरीरा-त्ससुत्थितः परञ्ज्योतिरूपसम्पन्न आविर्भूतस्वरूपस्सन्नपहतपाप्मत्वादिगुण-विशिष्टस्तत्र प्रजापतिवाक्ये अभिधीयते । दहरवाक्ये तु अतिरोहितस्वभावापह-तपाप्मत्वादिविशिष्ट एव दहराकाश: प्रतीयते । आविर्भूतस्वरूपस्यापि जीवस्य असम्भावनीयास्सेतुत्वविधरणत्वादयो न मुक्तानाम् नित्यमुक्तानाम् वा सम्भ-वन्तीति *जगद्व्यापारवर्जमि*(ब्र.सू.४-४-१७)त्यत्र स्थितम् । अत एव नित्यानाम् नित्याविर्भूतापहतपाप्मत्वादिगुणाष्टकतया तेष्वतिप्रसक्तस्य नित्याविर्भूतापहत-पाप्मत्वादिमत्त्वस्य कथम् ब्रह्मलिङ्गत्त्वमिति शङ्काऽपि निरस्ता । सेतुत्वादीनाम् तत्र असम्भावितधर्माणामपि श्रवणात् ।

 

ननु *य एषोऽक्षिणि पुरुषो दृश्यत*(छान्.८-७) इति प्रजापतिविद्यागत-वाक्यान्यपि ब्रह्मपराण्येव भवन्तु । अत्रापि *एतदमृतमभयमेतद्ब्रह्मे*(छान्.८-७-४)ति श्रवणात् अक्षिवाक्ये उपकोसलविद्योपास्यप्रत्यभिज्ञानात् *य एष स्वप्ने महीयमानश्चरती*(छान्.८-१०-१)ति वाक्येऽपि स्वाप्नपदार्थस्रष्टृत्वेन मही-यमानस्य परमात्मन एव प्रतिपादनसम्भवात्, सुषुप्तिपर्यायेऽपि *यत्रैतत्सुप्त-स्समस्त*(छान्.८-११-१) इति यत्र यस्मिन्नाधारे समस्तस्सुप्तो भवतीति सुषुप्त्या-धारब्रह्मपरत्वोपपत्तेरिति चेत् उच्यते – स्वप्नपर्याये *घ्नन्ति त्वेवैनम् विच्छादर्यन्ती-वाप्रियवेत्तेव भवति अपि रोदितीवे*(छान्.८-१०-२)ति इन्द्रेण तस्य हन्यमानत्व-द्राव्यमाणत्वबन्धुजनमरणाद्यप्रियद्रष्टृत्वरोदितृत्वादिप्रतिभासतो दुष्टत्वस्योप-न्यासात् सुषुप्तिसम्बन्ध्यात्मोपदेशानन्तरम् *नाह खल्वयमेवम् सम्प्रत्यात्मानम् जानाति अयमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवती*(छान्.८-११-१)ति तस्य विशेषज्ञानरहिततया विनष्टप्रायत्वस्योक्तत्वात्, अभयत्वामृतत्वा-दीनाञ्च मुक्त्यवस्थाभाविरूपापेक्षयाऽप्युपपत्तेर्जीवविषयत्वमेव उपपद्यते । *य एषोऽक्षिणि पुरुषो दृश्यत*(छान्.८-७ ) इत्यस्य दर्शनलिङ्गादक्षिणि सन्निहि-तोऽनुमीयत इत्यर्थकत्वेन जागरावस्थाविषयत्वस्यैव उपपन्नत्वात् । ततश्च

प्रजापतिवाक्ये जीवस्सम्सारिदशायाम् अनृततिरोहितापहतपाप्मत्वादिकः स्वमुक्तिदशायाम् साधनाहिततदाविर्भावः प्रतिपाद्यते । दहराकाशे श्रूयमाणम् त्वपहतपाप्मत्वादिकम् नित्याविर्भूतमेव ग्राह्यम्। नित्याविर्भूतग्रहणसम्भवे तिरोहितत्वेन असत्प्रायस्य साधनाधीनाविर्भावस्य ग्रहणायोगात् ।

 

तर्हि किमर्थम् ब्रह्मप्रकरणे अथ च *एष सम्प्रसाद*(छान्.८-३-४) इति जीवपरामर्श इत्याशङ्क्याह –

 

अन्यार्थश्च परामर्शः ॥ ११९

 

मुक्ते तत्स्वभावाविर्भावयितृत्वलक्षणपरमात्ममहिमप्रकाशार्थो जीवपरामर्श इति सूत्रार्थश्च स्पष्टः ।

 

यदुक्तम् परमात्मनोऽल्पपरिमाणत्वम् नोपपद्यत इति तत्राह –

 

अल्पश्रुतेरिति चेत्तदुक्तम् ॥ १२०॥

 

शाण्डिल्यविद्यायाम् *निचाय्यत्वादेवम् व्योमवच्च*(ब्र.सू.१-२-७) इति सूत्रखण्डेन उपासनार्थम् विपुलस्य अल्पत्वोपदेश उपपद्यत इति पूर्वमेवोक्त-मित्यर्थः ।

 

ननु ब्रह्मणो नित्याविर्भूतापहतपाप्मत्वादिमत्त्वम् जीवस्यातथात्वञ्च यदि प्रमाणसिद्धम् स्यात्, तदा दहराकाशे श्रूयमाणमपहतपाप्मत्वादिकम् ब्रह्मगतम् नित्याविर्भूतमेव ग्राह्यमिति शक्यते वक्तुम् । न च तदस्तीति शङ्कमानम् प्रत्याह –

 

अनुकृतेस्तस्य ॥ १२१॥

 

अनुकृतिः – अनुकारः – साम्यम् । तस्य परस्य ब्रह्मण उपासनया तदनुकारो हि जीवस्य श्रूयते – *तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमम् साम्यमुपैती* (मुण्ड.३-१-३)ति । अत एव कठवल्ल्याम् – *यथोदकम् शुद्धे शुद्धमासिक्तम् तादृगेव भवती*(कठ.२-४-२५)ति सादृश्यमेवोच्यते न तु तद्भावः । नदीसमुद्र-

जलयोर्वस्तुतो नैक्यम् अपि तु भेदकाकारप्रहाणमात्रम् एवमिहापि मुक्तस्य परमात्मना नैक्यम्, अपि तु परमसाम्यमात्रम् । ननु अवयवातिरिक्तावयव्य- न्तराभाववादिनाम् परस्परसदृशानाम् घटावयवानाम् भिन्नानामेव सतामेकत्वा-वस्थाश्रयत्ववत् कुण्डलकटकादीनाम् अग्नितापाद्दृतानाम् वस्तुतो भिन्नानामपि एकत्वावस्थाश्रयत्ववत् नदीसमुद्रजलयोरपि मिळितयोस्सम्सर्गिद्रव्ययोरप्ये-कत्वावस्थाश्रयत्वमस्ति । ततश्च निर्विशेषब्रह्मैकतापत्तिरेव परममुक्तिरिति चेन्न । निर्गुणविद्याश्रेष्ठत्वेन पराभिमतायाम् प्रजापतिविद्यायामपि *स तत्र पर्येती*(छान्. ८-१२-३)ति मुक्तब्रह्मणोराधाराधेयभावश्रवणात्, सत्यकामत्वसत्यसङ्कल्पत्वादि रूपधर्माणाम् मुक्तावाविर्भावस्य निर्गुणाविद्या-फलत्वेन *उत्तराच्चेदाविर्भूत- स्वरूपस्त्वि*(ब्र.सू.१-३-१८)त्यत्र परैरप्यङ्गी-कृतत्वात् । न च सत्यकामत्वम् सत्यसङ्कल्पत्वञ्च जीवस्य स्वरूपमात्रमिति शक्यते वक्तुम् । कामशब्दोदि-तानाम् कामनाविषयसृज्यपदार्थानाम् सङ्कल्प-शब्दोदितस्य तत्सृष्टिहेतु-मायावृत्तिविशेषस्य च स्वरूपबहिर्भावावश्यम्भावात्, तेषाञ्च मुक्तावाविर्भावे कथम् निर्विशेषतापत्तिः । अनाविर्भावे च प्रजापति-विद्यायाम् *य आत्माऽप-हतपाप्मे*(छान्.८-७-१)त्यादिना गुणाष्टकोपदेश- वैयर्थ्यम् । न हि प्रजा-पतिविद्यायाम् गुणाष्टकोपदेशस्योपासनार्थत्वम् सम्भवति परैस्तत्र उपास-नाविध्यनङ्गीकारात् । नापि तदवगत्यर्थमुपदेशः मुक्त्यर्थावगतेश्शुद्धब्रह्म-विषयत्वात् । *तत्वमसी*(छान्.६-८-७)त्युपदेशस्थले ब्रह्मणो जगदुपादानत्वा-दिवर्णनस्याध्यारोपापवादन्यायेन निष्प्रपञ्च बोधनार्थतयेव अत्र प्रकारान्तरेण सार्थकत्वोपपादनायोगात् । नापि प्रवृत्तिरुच्युत्पादनार्थः गुणकीर्तनस्य निर्गुण-विद्यारुच्युत्पादकत्वासम्भवात् । अतः निर्गुणविद्याप्रकरणे अपहतपाप्मत्वा-द्युक्तेराविर्भविष्यत्तया तद्बोधनार्थतयैव साफल्यम् वाच्यम् अतश्च मुक्तौ निर्विशेष, ब्रह्मभावावाप्तिकथनमसङ्गतमिति यथोक्त एवार्थः ।

 

अपि स्मर्यते ॥१२२॥

 

इदम् ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रळये न व्यथयन्ति चे*(गी.१४-२)ति स्मर्यत इत्यर्थः । ततश्च तदुपासनासिद्धम् तस्यैश्वर्यम् तस्य तु नान्योपासनसिद्धम् । अपि तु नित्याविर्भूतम् । ततश्च दहरवाक्ये श्रूय-माणमपहतपाप्मत्वादिकम् ब्राह्ममेव ॥

 

इति दहराधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.