[highlight_content]

देवताधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः

(पे) देवताधिकरणम् ॥७॥

मनुष्याधिकारप्रसङ्गात् देवानाम् ब्रह्मविद्यायामधिकारोऽस्ति न वेति प्रासङ्गिकी सङ्गतिः ।

ननु वस्वादिदेवतानाम् नानाविग्रहाभावेन उपासनसामर्थ्याभावात् कथमुपा-सनाधिकारः । न हि देवादीनाम् शरीरवत्त्वे प्रमाणमुपलभ्यते । न तावत् प्रत्य-क्षानुमाने तस्य तदगोचरत्वात् । नापि *वज्रहस्तः पुरन्दरः*(तै.अष्ट.२,प्रश्न.६,अनु. ७-३४), तेनेन्द्रो वज्रमुदयच्छदि*(तै.सम्हि.काण्ड-२,प्रश्न.४,अनु.१२) त्यादीनाम् प्रामाण्यम् । मन्त्रार्थवादानाम् – अनुष्ठेयस्मृतिस्तुतिप्रयोजनकतया विग्रहादौ तात्पर्याभावेन तात्पर्याविषये शब्दस्याप्रामाण्यात् । अन्यथा श्वेतवर्णरजक-कर्तृकवस्त्रशोधनतात्पर्येण प्रयुक्तस्य *श्वेतो धावती*त्यस्य शुनकसमीप –

गमनप्रतीत्युत्पादकत्वसम्भवमात्रेण तत्रापि प्रामाण्यप्रसङ्गात् । ननु रेवत्या-धारवारवन्तीयसामसाध्याग्निष्टोमस्तोत्रविशिष्टक्रतुविधायके *रेवतीषु वारव-न्तीयमग्निष्टोमसामकृत्वा पशुकामो ह्येतेन यजेते*(ताम्.ब्रा.१७-७-१)ति वाक्ये *रेवतीषु वारवन्तीय*(ताम्.ब्रा.१७-७-१)मित्यम्शस्य रेवतीर्नस्स-धमाद*(ऋ.सम्.१ १३) इति ऋक्त्रयाधारवारवन्तीयसामरूपे अग्निष्टोम-स्तोत्रविशेषणे तात्पर्याभावेऽपि प्रामाण्यम् दृष्टम् । न हि तद्विशेषणम् *सोमेन

यजेते*(तै.सम्.३-२-२)त्यादिविशिष्टविधिषु सोमलतादिविशेषणवल्लोकसिद्धम्  । नापि विधिसिद्धम् । *कवतीषु रथन्तरम् गायेदि* ति विधिवत् *रेवतीषु वारवन्तीयम् गायेदि*ति विध्यदर्शनात् । न च अस्यैव विशिष्टगोचरस्य विधेर्वि-शेषणविधावपि तात्पर्यम् वक्तुम् शक्यम् विध्यावृत्तिप्रसङ्गात् । न च आक्षेपा- द्विशेषणप्रसिद्धः विशेषणप्रसिद्धौ सत्याम् विशिष्टविधिः विशिष्टविधिनैव विशे-षणस्य आक्षेप इति परस्पराश्रयापत्तेः । तस्माद्विशिष्टविधेर्विशेषणस्वरूपे तात्पर्याभावेऽपि *रेवतीषु वारवन्तीय*(ताम्.ब्रा.१७-७-१)मिति पदद्वय-समभिव्याहारस्यैव प्रामाण्यमभ्युपगन्तव्यमिति चेन्मैवम् *रेवतीषु वारवन्तीय* (ताम्.ब्रा.१७-७-१)मिति पदद्वयसमभिव्याहाराभ्याम् रेवत्याधारवार-वन्तीयप्रतीतिमुपजीव्य प्रवृत्तेन विशिष्टविधिना आक्षिप्तस्य *रेवतीषु वारवन्ती-यम् कुर्यादि*ति विशेषणविधेरेव तत्र प्रमाणत्वेन *रेवतीषु वारवन्तीय* (ताम्.ब्रा.१७-७-१)मिति पदद्वयसमभिव्याहारस्य अप्रमाणत्वात् । इयाम्स्तु विशेषः सोमलतादिविशेषणम् मानान्तरसिद्धम् सोमपदात् प्रतीयते इह तु मानान्तरासिद्धमेव पदसमभिव्याहारात् प्रतीयत इति । प्रतीयमानेऽपि विशेषणे विशिष्टविधेः प्रामाण्याभाव उभयत्राप्यविशिष्टः । ततश्च यथा सोमप्रत्यायकम् सोमपदम् न सोमस्वरूपे प्रमाणम् । एवम् रेवतीषु वारवन्तीयमि*(ताम्.ब्रा.१७-७-१)ति पदद्वयसमभिव्याहारो रेवतीषु वारवन्तीयरूपविशेषण-स्वरूपस्य अर्थप्रत्यायकोऽपि न तत्र प्रमाणम् । अयञ्चापरो विशेषः सोमलताद्रव्यस्य लोकसिद्धत्वात् तत्र यागसम्बन्धित्वेनैव विधिः कल्प्यः । इह तु विशे-षणस्वरूपस्यापि मानान्तरासिद्धत्वात् प्रतीयमानत्वेऽपि तस्मिन्विशिष्टविधेः प्रामाण्याभावाच्च तत्सिध्यर्थम् स्वरूपे स्तोत्रविशेषसम्बन्धित्वे च विधिद्वयम् कल्प्यमिति । तस्मात् मन्त्रार्थवादानाम् स्वार्थे तात्पर्याभावान्न तेभ्यो देवता-विग्रहसिद्धिः । ननु मन्त्रार्थवादानाम् विध्येकवाक्यतापन्नानाम् स्वार्थे तात्पर्यम् सम्भवत्येव । दर्शपूर्णमासादिप्रधानविध्येकतापन्नप्रयाजादिविधिवदिति चेत्सत्यम् । मानान्तराविरोधे प्रतीयमानार्थे तात्पर्यम् सम्भवति न तु तद्विरुद्धे अन्यथा *यजमानः प्रस्तर*(तै.सम्.२-६-५-३) इत्यत्रापि प्रतीयमानाभेदतात्पर्यप्रसङ्गात् । अस्ति च मन्त्रार्थवादवशेन देवताविग्रहाभ्युपगमे मानान्तरविरोधः । देवता- विग्रहाभ्युपगमे हि न्यायतौल्येन नानायागदेशेषु युगपदाहूतानामागमनस्य अग्नि-

प्रक्षिप्तभस्मीभूतहविरविकारादेश्च अभ्युपगमात् प्रत्यक्षोपपत्तिविरोधः । अतो देवताविग्रहे न तात्पर्यम् सम्भवति । अतो विग्रहाभावादुपासनास्वनधिकार इति पूर्वपक्षे प्राप्त उच्यते –

तदुपर्यपि बादरायणस्सम्भवात् ॥ १२५

तत् ब्रह्मोपासनम् उपरि मनुष्याणामुपरि देवादिष्वपि सम्भवतीति ह भगवान् बादरायणो मन्यते । तेषामप्यर्थित्वसामर्थ्ययोस्सम्भवात् । अर्थित्वम् तावत् आध्यात्मिकादिदुर्विषहदुःखाभितापात् परस्मिन् ब्रह्मणि च निरस्तनिखिलदोष-गन्धानवधिकातिशयासङ्ख्येयकल्याणगुणगणे निरतिशय भोग्यत्वादिज्ञानाच्च सम्भवति । सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्त्वेन सम्भवति । पटुतरदेहेन्द्रि-यादिमत्त्वञ्च सृष्टिवाक्येषु देवतिर्यङ्मनुष्यस्थावरात्मना चतुर्विधसृष्ट्याम्नानात् सिद्धम् । देवादिभेदश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्दशलोकस्थ- भोगयोग्यदेहेन्द्रियादियोगायत्तः, तथा *देवत्वम् गच्छन्ति य एता उपयन्ती*  ति देवत्वप्राप्तयस्यर्थक्रतुविध्यन्यथानुपपत्त्याऽपि देवताविग्रहवत्त्व-सिद्धिः । ज्योतिष्ठोमादिविघ्यन्यथाऽनुपपत्त्या देशान्तरदेहान्तरभोग्यैहिक

सुखदुःख विलक्षणस्वर्गशब्दोक्तसुखरूपतत्फलभोक्तृकर्मदेवसिद्धेरभ्युप-गतत्वात् देवतासायुज्यसालोक्यादिफलकर्मविध्यन्यथानुपपत्त्या देवता-विग्रहाणाम् तद्भोग्यभोगोपकरणानामभ्युपगन्तव्यत्वाच्च ।

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ १२६॥

नन्वेवम् देवताविग्रहाभ्युपगमे कर्मणि विरोधः प्रसज्यते । बहुषु यागेषु युगपदेकस्येन्द्रस्य विग्रहवतः *अग्निमग्न आवह*(तै.यजुः.अष्टः.३-५) *इन्द्रागच्छ हरिव आगच्छे*(तै.यजुः.आर.१-१२)त्यादिना आहूतस्य सन्निधानानुपपत्तेः विरोधः प्रसज्यत इति चेत्तन्न – अनेकप्रतिपत्तेर्दर्शनात् । दृश्यते हि सौभरिप्रभृतीनाम् शक्तिमताम् युगपदनेकशरीर प्रतिपत्तिः ।

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् २७

माभूत्कर्मणि विरोधः, वैदिके तु शब्दे विरोधः प्रसज्यते । देवताविग्रहा-भ्युपगमे हि विग्रहस्य सावयवत्वेन अनित्यत्वात् इन्द्रादेरर्थस्य विनाशादूर्ध्वम् प्रागुत्पत्तेश्च तदर्थवाचिवैदिकशब्दानाम् सत्त्वे शब्दस्य अर्थेनौत्पत्तिकस्सम्बन्धो न स्यात् । शब्दस्वरूपस्यापि नाशे अनित्यत्वम् स्यात् । ततश्च *औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध*(जै.मी.सू.१-१४)इति सूत्रप्रतिपादितम् शब्दार्थसम्बन्धानाम् नित्यत्वम् विरुध्येतेति चेन्न । *वेदेन नामरूपे व्याकरोत् सतासती प्रजापतिः* (तै.यजुः.अष्ट.२-६-२-७) । *नामरूपञ्च भूतानाम् कृत्यानाञ्च प्रपञ्चनम् । वेद- शब्देभ्य एवादौ देवादीनाम् चकार स*(वि.पु.अम्.१-३-६३) इति प्रत्यक्षानु-मानशब्दिताभ्याम् श्रुतिस्मृतिभ्याम् इन्द्राद्यर्थानाम् वेदप्रभवत्वावेदनात् । यथा शिल्पिना शिल्पशास्त्रोदितनामरूपाद्यनुसन्धानपूर्वकम् निर्मितम् देवताप्रति- मादिकम् पूर्वपूर्वसमानरूपम्, एवमिन्द्राद्यर्थोऽपि वेदोक्तनामरूपानुसन्धान-शालिना प्रजापतिना निर्मीयमाणः पूर्वपूर्वसमाननामरूप एव भवति । ततस्स-मानरूपाभिव्यङ्ग्याकृतिवाचित्वादिन्द्रादिशब्दानाम् व्यक्तीनामनित्यत्वेऽपि जातिवाचिगवादिशब्दवत् इन्द्रादिशब्दानामपि जातिवाचितया नानित्यार्थस-म्योगकृतो विरोध इत्यर्थः ।

ननु *मन्त्रकृतो वृणीते*(आपस्तम्बे प्रवरकाण्डे.१-७) सम्हिताकारपदकार-सूत्रकारब्राह्मणकाराणाम् अयम् सोऽग्निरिति विश्वामित्रस्य सूक्तम् भवती*(तै. यजु.कां.५-३-३-३)ति मन्त्रादीनाम् कार्यत्व श्रवणात् न वेदनित्यत्वमित्यत्राह –

अत एव नित्यत्वम् ॥ १२८

*अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रसूतय*(महा.भा.शान्ति.मोक्ष.१३१-५-६) इति मन्त्रकृत्त्वेन प्रसिद्धा-नामपि वसिष्ठविश्वामित्रादीनाम् वेदजन्यत्वाम्नानात् मन्त्रकृत्त्वम् मन्त्रद्रष्टृत्वमेव

न मन्त्रकर्तृत्वमित्यवसीयते । अतो वेदनित्यत्वस्य नानुपपत्तिः ।

नन्वेवमपि प्राकृतप्रळये शब्दस्य तदुपादानभूताहङ्कारादेश्च नष्टत्वात् कथम् वेदनित्यत्वम् कथम् वा सर्वेषाम् वेदशब्दप्रभवत्वम् तत्राह –

समाननामरूपत्वाच्चावृत्तावप्यविरोधो

दर्शनात्स्मृतेश्च ॥ १२९ ॥

कृत्स्नोपसम्हारे जगदुत्पत्त्यावृत्तावपि पूर्वोक्तसमानरूपत्वस्य तदवस्थ-त्वादेव न शब्दानित्यत्वम् । *सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्*(तै. महाना.६-१-३८), *यथर्तुष्वृतु लिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु*(वि.पु.२-५-६५) इति श्रुतिस्मृतिभ्याम् तथैव प्रति-पादनात् एतस्य नित्यत्वमपौरुषेयत्वञ्च । इदमेव हि वेदस्य अपौरुषेयत्त्वम्, यत्पूर्वपूर्वोच्चारणक्रमानुसन्धानसापेक्षोच्चारणक्रमवत्वम्, तदिदानीम् तनवेदे सर्गाद्यवेदेऽपि समानम् । इयाम्स्तु विशेष: भगवद्व्यतिरिक्तास्सर्वेऽपि पूर्वपूर्व-वेदानुपूर्व्यनुभवजनितसम्स्कारवशेन पूर्वानुपूर्व्याः स्मृतत्वात् तयैवानुपूर्व्या वेदमुच्चारयन्ति । भगवाम्स्तु सम्स्कारनिरपेक्षमेव पूर्वानुपूर्वीमनुसन्धाय तयैवानुपूर्व्या वेदमुच्चारयति । इदमेव हि पौरुषेयप्रबन्धापेक्षया वेदस्य वैलक्षण्यम् नित्यत्वञ्च ।

ननु चतुर्मुखकर्तृकावान्तरकल्पसृष्टिविषयतयाऽपि *धाता यथापूर्वम-कल्पयदि*(वि.पु.२-५-६५)त्यादि प्रमाणानामुपपत्तौ स्वतन्त्रपरमात्मकर्तृक-ब्रह्मकल्पाद्यसमयप्रवृत्तवेदचतुर्मुखादिसृष्टेः समानानुपूर्वीकत्वसमाननामरूप-कृत्यत्वादौ किं प्रमाणमिति चेदुच्यते-चतुर्मुखादेः नामरूपकृत्यादीनि इतिहास- पुराणादिभ्योऽवगत्य एतादृशनामरूपकृत्यविशिष्टश्चतुर्मुखो भवानीत्येवम् रूपसङ्कल्पपूर्वकम् भगवन्तमाराध्य तत्तत्पदम् प्राप्नुवन्तीति हि शास्त्रप्रसिद्धिः । यदि कल्पान्ते उत्पाद्यमानश्चतुर्मुखो विलक्षणनामरूपकृत्यस्स्यात्, तदा तस्य भगवदाराधकस्य वाञ्चितार्थसिद्ध्यभावात् तदिष्टसाधनत्वावेदकशास्त्रस्य अप्रामाण्यमेव स्यात्, तत्तत्पदाभिलाषिणः कस्यापि प्रवृत्तिर्न स्यात् । अतः

प्राकृतसृष्ट्यावृत्तावपि यथापूर्वमेव सृष्टिरिति निष्कर्षः ।

ननु अग्रिलोकवर्तिनामर्चिराद्यनतिवाह्यानाम् अर्चिराद्यातिवाहिकचिन्तन-रूपाङ्गासम्भवात् तदङ्गत्वस्य च *तच्छेषगत्यनुस्मृतियोगाच्च*(ब्र.सू.४-२-१६), *योगिनः प्रति स्मर्यते स्मार्ते चैते*(ब्र.सू.४-२-२०) इत्यादिषु आविष्कृतत्वात् तदङ्गहीनानाम् देवानाम् कथमङ्गिभूतब्रह्मविद्यायामधिकार इति चेन्न । आतिवाहिकचिन्तनस्य दृष्टार्थतया तल्लोकवर्तिनाम् तदूर्ध्वलोकवर्त्यातिवाहिक-चिन्तनेनैव साद्गुण्योपपत्तेः । मृतयजमानकेष्टिकर्मणि सूक्तवाके यजमानस्य आयुराशासनाद्यभावात् अनपेक्षितायुराशासनाद्यम्शम् विहाय अपेक्षिताम्श-पाठस्याङ्गीकृतत्वात् तद्वदिहाप्यनपेक्षितातिवाहिकाम्शत्यागेन अपेक्षितस्वस्व-लोकोर्ध्ववर्त्यातिवाहिकानामेव चिन्तनीयत्वोपपत्तेः ।

ननु *तदुपर्यपि बादरायणस्सम्भवात्*(ब्र.सू.१-३-२५) । *मध्वादिष्व-सम्भवादनधिकारम्*(ब्र.सू.१-३-३०) इत्यधिकरणद्वयेन किम् प्रयोजनम्, देवतानाम् देवताविशेषणाञ्च अर्थित्वसामर्थ्यनिर्णयस्य मनुष्याणाम् प्रवृत्ति-

विशेषानौपयिकत्वात् । न च देवानामधिकरणद्वयेन किञ्चिदस्ति प्रयोजनम् । तेषाम् स्वकीयपटुतरदेहादिमत्त्वे अर्थित्वसम्भवनिर्णये च अधिकरणन्याया-नपेक्षणादिति चेदुच्यते – *परम्ब्रह्म देवानाम् वस्वादिदेवताविशेषाणाञ्च उपास्यम् फलप्रदम् चेति ईदृशमहिमविशिष्टतया उपासनकाले अनुसन्धे-

यत्वसिद्धिलक्षणप्रयोजनसद्भावात् । देवताविग्रहासिद्धौ मधुविद्यायाम् देवतापदप्राप्तिः फलमित्यपि न भवेत् । गत्यनुस्मृतौ अचेतनानाम् अर्चिरादी-नामेव मार्गपर्वत्वेन चिन्तनीयता स्यात्, नातिवाहिकदेवतानाम् । तथा *भाक्तम् वाऽनात्मवित्त्वादि*(ब्र.सू.३-१-७)ति सूत्रोक्तन्यायेन ज्योतिष्टोमादिकर्मफलम् भुञ्जानानाम् *तम् देवा भक्षयन्ती*(छान्.५-१०-४)ति निरन्तराजानदेवकर्मकर-भावावगत्या वैराग्यम् न सिध्येत् । प्राप्तिविरोधयोस्सतोः मन्त्रार्थवादानाम् प्रतीमानेऽर्थे प्रामाण्यमस्तीति व्युत्पादनेन *प्लवा ह्येते अदृढा यज्ञरूपाः* (मुण्ड.१-२-७) *एतत्तृतीयम् स्थानमि*(छान्.५-१०-८)त्यादि मन्त्रार्थवादैः वैराग्यसिद्धिरित्यादिप्रयोजनानि द्रष्टव्यानि ॥

इति देवताधिकरणम्

 ॥७॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.