[highlight_content]

प्रमिताधिकरणशेषः

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः

(प्रमिताधिकरणशेषः)

 

कम्पनात् ॥१४०॥

 

*यदिदम् किञ् जगत्सर्वम् प्राण एजति निस्सृतम् । महद्भयम् वज्रमुद्यतमि* (कठ.२-६-२)ति समस्तप्राणिकम्पनेन भयहेतुत्वस्य अस्मिन्नङ्गुष्ठप्रमिते आम्नानात् तस्य परमात्मधर्मत्वस्य *भीषाऽस्माद्वातःपवत*(तै.आन.८-१) इत्यादिश्रुतिप्रतिपन्नत्वात् अङ्गष्ठप्रमितः परमात्मा ।

 

ज्योतिर्दर्शनात् ॥१४१॥

 

 

*न तत्र सूर्यो भाति न न्द्रतारकमि*(कठ.२-५-१५)ति अङ्गुष्ठप्रमिते सकलतेज आ्छादकज्योतिस्सम्बन्धस्य आथर्वणे ब्रह्मसम्बन्धितया प्रतिपादि-तत्वात् अङ्गुष्ठप्रमितः परमात्मा । अत एतन्मन्त्रप्रतिपाद्यमानः अङ्गुष्ठप्रमित ईश्वर एवेति सिद्धम् ॥

 

इति प्रमिताधिकरणशेषः

error: Content is protected !!