॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥
भूमाधिकरणम् ॥२॥
मुण्डके परमात्मप्रकरणाविच्छेदेन परमात्मत्वम् साधितम् । तर्हि भूम विद्यायाम् जीवप्रकरणाविच्छेद इति शङ्कया उत्थिता सङ्गतिः ।
छान्दोग्ये एतदधिकरणविषयाणामर्थ उच्यते । *अधीहि भगव इति होप-ससाद सनत्कुमारम् नारदः । यद्वेत्थ तेन मोपसीदत तस्त ऊर्ध्वम् वक्ष्यामीति* (छान्.७-१-१) – ज्ञाताम्शमुक्त्वा मत्समीपे उपसीद ततश्श्रुत्वा अज्ञाताम्शम् ते वदिष्यामीत्युक्तवानित्यर्थः । *स होवाच ऋग्वेदम् भगवोऽध्येमी*(छान्.७-१-२) त्यारभ्य *सोऽहम् भगवो मन्त्रविदेवास्मि नात्मविदि*(छान्.७-१-३)त्यन्तेन । मन्त्रवित् – मन्त्रप्रधानकर्मविदेवास्मि नात्मविदित्यर्थः । *श्रुतम् ह्येव मे भगव-द्दृशेभ्यस्तरति शोकमात्मविदिति*(छान्.७-१-३) *तम् मा भगवान्च्छोकस्य पारम् तारयत्वि*(छान्.७-१-३)ति । अत आत्मानमुपदिश्य शोकम् तारयत्वि-त्यर्थः । *तम् होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत्*(छान्. ७-१-३) । *नाम वा ऋग्वेदो यजुर्वेद*(छान्. ७-१-४) इत्यादि । अध्यगीष्ठाः -अधीतवानसीत्यर्थः । *नामोपास्व*(छान्.७-१-५) । अत्र ब्रह्मेति शेषः । *यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतम् तत्रास्य यथा कामचारो भवति*(छान्.७-१-५) नामात्म- कशब्दो यावति लोके वर्तते तावत्पर्यन्तम् सञ्चारो भवतीत्यर्थः । नाम्नि
निरतिशयब्रह्मत्वलक्षणब्रह्मत्वे आत्मत्वे च श्रद्धामलभमानः पृच्छति – *अस्ति भगवो नाम्नो भूय*(छान्.७-२-१) इति गुरुराह *वाग्वाव नाम्नो भूयसी*(छान्.७-१५-१)ति । एवम् प्रश्नप्रतिवचनरूपेण वाङ्-मन-स्सङ्कल्प-चित्त-ध्यान-विज्ञान-बल-अन्न-जल-तेज-आकाश-स्मर-आशापर्यन्तमुपन्यस्याह *प्राणो वा आशाया भूयानि*(छान्.७-१५-१)ति अत्र प्राणशब्देन प्राणसहचरितो जीवोलक्ष्यते । *यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वम् समर्पितम्*(छान्.७-१५-१) एव- मस्नाभिदृष्टान्तेन समस्ताचेतनभूतजातमेतच्चेतनाश्रितमित्यर्थः । समस्तात्मकत्व-मेव जीवस्योपपादयति – *प्राणः प्राणेन याती*(छान्.७-१५-१)त्यादिना *प्राणो
ह पिता*(छान्.७-१५-१) *प्राणो ब्राह्मण*(छान्.७-१५-१) इत्यन्तेन । तथा च पित्रादिरपि जीव एवेत्यर्थः । ननु परिदृश्यमान माम्सपिण्डविशेषा एव पित्रादि-शब्दवाच्या: न जीव इति मन्यमानम् प्रत्याह *स यदि पितरम् वा मातरम् वा भ्रातरम् वा स्वसारम् वाऽऽचार्म् वा ब्राह्मणम् वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमसि आचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति*(छान्.७-१५-१) | *अथ यद्यप्येनानुत्क्रान्तप्राणान् शूलेन समाम्सम् व्यतिषन्दहेन्नैवैनम् ब्रूयुः पितृ-हासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति प्राणो होवैतानि सर्वाणि भवति*(छान्.७-१५-२) । सजीवेषु पित्रादिशरीरेषु धिक्त्वामित्येव किञ्चिद्भृशमधिक्षिपति पुरुषे पितृहेत्यादि- शब्दान् प्रयुञ्जते । तेष्वेव शरीरेषु उत्क्रान्तजीवेषु सत्सु शूलेन समासम् – सम्पूर्वात् क्षेपार्थात् अस्यतेः णमुलन्तोऽयम् शब्दः ।सम्यक्प्रक्षिप्य व्यतिषज्य सम्यग्दाहकेऽपि पुरुषे पितृहेत्यादिशब्दान् न प्रयुञ्जते । अतो निर्जीवस्य शरीरस्य पित्रादित्वाभावास्य सिद्धत्वात् जीव एव पित्रादिर्भवतीत्यर्थः । अयम् भावः – *प्राणो वा आशाया भूयानि*(छान्.७-१५-१)ति वाक्ये प्राणशब्दनिर्दिष्टः प्राणसहचारी प्रत्यागात्मैव न मुख्यप्राणः । *प्राणो ह पिता प्राणो माते*(छान्.७-१५-१)त्यादिना प्राणस्य चेतनत्वावगते: *पितृहा वै त्वमसि मातृहावै त्वमसि* (छान्.७-१५-२)त्यादिना सप्राणेषु पितृप्रभृतिषु उपमर्दकारिणि हिम्सकत्वादि- निमित्तोपक्रोश वचनात् तेष्वेव विगतप्राणेषु अत्यन्तोपमर्दकारिणि उपक्रोशा-भावाच्च अप्राणेष्वपि स्थावरेषु चेतनेषु उपमर्दभावाभावयोर्हिम्सातदभाव-दर्शनात् हिम्सायोग्यतया निर्दिष्टः प्रत्यागात्मैवेति निश्चीयते । अत एव अरनाभिदृष्टान्तोपन्यासेन प्राणशब्दनिर्दिष्टः पर इति न भ्रमितव्यम् । परस्य हिम्साप्रसङ्गाभावात् जीवादितरस्य भोग्यभोगोपकरणस्य अचिद्वस्तुनो जीवाय- त्तस्थितित्वेन प्रत्यगात्मन्येव अरनाभिदृष्टान्तोपपत्तेश्च । यद्यपि *नायम् हन्ति न हन्यत*(कठ.१-२-१९) इति निर्दिष्टस्य जीवस्य स्वतो हिम्सायोग्यत्वाभावेन देहा- दिसाहित्यप्रयुक्तहिम्सात्वम् मुख्यप्राणस्यापि सुवचम्, *प्राणो ह पिते*(छान्.७-१५-१) त्यादिवाक्यनिर्दिष्टानाम् जीववाचितया लोके प्रसिद्धानाम् बहूनाम् पित्रा- दिशब्दानाम् गौणत्वकल्पनापेक्षया एकस्य प्राणशब्दस्यैव जीववाचित्वाश्रयण-स्योचितत्वात् । वृत्तिकृता भगवता बोधायनेनापि एतत्सूत्रव्याख्याने *प्रत्यगात्मन ऊर्ध्वन्न तु मुख्यप्राणादूर्ध्वमि*(बोधायनवृत्तिः)त्युक्तत्वात् वेदनाजनकव्यापार-लक्षणहिम्साया वेदनाशून्ये अचेतने असम्भवाच्च प्राणादिशब्दनिर्दिष्टः प्रत्या-गात्मैवेति । *स वा एष एवम् पश्यन्नेवम् मन्वान एवम् विजानन्नतिवादी भवति* (छान्.७-१५-४) एष जीवः स्वात्मानमुक्तेन प्रकारेण मननोपासनदर्शनानि कुर्वन्नतिवादी भवति । स्वोपास्यवस्तुनस्सर्वोत्कृष्टत्ववादी भवतीत्यर्थः । बृहस्पति-समप्रत्यर्थिजनाप्रतिभाधायकस्वोपास्यदेवतापारम्यशीलत्वमतिवादित्वम् स्वोपा-स्यदेवतातिशय एव पर्यवस्यति । *एवम् पश्यन्नि*(छान्.७-१५-४)ति हेतौ शता । ततश्च स्वोपास्यदेवता साक्षात्कारोऽतिवादित्वे हेतुरिति भावः । साक्षात्कारप्रीतस्वोपास्यदेवताऽनुग्रहादीदृशमतिवादित्वम् भवतीति भावः । *तम् चेत् ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत*( छान्.७-१५-४) स्पष्टो-ऽर्थः । अत्र पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य कथनात्प्रक्रान्त आत्मोपदेशः प्राणशब्दिते प्रत्यगात्मनि पर्यवसन्न इति प्राणाद्वाव भूयोऽस्तीति स्वयम-पृच्छत्येव नारदे सनत्कुमारः स्वयमेव ततोऽप्यतिशयितम् परमात्मानमुपक्षिपति *एष तु वा अतिवदति यस्सत्येनातिवदति*(छान्.७-१६-१) । ब्रह्मणस्सततैक-रूपत्वेन निर्विकारत्वात्सत्यत्वम् तेन ब्रह्मणा निमित्तेन योऽतिवदति एषोऽति-वादी पूर्वस्मात्प्राणातिवादिनो विशिष्ट इत्यर्थः । अत्र सत्यातिवादिनः प्राणातिवा-द्यपेक्षयाऽतिशयकथनात् सत्यशब्दनिर्दिष्टस्य परस्य ब्रह्मणः प्राणशब्दनिर्दिष्ट- जीवापेक्षया भूयस्त्वमुक्तम् भवति । न च पूर्वप्रस्तुतप्राणातिवादिन एव *एष तु वा अग्निहोत्री यस्सत्यम् वदती* त्यादाविव सत्यवदनमङ्गतया विधीय-तामिति वाच्यम् । *एष तु वा अग्निहोत्री* ति वाक्ये द्रव्यदेवतान्तराभावेन अग्निहोत्रान्तराप्रतीतेस्तुशब्दस्वारस्यभङ्गः इह तु प्रकृतातिवादनिमित्तप्राणव्य-तिरिक्तस्य सत्यशब्दस्य ब्रह्मणो निमित्तान्तरस्य प्रतीतेश्च तत्स्वारस्यभङ्गो
युक्तः, सत्यवदनस्याङ्गतया विधाने सत्यम् वदतीति निर्देशस्य युक्ततया *सत्येने *(छान्.७-१६-१)ति तृतीयाया *अती*(छान्.७-१६-१)त्युपसर्गस्य चायोगाच्चेति द्रष्टव्यम् । “सोऽहम् भगवस्सत्येनातिवदानी*(छान्.७-१६-१)ति ब्रह्मणाऽहमति-वाद्यस्मीति शिष्यः प्रार्थयामासेत्यर्थः । इतर आह *सत्यम् त्वेव विजिज्ञासितव्यमि*(छान्.७-१६-१)ति । यदि सत्यशब्दितब्रह्मनिमित्तकातिवादितामभिलषसि, तर्हि ब्रह्मोपास्यमित्यर्थः ब्रह्मोपासनमतिवादित्वहेतुरिति यावत् । शिष्यस्तदभ्यु-पगच्छति *सत्यम् भगवो विजिज्ञास*(छान्.७-१६-१) इति विजिज्ञासे-ब्रह्मोपा-सनम् करोमीत्यर्थः । ब्रह्मोपासनस्यातिवादित्वहेतुत्वम् ब्रह्मसाक्षात्कारद्वारेत्याह
*यदा वै विजानात्यथ सत्यम् वदति*(छान्.७-१७-१) अत्र विजानातिशब्दः-साक्षात्कारपरः, न तु शास्त्रजन्यज्ञानपरः । *यदा वै मनुते अथ विजानाती* (छान्. ७-१८-१)ति जानात्यर्थस्य मननसाध्यत्वस्य वक्षयमाणत्वात् । *सत्यम् वदति*(छान्.७-१७-१) सत्यमतिवदतीत्यर्थः । पूर्वत्र *सत्येनातिवदानी*(छान्. ७-१८-१) ति सत्यशब्दितस्य ब्रह्मणोऽतिवदनम् प्रति निमित्तत्वेन करणत्व-विक्षया तृतीयायाः सत्यवदनम् प्रति कर्मतया द्वितीयाया अप्युपपत्तिः । *नावि-जानन् सत्यम् वदति विजानन्नेव सत्यम् वदति विज्ञानम् त्वेव विजिज्ञासितव्य- मि*(छान्.७-१६-१)ति । साक्षात्काराभावे नातिवादित्वम् अतस्साक्षात्काररूपम् विज्ञानम् विजिज्ञासितव्यम् सम्पाद्यमित्यर्थः । *सत्यम् त्वेव विजिज्ञासितव्यमि* (छान्.७-१६-१)ति । ब्रह्मोपासनस्यातिवादित्वहेतुत्वकथनात् अत्र वाक्ये साक्षा-त्कारस्यातिवदनहेतुत्वकथनात् ब्रह्मोपासनतत्साक्षात्कारयोर्द्वार-द्वारिभावाप-न्नयोरेव हेतुत्वम् सिध्यतीति भावः । अथ *यदा वै मनुते अथ विजानाति नामत्वा विजानाति मत्वैव विजानाति, मतिस्त्वेव विजिज्ञासितव्येति मतिम् भगवो विजि- ज्ञास*(छान्.७-१८-१) इति ब्रह्मोपासनोपायभूतम् मननम् सम्पाद्यमित्यर्थः । श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमप्यर्थसिद्धम् मत्वा श्रवणोपाय-भूताम् ब्रह्मणि श्रद्धाम् त्वरालक्षणाम् *श्रद्धात्वेव विजिज्ञासितव्ये*(छान्.७-१९-१) त्युपदिश्य पुनरपि ब्रह्मैव श्रोतव्यम् नान्यदित्यध्यवसायरूपानिष्ठा श्रोतुः त्वरा-लक्षणश्रद्धोपायतया *यदा वै निस्तिष्ठती*(छान्.७-२०-१)त्यादिना *निष्ठात्वेव विजिज्ञासितव्ये*( छान्.७-२०-१) त्यन्तेनाऽभिधाय “*यदा वै करोती*(छान्.७-२१-१) त्यादिना *कृतिस्त्वेव विजिज्ञासितव्ये*(छान्.७-२१-१)त्यन्तेन उद्योग-प्रयत्नापरपर्याया श्रोतव्यान्तरेषु हेयत्वानुसन्धानेन उक्तलक्षणमनसो नियमन-रूपा कृतिः ब्रह्मैव श्रोतव्यमिति व्यवसायलक्षणनिष्ठाहेतुत्वात्सम्पद्येत्युक्त्वा *यदा वै सुखम् लभतेऽथकरोती*(छान्.७-२२-१)त्यादिना *सुखम् त्वेव विजिज्ञासित-व्यमि*(छान्.७-२२-१)त्यन्तेन उक्तलक्षणकृतेः श्रोतव्ये ब्रह्मणि निरतिशयानु-कूलत्वावगममन्तरेणासम्भवात् श्रोतव्यान्तरेषु हेयत्वानुसन्धानाहितमनो-नियम-नरूपकृतिहेतुतया तदत्यन्तानुकूलत्वलक्षणम् सुखत्वम् ज्ञातव्यमित्युक्तमित्यर्थः । अत्र च श्रवणमननश्रद्धादेः प्रागेव सुखप्राप्त्यसम्भवात् प्राप्त्यर्थस्यापि लभते: ज्ञानमेवार्थः । ज्ञानस्यापि प्राप्तिरूपत्वात् अत्रत्य विजिज्ञासितव्यशब्दस्य ज्ञात- व्यत्वमर्थः । *यो वै भूमा तत्सुखम् नाल्पे सुखमस्ति भूमैव सुखम् भूमात्वेव विजिज्ञासितव्य इति भूमानम् भगवो विजिज्ञास*(छान्.७-२३-१) इति ।
भूमाशब्दो बहुत्ववाची । बहुशब्दात् *पृथ्वादित्वादिमनिचि*(अष्टा.५-१-१२२) *बहोर्लोपो भू च बहोरि*(अष्टा.६-४-१५८)ति प्रकृतिप्रत्यययोर्विकारे च सति तन्निष्पत्तेः । बहुत्वञ्चात्र वैपुल्यम्, न सङ्ख्याविशेषः । बहुशब्दस्य *बहुषु बहुवचनमि*(अष्टा.१-४-२१)त्यादौ सङ्ख्यायामिव *अल्पम् वा बहु वा यस्य श्रुतस्योपकरोति य*(छान्.७-२३-१) इत्यादावल्पत्वप्रतियोगिनि वैपुल्येऽपि प्रयोगदर्शनात्, इहापि *नाल्पे सुखमस्ती*(छान्.७-२३-१)ति अल्पत्वप्रतिद्वन्द्वि- तयैव भूमशब्दप्रयोगाच्च वैपुल्यमेवार्थः । वैपुल्यञ्च गुणोत्कर्षरूपम्, उत्तरत्र उत्कर्षस्य प्रतिपादितत्वात् । न तु परिमाणरूपम् । अत उत्कर्षकृतवैपुल्यमेवेह भूमशब्देन विवक्षितम् । अत एव न वैपुल्यरूपधर्मपरो भूमशब्दः । सुखस्य वैपुल्यरूपत्वाभावादल्पप्रतियोगितया निर्देशाच्च । न ह्यत्र वा उत्तरत्र वा अल्पत्वम् भूमप्रतियोगितया निर्दिश्यते, अपित्वल्पमेव । अतोऽल्पशब्द- प्रतियोगितया प्रयुज्यमानो भूमशब्दो वैपुल्याश्रयधर्मिपर एव । ततश्चायमर्थः – यदुत्कृष्टतया विपुलम् तदेव सुखम् अत्यन्तानुकूलमित्यर्थः । *नाल्पे सुखमस्ति*(छान्.७-२३-१) सुखम् सुखत्वम् -अत्यन्तानुकूलत्वमित्यर्थः । *अपशवो वा अन्ये गोऽश्वेभ्य* इत्यत्र गवाश्वव्यतिरिक्ते अजादौ पशुत्वनिषेधस्य प्रशस्तपशुत्व-निषेधपरत्ववत् अल्पे प्रत्यगात्मसुखे सुखत्वनिषेधस्य प्रशस्तसुखत्व-निषेधपरत्वात् ।
एतद्वाक्यप्रस्तुतयोः भूमाल्पशब्दयोरर्थम् जिज्ञासमानम् प्रत्याह – *यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । यत्रान्यत्पश्य-त्यन्यच्छृणो-त्यन्यद्विजानाति तदल्पम्*(छान्.७-१४-१) यत्रेति अनुभूयमान इत्यध्याहारः । यत्र यस्मिन् वस्तुनि अनुभूयमाने ततोऽन्यन्न दृश्यते न श्रूयते न विज्ञायते स भूमेत्यर्थः । यस्मिन् दृश्यमाने श्रूयमाणे विज्ञायमाने ततोऽन्यन्न दृश्यते न श्रूयते न विज्ञायत इति वाऽर्थः । यद्वा सप्तम्या विषयत्वमर्थः पश्यन्नित्यध्याहारः । यम् पश्यन्नान्यम् न पश्यतीत्यर्थः । अत्र तदितरदर्शनाद्यभावो विषयाभावकृतः । अतश्च यतोऽन्यन्नास्ति स भूमेति पर्यवसितोऽर्थः ।
ननु चेतनाचेतनवर्गस्य तद्भिन्नत्वात् भूम्नोऽन्यन्नास्तीति कथमुच्यते । न च चिदचिद्विशिष्टस्यैव भूमब्रह्मशब्दार्थत्वाच्चिदचितोरपि तत्रान्तर्भावात्तदन्यन्नेति निषेधश्शक्यते कर्तुमिति वाच्यम् । विशेषण-भूतयोश्चिदचितोर्भूमब्रह्म-शब्दार्थभूतात् विशिष्टादन्यत्वेन ततोऽन्य-न्नास्तीति निषेधस्यायुक्तत्वात् । अत एव जगदैश्वर्यविशिष्टमनुभवन् तदतिरिक्तम् पश्यतीत्यपि न युक्तम् । ऐश्वर्य-विशिष्टादीशितव्यस्य भिन्नत्वात् सर्वज्ञत्वेन विशिष्टमनुभवन्स्तदतिरिक्तम् न पश्यतीति तस्यापि भूमात्व प्रसङ्गात् । *अथात आत्मादेश*(छान्.७-२५-२) इति भूम्न एवात्मत्वस्य उपदेक्ष्यमाणत्वात् *तरति शोकमात्मविदि*(छान्.७-१-३)ति प्रस्तुतस्यात्मोपदेशस्य भूम्नि पर्यवसानाच्च भूम्न आत्मत्वमवर्जनीयम् । न हि चिदचिद्विशिष्टस्यात्मत्वमस्ति । विशेष्यस्यैवान्तःप्रविश्य नियन्तृत्वेनात्मत्वात् । अतश्च तस्यैव भूमात्वम् वक्तव्यम् । नचेदम् लक्षणम् तस्य सम्भवति तद्व्यतिरिक्तस्य वस्तुनस्सत्वादिति चेत्, उच्यते
ब्रह्मशब्दवत् भूमशब्दस्यापि वस्तुपरिच्छेदशून्यत्वमेवार्थः । वस्तुपरि-च्छेदो नाम इदमिदन्नेति निर्देशार्हत्वम् । तद्राहित्यञ्च स्वरूपाभेदाद्वा तत्तदपृथक्सि-द्धत्वाद्वा भवेत्, तत्र जीवजडयोरीश्वराभेदाभावात्तदपृथक्सिद्ध-सत्ताकत्वमिति फलति । तच्च द्वेधा घटते, तत्सत्ताव्यतिरिक्तसत्ताशून्यत्वाद्वा *यदधीना यस्य सत्ता तत्तदित्येव भण्यत* इति स्मृत्यनुसारेण तदधीनसत्ताकत्वाद्वा भवेत् तत्र तत्सत्ताव्यतिरिक्तसत्ताशून्यत्वमपि सत्तारूपविशेष्याभावेन मिथ्यात्वाद्वा भवेत्, तत्सत्ताभिन्नसत्ताकत्वेन सत्ताव्यतिरिक्तत्वरूपविशेषणाभावाद्वा भवेत् । तत्र सत्ताशून्यत्वम् सकलप्रमाणविरुद्धमनभ्युपगमार्हम् । तथैव तत्स-त्ताभिन्नसत्ताकत्वमपि नाभ्युपगमार्हम् । अपि तु तत्सत्ताधीनसत्ताकत्वेमव । एवम् विधस्या-पृथक्सिद्धत्वस्य सिद्धान्ते अभ्युपगतत्वात् नानुपपत्तिः । *अम्शो
नानाव्यपदेशदि*(ब्र.सू.२-३-४२)त्यत्र अपृथक्सिद्धत्वलक्षणाम्शत्व-स्याभेदव्यप-देशनिर्वाहकस्य उक्तत्वादात्मभरणमिह सत्ता शब्दार्थः । उक्तञ्चहरिणा – *आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यत*(हरिकारिकाः) इति । चेतनाचेत- नयोरात्मभरणलक्षणा सत्ता परमात्मसत्ताधीनेत्यर्थः । ततश्च *यत्र नान्यदि* (छान्.७-१४-१)त्यस्यापि यत्सत्ताधीनसत्ताकम् नास्ति यदनात्मकन्नास्तीत्यर्थपर्य-वसानान्नानुपपत्तिः । यद्वा *समानेषु पूर्वत्वादि* (जै.मी.सू.७-१-१३)ति साप्तमिकाधिकरणे अन्येतरादिसर्वनामशब्दानाम् पूर्वनिर्दिष्टसदृशवाचित्वस्य व्यव- स्थापिततया *नान्योऽतोऽस्ति द्रष्टे*(बृह.३-८-१३)ति वाक्येष्विव *यत्र नान्यत्प-श्यती*(छान्.७-१४-१) त्यादिवाक्येऽपि समानान्यनिषेधपरत्वावधारणान्नानुपपत्तिः ।
*यो वै भूमा तदमृतम् अथ यदल्पन्तन्मर्त्यम्*(छान्.७-२४-१) । जनन-मरणादिशून्यम् नित्याविर्भूतानन्याधीनापहतपाप्मत्वादिगुणाष्टकम् । इतरत्त्व-नीदृशम् । नित्यमुक्तादीनामप्यनन्याधीनतादृग्रूपत्वाभावान्न वाक्यार्थानुपपत्तिः । शिष्यः पृच्छति – *स भगवः कस्मिन् प्रतिष्ठित इति*(छान्.७-२४-१) । उत्तरमाह – *स्वे महिम्नीति*(छान्.७-२४-१) स्वस्वरूपे । महिमा आधार इत्यर्थः । परमात्मन उभयविभूतिलक्षणा-त्मीयमहिमसद्भावेऽपि अनाधारस्य परमात्मनः तत्प्रतिष्ठितत्वासम्भवात् नह्यतिशिक्षितोऽपि नटपटुः स्वस्कन्धमारुहा नरीनर्तीति न्यायेन स्वस्य स्वाश्रितत्वासम्भवाच्च न द्वयमपि युज्यत इति शिष्यस्य बुद्धि- र्निवर्तनीयेति मत्वा पुनराह – *यदि वा न मह्मिनीति*(छान्.७-२४-१) । यदि वाऽन्यथा पश्यसि तदा न महिम्नीति ब्रूम इत्यर्थः । तद्विवृणोति – *गोऽश्वमिह महिमेत्याचक्षत*(छान्.७-२४-१) इत्यादि *क्षेत्राण्यायतनानी* (छान्.७-२४-१) त्यन्तम् । गोऽश्वमित्यादौ द्वम्द्वैकवद्भावः इतिशब्दः प्रकारवचन: एवम् जातीय-कानीत्यर्थः । *नाहमेवम् ब्रवीमीति होवाच*(छान्.७-२४-२) । तत्प्रतिष्ठितत्वन्न ब्रवीमीत्यर्थः । अयम् भावः *अस्य महिमानमिति वीतशोकः*(मुण्ड.३-१-२) *एताम् विभूतिम् योगञ्चे*(गी.१०-७)त्यादिश्रुतिस्मृतिषु परमात्मनो महिम-वत्त्वावगमात् *यदि वा न महिम्नीति*(छान्.७-२४-१) न महिमनिषेधः, अपि तु विभूतिरूपमहिमप्रतिष्ठितत्वनिषेधोऽवगम्यत इति स्वस्वरूपमहिम-प्रतिष्ठित-त्वम् निषेधति *अन्यो ह्यन्यस्मिन् प्रतिष्ठित*(छान्.७-२४-२) इति ।
ननु *यत्र नान्यत्पश्यती*(छान्.७-२४-१)त्यनुपपन्नम् । नानादिग्वर्ति-भित्रभिन्नचेतनाचेतनपदार्थानामुपलम्भादित्यत्राह – *स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतस्स उत्तरतस्स एवेदम् सर्वमि* (छान्.७-२५-१)ति । सामानाधिकरण्यात् *स*(छान्.७-२५-१)इति निर्दिष्टस्य भूम्न: *इदम् सर्व*(छान्.७-२५-१)मिति निर्दिष्टस्य चिदचिद्वर्गस्य च शरीरात्म-भावः फलितो भवति । शरीरात्मभावश्च व्याप्तिनिबन्धन इति *स एवा- धस्तादि*(छान्.७-२५-१)ति श्रुत्यभिप्रायः । ततश्च *यत्र नान्यत्पश्यती* (छान्.७-२४-१)ति तदनात्मकान्यनिषेधे नानुपपत्तिरिति भावः । एवम् सर्वात्म-भूतस्य भूम्न उपासने स्वशरीरकतयोपासनम् कर्तव्यमित्युपदिशति *अथातो-ऽहङ्कारादेशः*(छान्.७-२५-१) । अथशब्दः प्रकृतविषयत्वद्योतनार्थः । अहङ्का-रोऽहम् बुद्धिः । अतः – परमहङ्ग्रहेण भूम्न उपासनप्रकार उपदिश्यत इत्यर्थः न तु जीवस्वरूपोपदेश इति मन्तव्यम् । तथासति *अहमादेश* इति निर्देशस्यैव युक्तत्वात् कारपदवैयर्थ्यात् । परमात्मनोऽहङ्ग्रहेण उपासनप्रकारमेव दर्शयति – *अहमेवाधस्तादि*(छान्.७-२५-१)त्यादिना *अहमेवेदम् सर्वमि *(छान्.७-२५-१)त्यन्तेन । सर्वदिग्वर्ती सर्वात्मा भूमा अहमेवेति ज्ञातव्यमित्यर्थः । न तु जीवस्य सर्वात्मकत्वमुपदिश्यत इति भ्रमितव्यम् । जीवस्य अतथात्वात् तथात्वे कारशब्दवैयर्थ्यस्य उक्तत्वाच्च ।
ननु अहम् बुद्धिशब्दयोर्जीवात्मविषययोः कथम् भूमपर्यन्तत्वम् अनहमर्थे च परमात्मनि अहम् ग्रहोपासनस्य यथार्थत्वमेव स्यादित्याशङ्क्य भूम्नः प्रत्यगा-त्मानम् प्रत्यात्मत्वेन तद्विषयबुद्धि शब्दानाम् परमात्मपर्यन्तत्वमुपपद्यत इति दर्शयन् *तरति शोकमात्मविदि*(छान्.७-१-३)ति प्रक्रान्तमात्मोपदेशम्
भूम्नि समापयति – *अथात आत्मादेशः*(छान्.७-२५-२) । आत्मत्वोपदेशः क्रियत इत्यर्थः । *आत्मैवाधस्तात्*(छान्.७-२५-२) इत्यादिना *आत्मैवेदम् सर्वमि*(छान्.७-२५-१)त्यन्तेन । सर्वात्मतया उपदिश्यमानो भूमा उपासक-स्यात्मेति प्रतिपाद्यते । ततश्च अहम् बुद्धिशब्दयोथर्यथार्थत्वमेवेति भावः । ननु *अथात आत्मादेश*(छान्.७-२५-२) इति आत्मोपदेशः प्रकृतभूमविषय इति कथमवसीयत इति चेन्न – भिन्नयोर्द्वयोस्सार्वात्म्यायोगेन एकविषयत्वस्य सिद्धत्वात् । न च *स एवाधस्तादि*(छान्.७-२५-१)त्यनेनैव सार्वात्म्यस्य सिद्ध-तया उपासकात्मत्वमपि सिद्धमिति *अथात आत्मादेश*(छान्.७-२५-२) इत्यु-पदेशो व्यर्थ इति वाच्यम् । यद्यपि *स एवेदम् सर्वऽमि*(छान्.७-२५-१)ति सामानाधिकरण्येनात्मत्वम् फलति, अथापि कण्ठोक्त्या उपासकात्मत्व-सिद्ध्यर्थम् विशिष्यात्मोपदेशः । न च *अथात आत्मादेश*(छान्.७-२५-२) इति उपासकम् प्रत्यात्मोपदेशेन तन्नियामकमिति वाच्यम् । *एवम् विजानत आत्मतः प्राण*(छान्.७-२६-१)इति विद्वदात्मनः प्राणाद्युपादानत्वेन सार्वात्म्यस्य उत्तरत्र प्रतिपाद-यिष्यमाणत्वात् ।
यत्तु अत्र परैरहङ्कारस्य आत्मैकत्वेन प्रत्यक्षसिद्धस्य *अथातोऽह-ङ्कारादेशः*(छान्.७-२५-१), *अथात आत्मादेश*(छान्.७-२५-२) इति पृथगुपदेशो भेदार्थः, भूमात्मनोः ब्रह्मत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः, द्वयोस्सार्वात्म्यायोगादिति तदसारम् । अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्याभिन्नत्वेन प्रत्यक्षसिद्धत्वात्तयोः पृथगुपदेशो भेदार्थः, अहम-र्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात्तयोरुपदेश ऐक्यार्थ इति वैपरी-त्यस्यापि सुवचत्वादित्यास्ताम् तावत् ।
अत्र विचार्यते – *यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे*(छान्.७-२४-१)ति वाक्ये *स भूमे*(छान्.७-२४-१)ति निर्दिश्य-मानो भूमा प्राणशब्दनिर्दिष्टो जीव एव । प्राणादूर्ध्वम् *अस्ति भगवः प्राणाद्भूय* इति प्रश्नस्य *अदो वाव प्राणाद्धूय* इति प्रतिवचनस्य वा अदर्शनेन *सोऽहम् मन्त्रविदेवास्मि नात्मवित् । श्रुतम् ह्येव मे भगव-द्दृशेभ्यस्तरति शोकमात्मविदि*(छान्.७-१-२)ति प्रक्रान्तात्मोपदेशस्य तत्रैव पर्यवसानात् । अतश्च सन्त्यपि ब्रह्मलिङ्गानि तत्रैव यथा कथञ्चि-द्योजयितव्यानीति पूर्वपक्षे प्राप्त उच्यते ।
भूमा सम्प्रसादादध्युपदेशात् ॥१–३–७॥
भूमा परमात्मा । सम्प्रसादाज्जीवादधिकत्वेन तस्योपदेशात् । *एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाये*(छान्.८-१२-३)त्यत्र सम्प्रसादशब्दस्य जीवे प्रयुक्तत्वात्सम्प्रसादो जीवः । *एष तु वा अतिवदति यस्सत्येना-तिवदती*(छान्.७-१६-१)ति सत्यत्वनिमित्तकातिवादिनः प्राणशब्दनिर्दिष्ट-जीवातिवाद्यपेक्षया तुशब्देनाधिकत्वेन उपदिश्यमानतयाऽतिवदन-निमित्तस्य सत्यशब्दनिर्दिष्टस्य प्राणशब्दिताज्जीवादधिकत्वप्रतीतेः न प्राणशब्दनिर्दिष्टो जीवो भूमा ॥
धर्मोपपत्तेश्च ॥१–३–८॥
*स्वे महिम्नि प्रतिष्ठितः*(छान्.७-२४-१) *स एवेदम् सर्वमि*(छान्. ७-१५-१)त्यादिभिः प्रतिपादितस्वमहिमप्रतिष्ठितत्वसर्वात्मत्वादिधर्माणाम् *आत्मतः प्राण आत्मत आशे*(छान्-७-२६-१)त्यादि वाक्यसन्दर्भ-प्रतिपादितप्राणशब्दितजीवप्रभृतिसकलप्रपञ्चोपादानत्वस्य प्राणशब्दिते जीवे असम्भवाच्च भूमा परमात्मेति सिद्धान्तः ॥
इति भूमाधिकरणम् ॥