॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥
आनुमानिकाधिकरणम् ॥ १॥
अस्मिन् पादे साङ्ख्यतत्वप्रतिपादनच्छायापन्नानाम् वाक्यानाम् साङ्ख्याभिमतार्थानिरासेन ब्रह्मणि समन्वयः प्रतिपाद्यत इति पादार्थ-स्सङ्गतिश्च उभयमपि प्रतिपाद्यत इति प्रथमपाद एवोक्तम ।
कठवल्लयाम् – *आत्मानम् रथिनम् विद्धि शरीरम् रथमेव च । बुद्धिम् तु सारथिम् विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहु-र्विषयाम्स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तम् भोक्तेत्याहुर्मनीषिणः ॥
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सह । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ यस्तु विज्ञानवान् भवति युक्तेन मनसा सह । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ यस्त्वविज्ञानवान्भवति अमनस्कस्सदाऽशुचिः । न स तत्पदमाप्नोति सम्सारञ्चाधिगच्छति ॥
यस्तु विज्ञानवान्भवति समनस्कस्सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमम् पदम् ॥*(कठ.१-३,४,५,६,७,८,९.१०)
इत्येतावन्ति वाक्यानि सूत्रार्थवर्णनोपयुक्तानि । तावन्ति तेषाञ्चा-यमर्थः । *आत्मानम् रथिनम् विद्धी*(कठ.१-३,४,५,६,७,८,९.१०)त्यादिना *तद्विष्णोः परमम् पद*(कठ.१-३,४,५,६,७,८,९.१०)मित्यन्तेन सम्साराध्व- पारभूतवैष्णवपरमपदप्राप्तौ परिकरमुपदिशन् प्राप्तृस्वरूपमुपदिशति – *आत्मानम् रथिनम् विद्धि शरीरम् रथमेव च*(कठ.१-३,४,५,६,७,८,९. १०) । शरीराधिष्ठिताम् रथिनम् विद्धि शरीरमेव च रथम् विद्धीत्यर्थः । *बुद्धिन्तु सारथिम् विद्धि*(कठ.१-३,४,५,६,७,८,९.१०) बुद्धिशब्दिताध्यवसा-याधीनत्वाद्देहप्रवृत्तेः तस्यास्सारथित्वमिति भावः । *मनःप्रग्रहमेव च*
(कठ.१-३,४,५,६,७,८,९.१०) प्रग्रहः – रशना । *इन्द्रियाणि हयानाहुर्विष-याम्स्तेषु गोचरान्*(कठ.१-३,४,५,६,७,८,९.१०) तेषु इन्द्रियेषु हयत्वेन रूपितेषु गोचरान् मार्गान् शब्दादिविषयान् विद्धीत्यर्थः*(कठ.१-३,४,५,६, ७,८,९.१०) । *आत्मेन्द्रियमनोयुक्तम् भोक्तेत्याहुर्मनीषिणः*(कठ.१-३,४, ५,६,७,८,९.१०) आत्मशब्दः देहपरः भोक्ता – कर्तृत्वभोक्तृत्ववानित्यर्थः न हि केवलस्यात्मनः कर्तृत्वम् भोक्तृत्वम् वाऽस्तीति भावः । शरीरादे: रथत्वादिरूपणस्य प्रयोजनमाह – *यस्त्वविज्ञानवानि*( कठ.१-३,४,५,६, ७,८,९.१०)त्यादिना । हयत्वेन रूपितानामिन्द्रियाणाम् वशीकरणतद-भावयोः प्रयोजनम् मन्त्रद्वयेन *यस्त्वविज्ञानवान्भवत्य मनस्कस्सदा-
ऽशुचिः*(कठ.१-३,८,कठ.१-३-१०) अमनस्क:- अनिगृहीतमना: अत एव अशुचिः सर्वदा विपरीत चिन्ताप्रवणत्वादित्यर्थः । किम् तत्पदमित्या-काङ्क्षायाम् तत्पदम् दर्शयन्नुपसम्हरति *विज्ञानसारथिर्यस्तु मनः प्रग्रह-वान्नरः । सोऽध्वन: पारमाप्नोति तद्विष्णोः परमम् पदम्*(कठ.१-३-९) समीचीनविज्ञानमनः शाली सम्साराध्वपारभूतम् परमात्मस्वरूपम् प्राप्नोतीत्यर्थः । वशीकार्यत्वाय रथादिरूपितेषु शरीरादिषु यानि येभ्यो वशीकार्यतायाम् प्रधानानि तान्युच्यन्ते *इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परम् मनः । मनसस्तु पराबुद्धिर्बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्त-मव्यक्तात्पुरुषः परः । पुरुषान्न परम् किञ्चित् सा काष्ठा सा परा गतिरि* (कठ.१-३-१०-११)ति । तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यः गोचरत्वेन रूपिता विषया वशीकार्यत्वे पराः, वश्येन्द्रियस्यापि विषयसन्निधौ इन्द्रियाणाम् दुर्निग्रहत्वात् तेभ्योऽपि परम् प्रग्रहरूपितम् मनः मनसि विषयप्रवणे विषयासन्निधानस्याप्यकिञ्चित्करत्वात् तस्मादपि सारथित्वरूपिता बुद्धिः परा तस्या अपि रथित्वेन रूपित आत्मा कर्तृत्वेन प्राधान्यात्परः सर्वस्य आत्मेच्छायत्तत्वादात्मैव महानिति विशेष्यते तस्मादपि रथत्वरूपितम् शरीरम् अव्यक्तशब्दितम् परम् तदायत्तत्वाज्जीवस्य सकलपुरु-षार्थसाधनप्रवृत्तीनाम् तस्मादपि परस्सर्वान्तरात्मभूतोऽन्तर्यामी अध्वनः पारभूतः परमपुरुष: यथोक्तस्य आत्मपर्यन्तस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात् वशीकार्योपासननिर्वृत्त्यु-पायकाष्ठाभूतः परमप्राप्यस्स एव । न तस्मादपि परम् किञ्चिदस्तीत्याह *पुरुषान्न परम् किञ्चिदि*(कठ.१-३-१०-११)ति । हयादिरूपितानामिन्द्रि-याणाम् वशीकरणप्रकारमाह *यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि* (कठ.१-३-१३) वाचो मनसि नियमनम् मनोऽननुगुणप्रवृत्तिवैमुख्यापादनम् मनसो बुद्धौ नियमनम् व्यवसायानुगुणप्रवृत्तितापादनम् तस्याः बुद्धेरा-त्मनि नियमनम् स एवोपादेयतया साक्षात्कार्य इति तदर्थविषयत्वा-पादनम् शान्ते ब्रह्मणि महतो जीवस्य नियमनम् नाम तच्छेषताप्रति-पत्तिः । सा च प्रतिपत्तिः शरणागतिरेव । *तमेव शरणम् गच्छे*(गी.१८-६२)ति स्मृतेः ।
आनुमानिकमप्येकेषामिति चेन्न
शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १-४-१ ॥
ननु *इन्द्रियेभ्यः पराह्यर्था*(कठ.१-३-१०-११) इति वाक्ये साङ्ख्य-प्रक्रियाप्रत्यभिज्ञानात् पञ्चविम्शतिरिक्तपुरुषनिषेधाच्च साङ्ख्याभिमता-ब्रह्मात्मकप्रधानमेव अव्यक्तशब्देन अभिधीयत इति *आनुमानिकमप्ये- केषामिति चेदि*ति सूत्रखण्डेन पूर्वपक्षम् कृत्वा *न शरीररूपकविन्यस्त-गृहीतेर्दर्शयति चे*ति सिद्धान्तः कृतः । तस्य चायमर्थः आनुमानिकम-व्यक्ताभिलप्यम् शरीरम् उपासनोपयोगिवशीकरणाय *आत्मानम् रथिनम् विद्धि शरीरम् रथमेव चे*(कठ.१-३-४)ति रूपकविन्यस्तशरीरस्यैव अव्यक्तशब्देन ग्रहणसम्भवात् अस्मिन्श्च प्रकरणे इन्द्रियादिवशीकारस्यैव *यच्छेद्वाङ्मनसी प्राज्ञ*(कठ.१-३-१३), इत्यादौ दर्शनात्, तदनुसारेण अव्यक्तशब्देन शरीरमेव गृह्यते ।
ननु कथमव्यक्तशब्देन व्यक्तस्य शरीरस्याभिधानम् तत्राह –
सूक्ष्मम् तु तदर्हत्वात् ॥ १-४-२ ॥
भूतसूक्ष्ममव्याकृतम् ह्यवस्थाविशेषमापन्नम् शरीरम् भवति । ततश्च कारणवाचिना अव्यक्तशब्देन स्थूलम् शरीरमेव उपचारादुच्यत इत्यर्थः । ननु अव्यक्तशब्दस्य मुख्य एवार्थोऽस्तु कुतः स्थूलशरीरे लक्षणाऽभ्युप- गन्तव्येत्यत्राह – तदर्हत्वादिति – स्थूलशरीरस्यैव कार्यार्हत्वात्, तस्यैव वशीकार्यत्वाय प्रतिपादनस्य अपेक्षितत्वात्, अव्यक्तशब्देन कारणवाचिना स्थूलशरीरलक्षणा उचितेति भावः ।
ननु यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते कापिलतन्त्रसिद्धोपादाने कः प्रद्वेष इत्यत्राह –
तदधीनत्वादर्थवत् ॥ १-४-३॥
अस्मन्मते अव्यक्तस्य परमात्माधीनतया तदधिष्ठितत्वेन प्रयोजनवत्त्व-मस्ति साङ्ख्यमते तदनभ्युपगमात् तस्य निष्प्रयोजनत्वमिति भावः ।
ज्ञेयत्वावचनाच्च ॥ १-४-४॥
यदि तन्त्रसिद्धमेव अविवक्षिष्यत् तदाऽस्य ज्ञेयत्वमविवक्षिष्यत् । व्यक्ताव्यक्तज्ञविज्ञानात् मोक्षम् वदद्भिस्तान्त्रिकैः तेषाम् सर्वेषाम् ज्ञेय-त्वाभ्युपगमात् न चास्य ज्ञेयत्वमुच्यते । अतो न तन्त्रसिद्धस्येह
ग्रहणम् ।
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥१-४-५॥
*अशब्दमस्पर्शमरूपमव्ययम् तथाऽरसम् नित्यमगन्धवच्च यत् । अनाद्यनन्तम् महतः परम् ध्रुवम् निचाय्य तम् मृत्युमुखात्प्रमुच्यत* (कठ.१-३-१५)इत्युक्तस्य ज्ञेयत्वमनन्तरमेव श्रुतिर्वदतीति चेन्न । *सोऽध्वनः पारमाप्नोति तद्विष्णोः परमम् पदमि*(कठ.१-३-९)ति प्राज्ञस्य परमात्मनः प्रकरणात् स एव *अशब्दमस्पर्शमि*(कठ.१-३-१५)ति मन्त्रे ज्ञेयत्वेन निर्दिश्यते, न तन्त्रसिद्धमव्यक्तम् ।
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥१-४-६॥
अस्मिन् प्रकरणे हि उपायोपेयोपेतॄणाम् त्रयाणामेव ज्ञेयत्वोपन्यास: *अन्यत्र धर्मादन्यत्राधर्मादि*(कठ.१-२-१४)ति प्रश्नश्न दृश्यते नाव्यक्तादेः । श्रुत्यर्थश्च लिख्यते – *न ह्यध्रुवैः प्राप्यते हि ध्रुवन्तत्*(कठ.१-२-१०) । *एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयम् हि लब्ध्वा*(कठ.१-२-१३) ॥ *अध्यात्मयोगाधिगमेन देवम् मत्वा धीरो हर्षशोकौ जहाती*(कठ.१-२-१२)ति प्रदेशेषु धर्मफल-विलक्षणतया ज्ञानसाध्यतया प्राप्यतया निर्दिष्टस्य प्राप्यस्य स्वरूपञ्च उक्तप्रदेशेष्वेव धर्मविलक्षणतया *मत्वे*(कठ.१-२-१२) ति प्रतिपन्नस्य उपायस्य स्वरूपञ्च *धीरो हर्षशोकौ जहाती*(कठ.१-२-१२) त्यत्र *धीर*(कठ.१-२-१२) इति प्रतिपन्नस्य प्राप्तुश्च स्वरूपञ्च शोधयितुम् पृच्छति – *अन्यत्र धर्मा*(कठ.१-२-१४)दित्यादिना । धर्मः – उपायः धर्मादन्यत्र – प्रसिद्धोपायविलक्षण इत्यर्थः । अधर्मः – धर्मेतर उपेय: अधर्मादन्यत्र प्रसिद्धसाध्यविलक्षणम् फलमित्यर्थः । *अस्मादि* (कठ.१-२-१४)ति बुद्धिस्थस्साधको विवक्षितः स एवोपेता स हि प्रसिद्धो-पेतृविलक्षणः । साधकावस्थायामितरफलविरक्तत्वात् फलदशायामाविर्भूत-गुणाष्टकविशिष्ट स्वरूपत्वाच्च । कृताकृतादिति धर्मादीनाम् विशेषणम् कृताकृताद्धर्मादेर्विलक्षणम् भूताच्च भव्याच्च धर्मादेर्विलक्षणम् यदित्यर्थः । योजनान्तरमप्यस्ति विस्तरभयान्न लिख्यते ।
महद्वच्च ॥ १-४-७॥
यथा *बुद्धेरात्मा महान्पर*(कठ.१-३-१०)इत्यत्र आत्मशब्दसामानाधि-करण्यात् न तन्त्रसिद्धम् महत्तत्वम् गृह्यते एवमव्यक्तमपि आत्मनः परत्वेनाभिधानात् न कापिलतन्त्रसिद्धम् गृह्यत इति स्थितम् ॥
इति आनुमानिकाधिकरणम् ॥