[highlight_content]

जगद्वाचित्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥

जगद्वाचित्वाधिकरणम् ॥५॥

कौषीतकिनामुपनिषदि – *स होवाच यो वै बालाक एतेषाम् पुरुषाणाम् कर्ता यस्य वैतत्कर्म स वै वेदितव्य*(कौषी.४-१८)इति । वैशब्दोऽवधारणे त्वया ब्रह्मत्वेनोपदिष्टानाम् पुरुषाणाम् यः कर्ता ये यत्कार्य भूताः किम् विशिष्याभिधीयते यस्य प्रत्यक्षादिसन्निधापितम् चिदचिद्रूपम् समस्तम् जगत् कर्म कार्यम् क्रियत इति व्युत्पत्त्या कर्मशब्दः कार्यवचनः स एव वेदितव्यः न तु त्वदुपन्यस्ता आदित्यादयः पूर्वोक्ता इति भावः । *तत उ ह बालाकिस्समित्पाणिः प्रतिचक्राम उपायानीति*(कौषी.४-१८) उशब्दो-ऽवधारणे हशब्दः प्रसिद्धौ । *तम् होवाचाजातशत्रुः प्रतिलोमरूपमेव स्यात् यत्क्षत्रियो ब्राह्मणमुपनयेत् एहि व्येव त्वा ज्ञापयिष्यामीति*(कौषी. ४-१८) क्षत्रियो ब्राह्मणमुपनयेदिति यत्तत् विपरीतरूपमेव स्यात् अत
एहि त्वामुपनयनमन्तरेण ब्रह्म विज्ञापयिष्यामि । *तम् ह पाणावभिपद्य प्रवव्राज*(कौषी.४-१८) पाणावभिपद्य – पाणौ गृहीत्वा । *तौ ह सुप्तम् पुरुषमीयतुः तम् हाजातशत्रुरामन्त्रायाञ्चक्रे बृहन्पाण्डरवासस्सोमराजन्नि* (कौषी.४-१८)ति तम् ह सुप्तम् पाण्डरवासस्त्वसोमराजत्वादिप्राणनाम-भिरामन्त्रयाञ्चक्र इत्यन्वयः । *स तूष्णीमेव शिश्ये*(कौषी.४-१८) अनुत्थित एव अशयिष्टेत्यर्थः । *तत उ हैनम् यष्ट्या चिक्षेप स तत एव समुत्तस्थौ*(कौषी.४-१८) । तत एव दण्डताडनादेव न तु प्राणना-मामन्त्रणादिनेत्यर्थः । अत्र सुषुप्तिदशायामु-परतव्यापारेभ्यश्शरीरो-न्द्रियेभ्योऽन्यत्वम् सुज्ञानमिति तस्यामपि दशाया-मनुपरतव्यापारात् प्राणादन्यत्वम् ज्ञापनीयमिति प्राणनामभिरामन्त्रणम् । तस्मिन् सत्यप्यनुत्थानेन दण्डताडनोत्थानेन च जीवस्य प्राणव्यतिरेकः प्रदर्शितः । एवम् देहेन्द्रियमनः प्राणव्यतिरिक्तम् जीवम् प्रदर्श्य ततोऽतिरिक्तम् परमात्मानम् बोधयितुमाह – *तम् होवाचाजातशत्रुः क्वैष एतद्वालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागादिति*(कौषी.४-१९) त्रिष्वपि प्रश्नेषु एतच्छब्दस्सप्तम्यन्तः । एतस्मिन् काल इत्यर्थः *सुपाम् सुलुगि* (अष्टा.७-१-३९)ति सुपो लुक् एतस्मिन् काले क्व स्वप्नमनुभूतम्, एत-स्मिन् काले क्व सुप्तः, एतस्मिन् काले कुतो निर्गत इति प्रश्नत्रयार्थः । *तदु ह बालाकिर्न बिजज्ञौ*(कौषी.४-१९) उत्तरम् न ज्ञातवानित्यर्थः । *तम् होवाचाजातशत्रुः यत्रैष एतद्बलाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदा-गात्*(कौषी.४-१९) तदुच्यत इति शेषः । स्वप्नस्थानप्रश्नम् प्रतिवक्ति – *हिता नाम हृदयस्य नाड्यः हृदयात्पुरीततमभिप्रतिष्ठन्ती*(कौषी.४-१९) त्यादिना सुषुप्ति- स्थानप्रश्नस्योत्तरमाह – *यदा सुप्तः स्वप्नम् न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति तदैनम् वाक्सर्वैर्नामभिस्सहा-प्येती* (कौषी.४-१९)त्यादिना । *सुप्त*(कौषी.४-१९) इति वर्तमाने क्तः स्वपन् सन् यदा उपरतस्वप्नदर्शनो भवति अथ स्वप्नान्तरम् अस्मिन् प्राणे प्राणशब्दो योगेन वा अपर्यवसानवृत्त्या वा ब्रह्मपरः परमात्मनो बुद्धिस्थ-त्वादस्मिन्निति निर्देशोऽप्युपपद्यते तत् – तदा एवम् परमा-त्मानमपि-यन्तम् जीवम् वागादीन्द्रियाण्यपि तत्तत्स्वकार्येण सह अपियन्तीत्यर्थः । उद्गमनोपादानप्रश्नस्योत्तरमाह – *स यदा प्रतिबुध्यत यथाऽग्नेर्विष्फुलिङ्गा विप्रतिष्ठेरन् एवमेवैतस्मादात्मनो यथायतनम् प्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः*(कौषी.४-१९) एतस्मात् परमा-त्मनः प्राण-शब्दिता जीवाः प्रस्थिता भवन्ति तेभ्यश्च देवशब्दितानि इन्द्रियाणि तेभ्यश्च लोकशब्दितानि ज्ञानानि भवन्तीत्यर्थः । *एवमेवैष प्राज्ञ आत्मा इदम् शरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखेभ्यः*(कौषी. ४-१९) व्याप्य इत्यध्याहारः इदम् पुरोवर्तिशरीरम् व्याप्य आत्मानम् जीवात्मानमनुप्रविष्टः अन्तर्वामितयेत्यर्थः तादृशस्य सुषुप्त्याधारत्वो-द्गमनापादानत्वे सम्भवत इति भावः । *तमेतमात्मानमेत आत्मा-नोऽन्वव-स्यन्ति*(कौषी.४-१९) – अनुवर्तन्ते । *तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा श्रोष्ठिनम् स्वा भुञ्जते एवमेवैष प्राज्ञ आत्मा एतैरात्मभिर्भुङ्क्ते* (कौषी. ४-२०)। यथा कश्चित्प्रभुः भोगोपकरणभूतैः स्वैर्ज्ञातिभिः भोगा-न्भुङ्क्ते, यथा स्वाश्च बन्धवः तम् प्रभुम् ऐश्वर्यादिसमग्रमनुभूय तद्दत्तानि वित्तादीनि च उपजीव्य हृष्यन्ति एवमेवायम् परमात्मा स्वोपकरणभूतै- र्जीवात्मभिः लीलारसम् भुङ्क्ते ते चात्मानः परमात्मदत्तभोगोपकरणाः सर्वैश्वर्यादिगुण-विशिष्टम् तमनुभूय हृष्टा भवन्तीत्यर्थः। *अथ हत्वाऽसुरान्विजित्य सर्वेषान्देवानाम् श्रैष्ट्यम् स्वाराज्यमाधिपत्यम् पर्येति य एवम् वेदे*(कौषी.४-२०)त्यादि।

*यो वै बालाक एतेषाम् पुरुषाणाम् कर्ता यस्य वैतत्कर्म स वेदि-तव्य*(कौषी.४-१८) इत्यत्र आदित्यादिपुरुषाणाम् यः कर्ता तत्कर्तृत्व-निर्वाहकञ्च पुण्यपापलक्षणम् कर्म यस्यास्ति स वेदितव्य इत्यर्थ-प्रतीतेः कर्मशब्दस्य पुण्यपापयोः रूढत्वात् सुप्तपुरुषागमनयष्टिघातोत्थाप-नादीनाम् च जीवलिङ्गत्वात्, *तद्यथा श्रेष्ठी स्वैर्भुङ्क्त*(कौषी.४-२०) इति वाक्यप्रतिपाद्यभोक्तृत्व परिपाल्यत्वयोर्जीव एव सम्भवात् जीव एव प्रकरणप्रतिपाद्य इति प्राप्त उच्यते ।

जगद्बाचित्वात् ॥ १-४-१६ ॥

*यो वै बलाक ऐतेषाम् पुरुषाणाम् कर्ता यस्य वैतत्कर्मे*(कौषी.४-१८) त्यत्र कर्मशब्दस्य यद्यपि पुण्यपापादौ रूढिरस्ति, तथाऽपि चलनेऽपि रूढ्यविशेषेण रूढ्योः परस्परकलहायमानत्वेन अर्थनिर्णयासामर्थ्यात् एतच्छब्दस्य प्रत्यक्षादिसन्निधापितजगत्परत्वौचित्येन तत्समानाधि-कृतकर्मशब्दस्य क्रियत इति कर्मेति व्युत्पत्त्या जगद्वचनत्वमेवोचितम् । ततश्चायमर्थः – त्वदुक्तानामादित्यादिपुरुषाणाम् यः कर्ता अन्ततो गत्वा सर्वमपि जगद्यस्य कार्यम् स एव वेदितव्यः ततश्च नात्र जीवस्य प्रसक्तिः । यदि हि पुण्यापुण्यलक्षणकर्मसम्बन्धी जीवोऽत्र वाक्ये प्रतिपाद्यस्स्यात् तदाऽऽदित्यादिषु पुरुषवादिनम् बालाकिमब्रह्म-वादित्वेन प्रत्याख्यातवता अजातशत्रुणा स्वयमब्रह्मण उपदेश्यत्वासम्भवात् । अतो नायम् कर्मशब्दः पुण्यपापवचनः अपि तु जगद्वचनः ।

जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १-४-१७॥

यष्टिघातोत्थापनभोक्तृत्वादिजीवलिङ्गात् *अथास्मिन्प्राण एवैकधा भवती*(कौषी.४-१९)ति प्राणशब्देन प्राणभृतन्निर्दिश्य तत्र करणग्राम-स्यैकधाभावश्रवणात् प्राणभृत्त्वस्य जीवलिङ्गत्वाच्च जीव एवात्र प्रति- पाद्यते । न च प्राणशब्दस्य मुख्यप्राण एवार्थ: । प्राणनामभिरामन्त्रणा- श्रवणेन मुख्यप्राणव्यतिरिक्तत्वस्य ज्ञापितत्वेन मुख्यप्राणस्य एतत्प्रक-रणप्रतिपाद्यत्वासम्भवेन प्राणशब्दस्य प्राणसहचरितजीवलक्षकत्वस्यैव युक्तत्वात् । ततश्च यष्ट्यादिजीवलिङ्गात् प्राणशब्दसङ्कीर्तनाच्च प्राण- भृज्जीव एवात्र प्रतिपाद्यत इति चेत् – तद्व्याख्यातम् प्रतर्दनविद्यायाम् । यत्र प्रकरणे ब्रह्मलिङ्गानि चिदचिल्लिङ्गानि चोपलभ्यन्ते तत्र चिदचि-ल्लिङ्गानाम् चिदचिच्छरीरकान्वयसम्भवात् चेतनाचेतनशरीरक- ब्रह्मोपासनम् विधीयत इत्युक्तत्वात् । इह अनन्यथासिद्धजीवलिङ्गमस्ति चेत् तच्छरीरकब्रह्मोपासनार्थस्तन्मध्यवर्तिजीवोपदेशः । अत्र च प्रकरणे उपक्रम एव *मृषा वै खलु मा सम्वदिष्ठा*(कौषी.४-१८) इति अब्रह्मवाद-प्रत्याख्यानदर्शनात् पापहतिपूर्वकस्वाराज्यरूपब्रह्मविद्यैकान्तफलेन उप- सम्हारात् प्रकरणस्य ब्रह्मपरत्वेन निश्चितत्वात् मध्ये जीवोपदेशस्त-च्छरीरकतया ब्रह्मोपासनार्थ इत्यध्यवसीयत इत्यर्थः ।

 

अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि
चैवमेके ॥ १-४-१८ ॥

यष्टिघातेन जीवसम्बोधनम् जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमिनिराचार्यो मन्यते । कुतः? प्रश्नव्याख्यानाभ्याम् – प्रश्नप्रतिवचना-भ्याम् । यष्टिघातेनापि जीवप्रतिबोधनानन्तरम् *क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्वैतदभूत्कुत एतदागादि*(कौषी.४-१९)ति जीवसुषुप्त्या-धारप्रश्नस्य *अथास्मिन्प्राण एवैकधा भवती*(कौषी.४-१९)ति परमात्म-वाचिप्राणशब्देन प्रतिवचनदर्शनाच्च जीवातिरिक्तब्रह्मप्रबोधनशेषतयैव जीवोपन्यासः, न तु तस्यैव स्वातत्र्येण । ननु *कैतदभूदि*(कौषी.४-१९)त्येतच्छब्देन न जीवो- ऽभिधीयते येन तत्प्रतिपादनम् परमात्म-प्रतिपत्तिशेषभूतम् स्यात् । अपि तु एतच्छब्देन करणजातमभिधीयते । एतत्करणजातम् सुषुप्तौ क्व लीनम् प्रबोधदशायाम् कुत उत्थितमिति प्रश्नः, *अथास्मिन्प्राण एवैकधा भवती*(कौषी.४-१९)ति प्राणशब्दनिर्दिष्टे प्राणभृति लय इति प्रतिवचन-तात्पर्यञ्च किन्न स्यादिति चेत्तत्राह – अपि चैवमेके एके वाजसनेय-शाखिनः प्रश्नप्रतिवचनयोः जीवसुषुप्त्याधार-विषयत्वम् स्पष्टमामनन्ति *य एष विज्ञानमयः पुरुषः क्वैषतदाभत्* (बृह.४-१-१६) *य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेत*(बृह.४-१-१७) इति च । अतो जीवप्रतिपादनस्य परमात्मप्रतिपादनशेषत्वात् परमात्मैवात्र प्रकरणे प्रतिपाद्यो न जीव इति न चोद्यावकाशः ॥

इति जगद्वाचित्वाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.