॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥
इतरव्यपदेशाधिकरणम् ॥७॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥२–१–२१॥
जगतो ब्रह्मानन्यत्वप्रतिपादकैः *तत्वमसी*(छान्.६-८-७) त्यादिभिः जीवस्यापि ब्रह्मानन्यत्वम् प्रतिपाद्यत इत्युक्तम्। तत्रेदम् चोद्यते – यदीतरस्य जीवस्य ब्रह्मभावः एतद्वाक्यप्रतिपाद्यः, तदा ब्रह्मणस्सार्व-ज्ञ्यादिविशिष्टस्य हितरूपजगत्सृष्टिः अहितरूपजगदसृष्टिरित्यादि-दोषप्रसङ्गः। अतः ब्रह्मणो जगत्कारणत्वम् न सम्भवतीति पूर्वःपक्षः। सिद्धान्तस्तु –
अधिकन्तु भेदनिर्देशात् ॥२.१.२२॥
तुशब्दः पक्षम् व्यावर्तयति। आध्यात्मिकादिदुःखयोगार्हात् प्रत्य-गात्मनः अधिकमर्थान्तरभूतम् ब्रह्म। कुतः? भेदनिर्देशात्। *य आत्मनि तिष्ठन्*(बृह.५-७-२२), *पृथगात्मानम्*(श्वे.१-६), *तयोरन्यः पिप्पलम् स्वाद्वत्ति*(मुण्ड.३-१-१, श्वे.४-६), ज्ञाज्ञौद्वावजावीशनीशावि*(श्वे.१-९) त्यादिश्रुतिभिः परब्रह्मणः प्रत्यगात्मनो भेदेन व्यपदेशात्।
अश्मादिवच्च तदनुपपत्तिः ॥२.१.२३॥ अश्मकाष्ठलोष्टादीनामत्यन्तहेयानामचिद्विशेषाणाम् निरवद्यनिर्विकार- निखिलहेयप्रत्यनीक कल्याणगुणैकतानब्रह्मस्वरूपैक्यम् यथा नोपपद्यते तथाऽनन्तदुःखयोगार्हस्य चेतनस्य निखिलहेयप्रत्यनीकब्रह्मभावापत्तिः ॥
इति इतरव्यपदेशाधिकरणम् ॥