॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥
उपसम्हारदर्शनाधिकरणम् ॥८॥
उपसम्हारदर्शनान्नेति चेन्न क्षीरवद्धि ॥२–१–२४॥
सत्यसङ्कल्पत्वादिभिः परस्य ब्रह्मणः वैलक्षण्यम् प्रतिपादितम्। तत्र सङ्कल्पमात्रपरिकरत्वम् ब्रह्मणो जगत्सृष्टावनुपपन्नमिति शङ्काया उत्थानात् सङ्गतिः।
लोके तत्तत्कार्यजननोपयोगिसामर्थ्यवतोऽपि तत्तदुपकरणसापेक्षत्व-दर्शनात् सर्वशक्तेः परब्रह्मणः *सदेव सोम्येदमग्र आसीदि*(छान्.६-२-१) त्यादि श्रुतिभिस्सृष्टेः प्रागसहायत्वात् उपकरणशून्यत्वेन उपकरण-निरपेक्षजगत्स्रष्टृत्वम् न सम्भवतीति चेन्न। क्षीरजलादेः दधिहिमादि-जननशक्तस्य दधिहेमादिजनने यथा वा नोपकरणाद्यपेक्षत्वम् तथा ब्रह्मणस्सर्वशक्तेरुपकरणनिरपेक्षम् सर्वजगत्स्रष्टृत्वमुपपद्यते। क्षीरादि-ष्वातञ्चनाद्यपेक्षा न दध्यादिभावाय अपि तु अचिरेण दधिभावापत्त्यर्थम् रसविशेषार्थम् च।
देवादिवदपि लोके ॥२.१.२५॥
यथा देवादीनाम् स्वीयलोकेषु सङ्कल्पमात्रेण स्वापेक्षितपदार्थ-स्रष्टृत्वम् तथा पुरुषोत्तमस्य सङ्कल्पमात्रेण सर्वजगत्स्रष्टृत्वमुपपद्यत इति नानुपपत्तिः ॥
इति उपसम्हारदर्शनाधिकरणम् ॥