॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥
कृत्स्नप्रसक्त्यधिकरणम् ॥९॥
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥२–१–२६॥
दृष्टान्ततयोपन्यस्तस्य क्षीरजलादेस्सावयवत्वदर्शनात् तद्वद्ब्रह्मणोऽपि सावयवत्वम् स्यात्, निरवयवत्वे कृत्स्नप्रसक्तिर्वा स्यादिति शङ्कया-सङ्गतिः।
कारणावस्थायाम् निरस्तचिदचिद्विभागतया निरवयवमेव ब्रह्म कार्या-वस्थायाम् *बहुस्यामि*(छान्.६-२-२)ति सङ्कल्प्य आकाशवाय्वाद्य-चिद्विभागम् ब्रह्मादिस्तम्बपर्यन्त क्षेत्रज्ञविभागम् चाभवदित्युक्तम्। एवम् सति परम् ब्रह्म कृत्स्नम् कार्यत्वेनोपयुक्तमित्यङ्गीकार्यम्। यदि ब्रह्मणि अम्शभेदम् परिकल्प्य चिदम्शस्य क्षेत्रज्ञविभागविभक्तत्वम्, अचिदम्श-स्याकाशादिविभागविभक्तत्वम् परिकल्प्यते, तदा कारणीभूतस्य ब्रह्मणो निरवयवत्ववादिनीनाम् श्रुतीनाम् बाधितार्थकत्वम् स्यात्। यदि सूक्ष्म-चिदचिच्छरीरक ब्रह्मणः कारणत्वम् स्थूलचिदचिच्छरीरकब्रह्मणः कार्य-त्वमित्यभ्युपगम्यते, तदा शरीर्यम्शस्यापि कार्यत्वाभ्युपगमान्निरवय-वत्व श्रुतिविरोधो दुर्वारः। तस्माद्ब्रह्मणो जगत्कारणत्वमनुपपन्नमिति पूर्वःपक्षः। सिद्धान्तस्तु –
श्रुतेस्तु शब्दमूलत्वात् ॥२.१.२७॥
तुशब्द उक्तदोषव्यावर्तकः। नैवमसामञ्जस्यम् – कुतः श्रुतेः। श्रुतिस्तावद्ब्रह्मणो निरवयवत्वम् विचित्रजगत्स्रष्टृत्वञ्च प्रतिपादयति। ननु श्रुतिरपि *अग्निना सिञ्चती*तिवत् अयोग्यार्थप्रतिपादनासमर्था, तथाऽपि शब्दैकप्रमाणकस्य वस्तुनः सकलेतरवस्तुविलक्षणत्वाद्विलक्ष-णधर्मयोगस्याविरुद्धत्वेन सामान्यतो दृष्टसाधनदूषणानर्हत्वम् ब्रह्मण इति।
आत्मनि चैवम् विचित्राश्च हि ॥२.१.२८॥
एवम् वस्त्वन्तरसम्बन्धिधर्मस्य वस्त्वन्तरारोपणे अचेतनघटादि-दृष्टधर्माणाम् तद्विजातीये नित्यचेतनेऽपि प्रसङ्गः, तदप्रसक्तिश्च स्वभाव-वैचित्र्याधीना। अन्योन्यविलक्षणानामग्निजलादीनाम् यथा विजातीयौ-ष्ण्यशैत्यादिधर्मसम्बन्धः तथा लोकविलक्षणे ब्रह्मणि लोकदृष्टवस्तुधर्मा-पेक्षया विलक्षणधर्मयोगो नानुपपन्नः।
स्वपक्षदोषाच्च ॥२.१.२९॥
प्रधानकारणत्वपक्षे प्रधानस्य लौकिकवस्तुसजातीयत्वेन लोक-दृष्टदोषाणाम् तत्रैव प्रसङ्गात् सकलेतरविलक्षणस्य ब्रह्मण एव जगत्कारणत्वमभ्युपगन्तव्यम्। प्रधानकारणत्वपक्षे निरवयवस्य प्रधानस्य जगत्कारणत्वम् न सम्भवति। सत्वरजस्तमसाम् तदवयवत्वाङ्गीकारे सत्वरजस्तमसाम् समूहस्य प्रधानत्वम् वा उत सत्वरजस्तमोभिरारब्धस्य प्रधानत्वम् वेति विकल्प्य प्रथमपक्षे तेषाम् निरवयवत्वेनासम्युक्तप्रदेशभेदरहितसम्योगवताम् न स्थूलद्रव्यारम्भ-कत्वम्, द्वितीयपक्षे स्वाभ्युपगतप्रधानपरमकारणत्वासिद्धिः स्वाभ्युपगत चतुर्विम्शतिसङ्ख्याविरोधश्चेति पक्षद्वयस्यापि दुष्टत्वेन प्रधानकारणत्वा-सम्भवात् ब्रह्मण एव जगत्कारणत्वम् न्याय्यमिति ॥
सर्वोपेता च तद्दर्शनात् ॥२.१.३०॥
सकलेतरवस्तुविजातीया परा देवता सर्वशक्त्युपेता। *पराऽस्य शक्ति-र्विविधैव श्रूयते*(श्वे.६-७), *अपहतपाप्समे*(छान्.८-७-१)त्यादि- श्रुतिभिस्सकलेतरविलक्षणत्वसर्वशक्तिमत्त्वादिप्रतिपादनात्।
विकरणत्वान्नेति चेत्तदुक्तम् ॥२.१.३१॥
यद्यप्येकमेव ब्रह्म सकलेतरविलक्षणम् सर्वशक्ति, तथाऽपि *न तस्य कार्यम् करणञ्च विद्यत*(श्वे.६-१६) इति करणकळेबरशून्यस्य जगत्स्रष्टृत्वम् न सम्भवतीति चेत् शब्दैकवेद्यस्य सकलेतरविलक्षणस्य करणकळेबराद्यनपेक्षजगत्स्रष्टृत्वमुपपन्नमिति *शब्दमूलत्वात्*(ब्र.सू.२-१-२७) *विचित्राश्चही*(ब्र.सू.२-१-२८)ति सूत्रखण्डाभ्याम् प्रतिपादितम्। तथा च श्रुतिः – *पश्यत्यचक्षुस्स श्रृणोत्यकर्ण*(श्वे.३-१९) इत्येवमादिका ॥
इति कृत्स्नप्रसक्त्याधिकरणम् ॥