॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥
भोक्त्रापत्त्यधिकरणम् ॥५॥
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥२–१–१४॥
पूर्वाधिकरणस्यातिदेशाधिकरणत्वात्तत्पूर्वाधिकरणेन सङ्गत-मिदमधिकरणम्। तत्र हि *न तु दृष्टान्तभावादि*(ब्र.सू.२-१-९)ति सूत्रेण शरीरगतबालत्वयुवत्वादीनाम् शरीरिण्यप्रसक्तिम् दृष्टान्तीकृत्य चिदचिच्छरीरकम् ब्रह्मेति तद्गतदोषाणाम् ब्रह्मण्यप्रसक्तिरुक्ता। इयमनुप-पन्ना। जीववच्छरीरित्वे तत्कृतसुखदुःखावश्यम्भावात् इत्याक्षेपिकी सङ्गतिः।
*यस्यात्मा शरीरम्*(बृह.५-६-२१) *यस्य पृथिवी शरीर*(बृह.५-७-१) मित्यादिना सर्वस्यापि परमात्मशरीरतया जीववत्परमात्मनोऽपि शरीरम् प्रति स्वामित्वे सति *न ह वै सशरीरस्ये*(छान्.८-१२-१)त्यादिना परमात्मनोऽपि प्रियाप्रियभोक्तृत्वमवर्जनीयमिति जीवेश्वरस्वभावाविभाग इति पूर्वपक्षे,
स्याल्लोकवदिति सिद्धान्तः – अस्यार्थः – सप्तम्यर्थे वतिः। यथा लोके राजशासनानुवर्तिनाम् तदतिवर्तिनाम् च राजानुग्रहनिग्रहकृत-सुखदुःखभोगेऽपि न राज्ञि तत्प्रसक्तिः, एवम् न परमात्मनि शासके भोक्तृत्वप्रसक्तिरिति।
पूर्वम् *सम्भोगप्राप्तिरि*(ब्र.सू.१-२-८)ति सूत्रे मनुष्यादिसर्वशरीरान्तर-वस्थित्या परमात्मनो भोक्तृत्वमाक्षिप्य परितो दह्यमानगृहान्तर्वर्तित्वे जीवपरयोरविशिष्टेऽपि *तयोरन्यः पिप्पलम् स्वाद्व़त्त्यनश्नन्नऽन्यो भिचाकशीति*(मुण्ड.३-१-१)ति श्रुत्यनुसारेण देहाभिमानिजीववन्न परस्य भोक्तृत्वमिति हेतुवैशेष्या- दिति सूत्रखण्डेन परिहृतम्। अत्र तु *न ह वै सशरीरस्ये *(छान्.८-१२-१) इति श्रुत्यनुसारेण शरीरस्वामित्वप्रयुक्तम् भोक्तृत्वमवर्जनीयमित्या-क्षिप्य लोकदृष्टान्तेन परिह्रियते। न च एवम् *न ह वै सशरीरस्ये*(छान्.८-१२-१)ति विरोधः। स्वकर्मोपार्जितशरीरम् प्रतिस्वामित्वप्रयुक्तमात्रविषयत्वा-त्तस्याः। न तु शरीर- स्वामिमात्रविषयत्वम्। अत एवान्तर्यामिब्राह्मणे – *यस्य पृथिवी शरीरमि*(बृह.५-७-३, सुबा.७-खम्)त्यादिना परस्य पृथिव्यादिशरीर- स्वामित्वमुक्त्वा तत्तदभिमानिदेवतावत् तत्तत्कृतसुखदुःखभोक्तृत्वा- शङ्कानिरासाय प्रतिपर्यायम् *एष त आत्माऽन्तर्याम्यमृत*(बृह.५-७-३) इत्यमृतत्ववचनमुपपन्नम् तथा उत्तरत्र *न स्थानतोऽपि परस्ये *(ब्र. सू. ३-२-११)त्यधिकरणे एतत्सूत्रद्वयनाययोपमर्दनेन यथा शासकस्यापि राज्ञस्स्वेच्छयाऽपि पूयशोणितकृमिकारागृहे वसतो दुःखसम्बन्धा-परिहारावत् परमात्मनोऽपि स्वेच्छेया हेयमनुष्यादिशरीरेषु वसतो दुःखभोक्तृत्वमवर्जनीयमित्याक्षिप्य नित्याविर्भूतापहतपाप्मत्वादि-गुणकस्याखिलहेयप्रत्यनीकस्य परमात्मनो नसम्भवतीत्युक्तमिति न पौनरुक्त्यप्रसक्तिः ॥
इति भोक्त्रापत्त्यधिकरणम् ॥