॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥
योगप्रत्युक्त्यधिकरणम् ॥२॥
अत्रापि विषयसम्शयपूर्वपक्षसिद्धान्तहेतवः पूर्ववद्द्रष्टव्याः। हिरण्यगर्भस्य भ्रमासम्भवात् तत्कृतशास्त्रस्येश्वराभ्युपगमेन श्वेताश्वत-रोपनिषदाद्युक्त योगानुष्ठानवर्णनेन च कपिलादि स्मृतिवैलक्षण्येन च वेदान्तान्तरङ्गत्वात्तेनोपबृह्मणम् कार्यमित्यधिकाशङ्का।
ईश्वराधिष्ठित – प्रधानकारणतया च ब्रह्मकारणत्वमपि युक्तमित्ये-तदयुक्तम्। हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रमसम्भवात् तत्कृतशास्त्रा-स्यापि भ्रममूलत्वसम्भवादब्रह्मात्मकप्रधानकारणवादस्य निमित्तमात्रे-श्वरस्याभ्युपगमाद्वेदान्तोदितध्येयापेक्षया विलक्षणध्येयविधानाच्च विरुद्धत्वेन न हिरण्यगर्भस्मृतिरनुरोद्धव्येति परिहारश्च द्रष्टव्यः।
एतेन योगः प्रत्युक्तः ॥२–१–३॥
एतेन निमित्तोपादानभेदनिराकरणेनैव हिरण्यगर्भमतमनादर-णीयमिति सूत्रार्थः ॥
इति योगप्रत्युक्त्यधिकरणम् ॥