॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥
विलक्षणत्वाधिकरणम् ॥३॥
मन्वादिस्मृतिभिरेवोपबृम्हणम् कार्यमित्युक्तमयुक्तम् तासाम् तर्क विरुद्धत्वात्। अतस्तर्कानुगृहीतया साङ्ख्यस्मृत्यैवोपबृम्हणम् कार्यमिति प्रत्यवस्थानात्सङ्गतिः।
न विलक्षणत्वादस्य तथात्वम् च शब्दात् ॥२–१–४॥
ब्रह्मणो जगद्विलक्षणत्वेनोपादानत्वम् न सम्भवति। घटरुचकादिषु सलक्षणानामेव मृत्सुवर्णादीनामुपादानत्वम् दृष्टम्। प्रकृते च ब्रह्मजगतो-र्विलक्षणत्वम् *विज्ञानञ्चाविज्ञानञ्चे*( तै.आन.६-३)ति विज्ञानत्व-प्रतिपादकशब्दादेवावगम्यते
ननु जगतोऽचेतनत्वेन *तम् पृथिव्यब्रवीदि*(तै.यजुः सम्.५-५-२) ति अचेतनाया मृदो वक्तृत्वम् नोपपद्यते तत्राह –
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥२–१–५॥
मृदादिशब्दैस्तत्तदभिमानिदेवता व्यपदिश्यते *हन्ताहमिमास्तिस्रो देवता*(छान्.६-३-२) इति तेजोऽबन्नानाम् तत्तद्देवताशब्देन विशेषणा-दचेतनानाम् च देवता तेजोबन्नादिशब्दैर्व्यपदिश्यत इत्यध्य-वस्यामः। *अग्निर्वाग्भूत्वा मुखम् प्राविशदि*(ऐत.१-२-४) त्यग्नेर्वाच्यनु-प्रवेशरूपानुगतिश्रवणाद्वागादिशब्दैस्तदनुप्रवेशेनैतदभिमताग्न्याद्यभिमाने नानुपपत्तिः। अतश्चेतनस्य ब्रह्मण अचेतनजगदुपादानत्वम् न सम्भव-तीति पूर्वपक्षे प्राप्त उच्यते –
दृश्यते तु ॥२.१.६॥
तुशब्दश्चोद्यव्यावृत्त्यर्थः। विलक्षणेभ्यो गोमयादिभ्यः वृश्चिकादेरुत्पत्ति-दर्शनात् ॥
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥२.१.७॥
विलक्षणादुपादानद्विलक्षणोत्पत्त्यङ्गीकारे उपादेयस्योत्पत्तेः प्राग्वि-लक्षणोपादानात्मनाऽवस्थानस्य वक्तुमशक्यत्वेनासत्कार्यवादप्रसङ्ग इति चेन्न। उपादानोपादेययोस्सालक्षण्यनियमप्रतिषेधमात्र एवास्माकम् सम्रम्भः। सूक्ष्मचिदचिद्विशिष्टम् ब्रह्म स्वस्माद्विलक्षणाकारेण परिणमत इत्येतदयुक्तमित्यत्राह –
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥२.१.८॥
ब्रह्मण एव जगद्रूपेण परिणामे तयोरैक्यादप्ययादिषु सर्वदशास्व-चेतनगता दोषाः ब्रह्मणस्स्युः। ततश्च ब्रह्मणो *निरनिष्टत्वनिरवद्यत्व* प्रतिपादकश्रुत्यसामञ्जस्यम्। परिहरति –
न तु दृष्टान्तभावात् ॥२.१.९॥
न त्वेवम् सम्भवति। यथा बालस्य युवानम् प्रत्युपादानत्वेऽपि *बालो युवे*त्यादि शब्दैरात्मनोऽभिधानेऽपि बालात्वयुवत्वादिभिर्नात्मा दूष्यते, एवमेवाचेतनगतैर्नात्मा दूष्यते ॥
स्वपक्षदोषाच्च ॥२.१.१०॥
निर्विकारस्य चिन्मात्रैकरसस्य पुरुषस्य प्रकृतिसन्निधानेन प्रकृति-धर्माध्यासनिबन्धना जगत्प्रवृत्तिरिति साङ्ख्यपक्षोऽपि दुष्ट एव ॥
तर्काप्रतिष्ठानादपि ॥२.१.११॥
तर्काणामन्योन्यव्याघातेनाप्रतिष्ठितत्वात्तन्मूलः प्रधानकारणवाद-स्त्याज्य एव।
अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥२.१.१२॥
यथा प्रतिकूलतर्कापराहतिः, तथा सत्तर्कैः प्रधानकारणत्वमनुमीयत इति चेत्, एवमपि कालान्तरेऽतिशयितानाम् तर्काणाम् सम्भवेन प्रति-कूलतर्कपराहतिदोषानिस्तारात्। अतस्तर्कैः प्रधानकारणत्वानुमाना-सम्भवात् साङ्ख्याभिमतस्य पक्षस्योक्तप्रकारेण दुष्टत्वादुपादानोपादेययो-स्सालक्षण्यनियमाभावात्तयोरनन्यत्वेऽपि दृष्टान्तबलेन उपादेयगतानाम् धर्माणामुपादानेऽप्रसक्तेः मन्वाद्युपबृम्हितश्रुत्या प्रतिपादितम् ब्रह्मणो जगदुपादानत्वम् निर्बाधमिति न क्वापि विरोधगन्धः ॥
॥ इति विलक्षणत्वाधिकरणम् ॥