॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥
शिष्टापरिग्रहाधिकरणम् ॥४॥
प्रधानकारणवादिसाङ्ख्यतर्कमात्रेण समन्वयभङ्गाभावेऽपि परमाणु-कारणवादिकणभक्षाक्षचरणक्षपणकादिबहुतान्त्रिकाभिमततर्कै स्समन्वय भङ्गस्स्यादिति अधिकाशङ्कानिरासाय पूर्वन्यायातिदेशार्थमिदमधि-करणम्।
परमाणुकारणवादिनाम् तर्कैस्समन्वयभङ्गस्सम्भवति न वेति विशये सम्भवत्येव समन्वयभङ्गः। न च तेषाम् तर्काणाम् परस्परविरोध-सम्भवेन तद्भञ्जनसामर्थ्यम् नास्तीति शक्यम् वक्तुम्। यथा शुनाम् परस्परविरोधसत्त्वेऽपि एकम् वराहमैकमत्येन मारयितुम् तद्भक्षण-लिप्सया प्रवृत्तानाम् सर्वेषाम् शुनाम् तदलाभेऽपि वराहस्य मारणम् भवति, एवम् परमाणवस्सत्याः शून्याः विज्ञानात्मकाश्चतुर्विधा एकविधोवान्तरकलहसम्भवेऽपि अल्पपरिमाणानामेव तन्त्वादीनाम् महापरिमाणप़टाद्यारम्भकत्वदर्शनात् तद्विपरीतपरिमाणयोर्ब्रह्मजगतोरु-पादानोपादेयभावो न सम्भवतीति प्रतिष्ठितेन सकलपरमाणुकारणवाद्य- भिमतेन तर्केण तद्भङ्ग उपपद्यत इति पूर्वपक्षः।
सिद्धान्तस्तु – यथा नानादिग्विप्रकीर्णमपि बहुळम् तमस्तोममेक एवादित्यः प्रतिक्षिपति एवमुदाहृतमन्यदप्येतादृशतर्कजालम् *यथा सोम्यैकेन मृत्पिण्डेन सर्वम् मृन्मयम्*(छान्.६-१-४) इत्यादिवाक्योक्त-मृत्पिण्डारब्धघटशरावादिप्रत्युदाहरणेन प्रतिक्षिपन् वेद एव जागर्तीति नात्र प्रयतितव्यमस्तीति हृदि निधाय पूर्वन्यायमतिदिशति सूत्रकारः।
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥२–१–१३॥
न परिगृह्यते वैदिकैरित्यपरिग्रहः। एतेन – तर्काप्रतिष्ठानलक्षणकपिल- स्मृतिनिरसनहेतुना परिशिष्टाः कणभक्षादिस्मृतयोऽपि निरस्ता व्याख्याताः। परमाणुकारणवादस्सर्वसम्मत इति न तेषाम् तर्कस्या-प्रतिष्ठितत्वाभावशङ्का, तर्कमूलत्वाविशेषात्। परमाणूनाम् शून्यत्वादि-विवादादपि तर्कस्याप्रतिष्ठितत्वमेवेति ॥
इति शिष्टापरिग्रहाधिकरणम् ॥