॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:
(पे-२) उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥
ननु *न जायते म्रियत*(कठ.१-२-१८) इति श्रुतिप्रतिषिद्धा *वासुदेवात् सङ्कर्षणो नाम जीवो जायत*(परमसम्हिता) इति जीवस्योत्पत्तिः प्रति-पाद्यते । तथा *सङ्कर्षणात्प्रद्युम्रसञ्ज्ञम् मनो जायत*(परमसम्हिता) इति कर्तुर्जीवात्करणस्य मनस उत्पत्तिश्श्रूयमाणाऽपि न सम्भवति कर्तुर्जीवात् करणोत्पत्तेः *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे* (मुण्ड.१-१-३)ति मनसो ब्रह्मोत्पत्तिप्रतिपादकश्रुतिविरोधादिति ।
उत्पत्त्यसम्भवात् ॥ २-२-३९ ॥
न च कर्तुः करणम् ॥ २-२-४० ॥
इति द्वाभ्याम् पञ्चरात्रमप्रमाणमिति पूर्वपक्षम् कृत्वा –
विज्ञानादिभावे वा तदप्रतिषेधः ॥ २-२-४१ ॥
विप्रतिषेधाच्च ॥ २-२-४२ ॥
इति द्वाभ्याम् सिद्धान्तितम् । वाशब्दः पूर्वपक्षव्यावृत्त्यर्थः । विज्ञानम् च तदादि च विज्ञानादि परमात्मेत्यर्थः । आदिशब्देन *अद भक्षण* इत्यस्मात् *आवश्यकार्थणिनि*(अष्टा.३-३-१७०) प्रत्ययान्तेन निखिल-जगत्सम्हर्तृत्वमुखेन कारणत्वप्रतिपादनात् । *वासुदेवात् सङ्कर्षणो नाम जीवो जायत*(परमसम्हिता) इति श्रुतस्य जीवशब्दार्थस्य अभि-मानिपरमात्मभावे सति शास्त्रप्रामाण्याप्रतिषेधस्सिध्यति । परमात्मनश्च जननन्नाम स्वेच्छाधीनशरीरपरिग्रहः । तस्मिन्नेव पञ्चरात्रतन्त्रे *स ह्यनादिरनन्तश्चे*(परमसम्हिता)ति जीवोत्पत्तेर्विशेषेण प्रतिषिद्धतया तद्विरुद्धाभिधानासम्भवात् । *वासुदेवात् सङ्कर्षणो नाम जीवो जायत* (परमसम्हिता) इत्यनेन जीवाभिमानिसङ्कर्षणे स्वेच्छाधीनशरीरपरिग्रह-रूपा उत्पत्तिः प्रतिपाद्यत इति न प्रञ्चरात्राप्रामाण्यमिति सूत्रयोरर्थः ।
ननु साङ्ख्यपाशुपताद्यधिकरणवदिदमप्यधिकरणम् पञ्चरात्र-प्रामाण्यप्रतिषेधकम् किम् न स्यादिति चेद्वेदोपबृह्मणाय भारतसम्हिताम् कुर्वता बादरायणेन *इदम् शतसहस्राद्धि भारताख्यानविस्तरात् । आमन्थ्यमतिमन्थानम् दघ्नो घृतमिवोद्धृतम् ॥ नवनीतम् यथा दघ्नो द्विपदाम् ब्राह्मणो यथा । आरण्यकञ्च वेदेभ्य ओषधीभ्यो यथाऽमृतम् ॥ इदम् महोपनिषदम् चतुर्वेदसमन्वितम् । साङ्ख्ययोगकृतान्तेन पञ्च-रात्रानुशब्दितम् ॥ इदम् श्रेय इदम् ब्रह्म इदम् हितमनुत्तमम् । ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ भविष्यति प्रमाणम् वै एतदेवानुशासनम् ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैश्च कृतलक्षणैः। अर्चनीयश्च सेव्यश्च नित्ययुक्तैस्स्वकर्मसु ॥ सात्वतम् विधिमास्थाय गीतस्सङ्कर्ष-णेन यः । अस्मात्प्रवक्ष्यते धर्मान्मनुस्स्वायम्भुवस्तथा ॥*(महाभारतम्. शान्तिपर्वः मोक्षधर्मः) इत्यादिभिर्वचनैर्बहुषु स्थलेषु पञ्चरात्रप्रामाण्यम् प्रतिष्ठापितवता शारीरकशास्त्रे तत्प्रामाण्यम् निराक्रियत इत्यसङ्गतत्वात् । नन्वेवम् *एवम् तत्वमिदम् कृत्स्नम् साङ्ख्यानाम् विदितात्मनाम्। यदुक्तमृषिभिर्मुख्यैः कपिलादिभिरीश्वरैः ॥ यस्मिन्न विभ्रमाः केचिदृ-श्यन्ते मनुजर्षभ । गुणाश्च यस्मिन् बहवो दोषहानिश्च केवला*(महाभा-रतम्. शान्तिपर्वः मोक्षधर्मः) इति भारते कापिलमतस्य भ्रमादिदोषा भावप्रतिपादनात्, *सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते । यथागमम् यथान्यायम् निष्ठा नारायणः प्रभुः*(महाभारतम्. शान्तिपर्वः मोक्षधर्मः) इति साङ्ख्ययोगपाशुपतादीनामपि नारायणनिष्ठत्वप्रतिपादनात्, *तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिण*(महाभारतम्. शान्तिपर्वः मोक्षधर्मः) इति तच्छास्त्रकर्तॄणामपि नारायणप्रतिपादकत्वस्य प्रतिपादनात्, *साङ्ख्यम् योगः पाञ्चरात्रम् वेदाः पाशुपतम् तथा । आत्मप्रमाणा- न्येतानि न हन्तव्यानि हेतुभि*(महाभारतम्. शान्तिपर्वः मोक्षधर्मः)रिति सर्वेषामपि प्रमाणत्वप्रतिपादनाच्च, *सर्वे प्रमाणम् च तथा यथैतच्छास्त्र-मुत्तममि*(महाभारतम्. शान्तिपर्वः मोक्षधर्मः)ति पञ्चरात्रदृष्टान्तेनेतर शास्त्राणामपि प्रामाण्यप्रतिपादनाच्च, साङ्ख्यपाशुपताद्यागमानामपि अप्रामाण्यम् निराक्रियत इति चेत्, सत्यम् भ्रमविप्रलिप्सादिराहित्यम् शास्त्रकर्तॄणाम् परमतात्पर्यम् च नारायण एवेति समानम् । तथाऽपि बहुश्रुततया तद्वक्तृणाम् हृदयमजानन्तः आपातप्रतिपन्नमेवार्थम् तात्विकम् मन्यमाना ये प्रत्यवतिष्ठन्ते, तान् प्रति साङ्ख्याद्यागमाना-मापातप्रतिपन्नार्थमात्रपरत्वमन्वारुह्य सूत्रकृता तन्निरासः कृतः । पञ्चरात्रशास्त्रे तु परमतत्वहितपुरुषार्थानामेवापाततोऽपि प्रतीतेर्वेदा-विरुद्धनिमित्तोपादानाभेदप्रतीतेश्च कृत्स्नम् पञ्चरात्रतन्त्रम् प्रमाणमेवेति नैकदैव अप्रामाण्यशङ्कावकाश इति भावः ॥
इति उत्पत्त्ययसम्भवाधिकरणम् ॥
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीयः पादः ॥