॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:
उपलब्ध्यधिकरणम् ॥ ४ ॥
ज्ञानमेव तत्वम् नान्यत्परमाणुसमुदायरूपम् तदारब्धावयविरूपम् किञ्चिदस्ति । परमाणूनाम प्रामाणिकत्वात् तेषाम् क्षणिकानाम् समुदायभावासम्भवात् परमाणुसम्योगस्य व्याप्यवृत्तित्वाव्याप्य वृत्तित्व-विकल्पदुस्थत्वेन अवयवेषु अवयविनः कृत्स्नैकदेशविकल्पदुस्स्थत्वेन च परस्परसम्युक्ता वयवतदाश्रितावयव्यसम्भवाच्च बाह्यर्थानामान्तरविज्ञान-सम्बन्धानिरूपणे तद्विषयत्वासम्भवाच्च सम्बन्धम् विना विषयत्वे सर्वविषयानामेकस्मिन्नेव ज्ञानेऽवभासप्रसङ्गात्। न च बाह्यार्थाभावे नीलपीतादिज्ञानानाम् निरालम्बनत्वापातः। ज्ञानानामेव नीलपीताद्या-कारत्वात् । नीलादिकम् ज्ञानाभिन्नम् ज्ञानोपलम्भव्याप्योपलम्भ-विषयत्वात् ज्ञानवत् व्याप्यत्वस्याभेदेऽपि सम्भवेन न दृष्टान्तासिद्धिः। न च नीलतज्ज्ञानयोरभेदे *अहम् जानामी*ति क्रियाकर्मभावेन भेदा-वभासविरोध इति वाच्यम् । तस्य द्विचन्द्रज्ञानवद्भ्रान्तित्वात्। तदाहुः -*सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदस्तु भ्रान्तिविज्ञानैर्दृश्यश्चन्द्र इवाद्वय* इति *अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसम्वित्तिभेदवानिव लक्ष्यत*(प्रमाणवार्तिकम्) इति च । ननु सर्वस्याप्यान्तरत्वे बाह्यत्वावभासः कथमिति चेन्न उपरिस्थितानाम् नक्षत्रादीनामुद्यताम् भूमिस्थत्वावभासवत् बाह्यत्वावभासस्यापि भ्रमत्वात् । अपि च स्तम्भज्ञानम् कुड्यज्ञानमित्येवम्रूपस्य ज्ञानपक्षपातस्य ज्ञान-गतम् विशेषमन्तरेणानुपपत्तेः अवश्यम् विषयसारूप्यम् ज्ञानस्याभ्युप-गन्तव्यम् । ततश्चाङ्गीकृते च ज्ञानगताकारे आकारद्वयानुपलम्भाद- पार्थिकैव बहिरर्थकल्पना | स्वप्नादिवच्चेदम् द्रष्टव्यम् । यथा स्वप्न-मायामरीच्युदक गन्धर्वनगरादिप्रत्यया विनैव बाह्यार्थेन ग्राह्यग्राहकाकारा भवन्ति एवम् जागरितप्रत्यया अपि प्रत्ययत्वाविशेषात् । कथम् पुन-रसति बाह्यार्थैः प्रत्ययवैचित्र्यमुपपद्यत इति चेन्न । वासनावैचित्र्यस्यैव नियामकत्वात् । अनादौ सम्सारे बीजाङ्कुरवज्ज्ञानानाम् वासनानाञ्चा-न्योन्यनिमित्तकत्वेन वैचित्र्यात् । तस्मादभावो बाह्यार्थस्येत्येवम् प्रत्य-वस्थिते योगाचारे पठत्याचार्यः ।
नाभाव उपलब्धेः ॥ २-२-२७ ॥
न खल्वभावो बाह्यार्थस्य युक्तः कस्मात् उपलब्धेः। उपलभ्यते हि प्रतिप्रत्ययम् बाह्योऽर्थस्स्तम्भकुड्यादिः । न चोपलभ्यमानस्यैवाभावो युक्तः । यथा हि कश्चित् भुञ्जानो भुजिसाध्याम् तृप्तिमनुभवन् ब्रूयात् *नाहम् भुञ्जे न च तृप्यामी*ति तद्वदिन्द्रियसन्निकर्षेण स्वयमुप- लभमान एव बाह्यार्थम् *नाहमुपलभे न च सोऽस्ती*ति ब्रुवन् कथमुपा-देयवचनस्स्यात् । ननु *नाहमेवम् ब्रवीमि नैवार्थमुपलभ* इति, किन्तू-पलब्धिव्यतिरिक्तम् नोपलभ इति ब्रवीमि । बाढमेवम् ब्रवीषि । न तु युक्त्यपेक्षम् ब्रवीषि । यत उपलब्धिव्यतिरेको बलादर्थस्याभिगन्तव्यः उपलब्धेरेव । न हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यमित्युपलभते । उपलब्धिविषयत्वेनैव स्तम्भकुड्यादीन् सर्वे लौकिका उपलभन्ते । ननु बाह्यार्थस्यासम्भव उक्तः । न प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ हि सम्भवा सम्भवौ । न तु सम्भवासम्भवपूर्वके प्रमाणप्रवृत्त्यप्रवृत्ती । यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते तत्सम्भवति, यत्तु न कैश्चि-दप्युपलभ्यते, तन्न सम्भवति । इह तु यथास्वम् सर्वैरेव प्रमाणैर्बाह्यार्थ उपलभ्यमानः कथम् न सम्भवतीत्युच्यते ।
यदुक्तम् स्वप्नादिप्रत्ययवत् जागरितप्रत्यया अपि विनैव बाह्यार्थेन भवेयुः प्रत्ययत्वा विशेषादिति, तत्राह –
वैधर्म्याच्च न स्वप्नादिवत् ॥ २-२-२८ ॥
न स्वप्नादिवज्जागरितप्रत्यया भवितुमर्हन्ति कस्मात्? वैधर्म्यात्। किम् पुनर्वैधर्म्यम् बाधाबाधौ। बाध्यते हि स्वप्नोपलब्धम् वस्तु प्रबुद्धस्य *मिथ्यैव मयोपलब्धो महाजनसमागमः न ह्यस्ति महाजन-समागम: निद्रादूनन्तु मे मनो बभूव तेनैषा भ्रान्तिरि*ति । एवम् मायादिष्वपि भवति यथार्हबाधः । नैवम् जागरितोपलब्धम् स्तम्भा-दिकम् कस्याश्चिदवस्थायाम् बाध्यते । तत्रैवम् सति न शक्यते वक्तुम् मिथ्या जागरितोपलब्धिः उपलब्धित्वात् स्वप्नोपलब्धिवदिति उभयो-रन्तरम् स्वयमनुभवता। न च स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम्। तस्माद्विज्ञानव्यतिरिक्तो बाह्यार्थोऽबाधितोऽभ्युपगन्तव्य इति सूत्रत्रितयार्थश्च वर्णितः।
एवम् सूत्रम् व्याकुर्वताम् परेषाम् प्रपञ्चमिथ्यात्ववादः कथम् सङ्गतः स्यात् । मानान्तराप्राप्तजगत्कारणत्वादिब्रह्मधर्मप्रतिषेधे ब्रह्म कुतो न प्रतिषिध्येत । ब्रह्मव्यतिरिक्तस्य सर्वस्य स्वरूपतो निषेधे अखण्डार्थवेदान्तवाक्यगतयोग्यताया अप्यसत्वेन तत्समसत्ताकस्य वाक्यार्थभूतब्रह्मणोऽपि असत्वापातात्, प्रपञ्चस्य शशश्रृङ्गादिवन्निः स्वरूपत्वापाताच्च । न च न स्वरूपेण निषेधम् ब्रूमः । किम् तु पारमार्थिकत्वाकारेणेति वाच्यम् । स्वरूपानिषेधे अबाध्यत्वलक्षण-पारमार्थिकसत्त्वस्यापि निषेधानर्हत्वात् । ननु सत्वनिषेध एव स्वरूप-निषेधः ।
अतो *नेह नानास्ती*(बृह.६-४-१९, कठ.१-४-२)ति सत्वनिषेधात् स्वरूपमपि निषिद्धमेव । न च तस्य निस्स्वरूपत्वे शून्यवादाविशेष इति वाच्यम् । ब्रह्मव्यतिरिक्तविषये शून्यवादाविशेषस्येष्टत्वादिति चेत्, न । तर्हि *नाभाव उपलब्धे*(ब्र.सू.२-२-२९)रित्यधिकरणविरोधस्य दुष्परिह-रत्वात् । *चैत्यम् वन्देते*ति वाक्यात् *ज्योतिष्टोमेने* ति वाक्यस्य वैषम्याभावापत्तेश्च । न चोभयोरसन्दर्भार्थत्वाविशेषेऽपि *ज्योतिष्टोमेने* ति वाक्यार्थस्य बौद्धाभिमतसाम्वृतिकसत्यत्व-स्थानाभिषिक्तस्य व्यावहारिकसत्यत्वस्य त्वयाऽभ्युपगतत्वाच्चैत्य-वन्दनवाक्ये तस्याप्यभावाद्वैषम्यमिति वाच्यम् । *नेह घटोऽस्ती*ति वाक्ये लोकप्रसिद्धव्यावहारिकसत्वनिषेधवत् *नेह नानास्ती*(बृह.६-४-१९, कठ.१-४-२)ति वाक्ये लोकप्रसिद्धस्यैव निषेद्धुम् युक्ततया सत्वा-न्तरनिषेधस्यासम्भवात् । इतरधा *नेह नानास्ती*(बृह.६-४-१९, कठ.१-४-२)त्यस्याश्श्रुतेरप्रसक्तप्रतिषेधत्वापातात् । उक्तञ्चाभियुक्तैः *वेदोऽनृतो बुद्धकृतागमोऽनृतः प्रामाण्यमेतस्य च तस्य चानृतम् । बोद्धोऽनृतो बुद्धिफले तथाऽनृते यूयञ्च बौद्धाश्च समानसम्सद*(यादव प्रकाशः) इत्यलम् प्रसक्तानुप्रसक्त्या ।
न भावोऽनुपलब्धे ॥ २-२-२९ ॥
केवलस्य अर्थशून्यस्य ज्ञानस्य भावस्स्सम्भवति कुतः – क्वचिद-प्यनुपलब्धेः । न ह्यकर्तृकस्याकर्मकस्य वा ज्ञानस्य क्वचिदप्युपलब्धिः । स्वप्नज्ञानादिष्वपि ईश्वरसृष्टपदार्थानाम् सत्त्वान्नार्थ शून्यत्वमिति ख्यातिनिरूपणभाष्ये प्रतिपादितम् ॥
इति उपलब्ध्यधिकरणम् ॥