॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:
एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥
अथ जैनमतसदिति निराक्रियते ।
ते चैवम् मन्यन्ते – जीवाजीवास्रवसम्वरनिर्जरबन्धमोक्षा नाम सप्त पदार्थाः । बोधात्मको जीवः । जडवर्गस्त्वजीवः । इन्द्रियप्रवृत्तिरास्रवम् । शमदमादिरूपा प्रवृत्तिः सम्वरः । तप्तशिलारोहणम् निर्जरः । बन्धोऽष्ट-विधम् कर्म । तत्र घातिकर्म चतुर्विधम् । ज्ञानावरणीयम्, दर्शनावर-णीयम्, मोहनीयम्, आन्तरायिकमिति । तत्र सम्यग्ज्ञानान्न मोक्ष इति विपर्ययो ज्ञानावरणीयम् । अर्हद्दर्शनाभ्यासान्न मोक्ष इति ज्ञानम् दर्शनावरणीयम् । बहुषु प्रसिद्धेषु मोक्षमार्गेषु विशेषावरणीयम् मोहनीयम् । मोक्षमार्गप्रवृत्तानाम् विघ्नकरम् विज्ञानमान्तरायिकम् कर्म । तानी-मानि श्रेयोहन्तृत्वात् घातिकर्माणीत्युच्यन्ते । अथ अघातिकर्म चतु-र्विध्म् । वेदनीयम् नामिकम् गोत्रिकम् आयुष्कञ्चेति । तत्र वेदनीयम् कर्म शुक्लपुद्गलविपाकहेतुः । तद्धि कर्म बन्धोऽपि न भवति निश्रेयस-प्राप्तिहेतुतत्वज्ञानाविघातकत्वात् । शुक्लपुद्गलारम्भकम् वेदनीयकर्मानु-गुणम् नामिकम् कर्म । तद्धि शुक्लपुद्गलाद्यवस्थाम् कलिलबुद्बुदादि-मारभते । गोत्रिकम् तु अव्याकृतम् ततोऽप्याद्यम् शक्तिरूपेणावस्थितम् । आयुः कायति कथयति उत्पादनद्वारेणेति आयुष्कम् । तान्येतानि शुक्लपुद्गलाश्रयत्वात् अघातिकर्माणि । तदेतत्कर्माष्टकम् पुरुषम् बघ्नाति । तथा च विगळितसमस्तक्लेशतद्वासनस्यानावरणज्ञानसुखैकतान-स्यात्मन उपरिदेशावस्थानम् मोक्ष इत्येके । अन्ये तूर्ध्वगमनशीलस्य जीवस्य शुष्कालाबुफलोन्मज्जनवत् सततोर्ध्वगमनम् मोक्ष इति वर्णयन्ति । इदमन्यदपि प्रपञ्चमाचक्षते । पञ्चास्तिकाया नाम जीवास्तिकायः पुद्गळास्तिकाय: धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायश्चेति । अस्तीति कायते शब्द्यत इत्यस्तिकायः । जीव एवास्तिकायो जीवास्तिकायः । एवम् सर्वत्र । तत्र च जीवास्तिकाय-स्त्रिविधः । बद्धो मुक्तो नित्यसिद्धश्च । नित्यसिद्ध आर्हतः। इतरौ द्वौ प्रसिद्धौ । पूर्यते गळति चेति उपचितापचितम् वस्तु पुद्गळशब्देनोच्यते । पुद्गळास्तिकायश्च षोढा । पृथिव्यादिभूतचतुष्टयम् स्थावरम् जङ्गमम् चेति । धर्मास्तिकायः प्रवृत्यनुमेयः । अधर्मास्तिकायः स्थितिहेतुः । आकाशास्तिकायो द्विविधः । लोकाकाशोऽलोकाकाशश्चेति । उपर्युपरि वर्तमानानाम् लोकानामन्तर्वर्त्याकाशो लोकाकाशः । सर्वेषाम् लोकाना-मूर्ध्ववर्ती अनावृताकाशः अलोककाशः। सर्वेप्येते पदार्था: *स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यम् स्यादस्तिचावक्त-व्यञ्च – स्यान्नास्तिचावक्तव्यञ्च – स्यादस्ति च नास्ति चावक्त-व्यवक्त* इत्येवम् सत्वअसत्व सदसत्व सदसद्विलक्षणत्वासत्वविशिष्ट सदसद्विलक्षणत्व – सत्वविशिष्टसदसद्विलक्षणत्वसदसत्वविशिष्ट सदसद्विलक्षणत्वरूपसप्तभङ्गीपरिवृताः । स्याच्छब्दोऽत्र तिङन्तप्रति-रूपकोऽनैकान्त्यद्योतकः । एवम् सर्वम् वस्त्वनेकान्तमिति । अतस्त-न्मतम् समञ्जसम् कस्याप्यप्रतिक्षेप्यत्वादिति पूर्वपक्षे –
नैकस्मिन्नसम्भवात् ॥ २-२-३१ ॥
एकस्मिन्वस्तुनि सत्वासत्वभिन्नत्वादिविरुद्धधर्माणाम् परस्परविरह-स्वरूपाणामसम्भवात्तन्मतमसमञ्जसम् । प्रमाणाप्रमाणविभागाभाव-प्रसङ्गेन सर्वव्यवहारोच्छेदप्रसङ्गात् ।
एवम् चात्माकार्त्स्न्यम् ॥ २-२-३२ ॥
जीवस्य देहानुरूपपरिमाणत्त्वमित्यभ्युपगच्छताम् जैनानाम् हस्त्यादिशरीरस्थस्यात्मनो न्यूनपरिमाणमशकादिशरीरप्रवेशे आत्मनः परिपूर्णता न स्यात् ।
अथ सङ्कोचविकासधर्मतयाऽऽत्मनः पर्यायेणावस्थान्तरापत्त्या न विरोध इति चेत्तत्राह –
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ २-२-३३ ॥
कालभेदेन सङ्कोचविकासावस्थाभ्युपगमे विकारित्वानित्यत्वादि-दोषप्रसङ्गः ।
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ २-२-३४ ॥
जीवस्य यदन्त्यम् परिमाणम् मोक्षावस्थागतम्, तस्य देहान्तर-परिग्रहाभावेनावस्थितत्वात्तस्य परिमाणस्य तदाश्रयस्य च जीवस्य नित्यत्वादुत्तरावस्थाविधुरत्वेन नित्यत्वात्तदेव परिमाणम् पूर्वत्राप्य-विशिष्टमित्येवाभ्युपगन्तव्यम् । उत्तरावधिशून्यस्य पूर्वावध्यभावात् । अतश्च देहभेदेन तदनुरूपपरिमाणभेद इति जैनानाम् दर्शनमसङ्गतम् ।
अनेन जैनमतप्रतिक्षेपेणैव भेदाभेदसमावेशवाद्याश्मरथ्यमतमपि
निरस्तम् ।
इति एकस्मिन्नसम्भवाधिकरणम् ॥