॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:
पशुपत्त्यधिकरणम् ॥ ७ ॥
सर्वज्ञपशुपतिप्रणीतत्वात्पशुपतिमतमादरणीयमिति पूर्वपक्षे प्राप्त उच्यते –
पत्युरसामञ्जस्यात् ॥ २-२-३५ ॥
पत्युः पशुपतेर्मतमनादरणीयम् । वेदविरुद्धमुद्राष्ट्कधारणसुराकुम्भ-स्थापनशवभस्मस्नानादिधर्माणाम् निमित्तमात्रेश्वरस्य चाभ्युपगमेन तन्मतस्यासमञ्जसत्वात् ।
अधिष्ठानानुपपत्तेश्च ॥ २-२-३६ ॥
अवैदिकस्य तदभिमताशरीरेश्वरस्य प्रधानाधिष्ठातृत्वानुपपत्तेश्च ।
करणवच्चेन्न भोगादिभ्यः ॥ २-२-३७ ॥
यथा जीवस्य करणकळेबराधिष्ठाने करणकळेबरान्तरनैरपेक्ष्यम्, एवम् पशुपतेरपि प्रधानाद्यधिष्ठानेऽपि शरीरान्तरनैरपेक्ष्यमस्त्विति चेन्न । तर्हि तथैव सुखदुःखभोगादयः प्रादुष्युः ।
अन्तवत्त्वमसर्वज्ञता वा ॥ २-२-३८ ॥
वाशब्दश्चार्थः । तद्वदेव पुण्यापुण्यकर्मवश्यत्वादेरपि प्रसक्त्योत्पाद-विनाशवत्त्वज्ञानसङ्कोचादेरपि प्रसङ्गः । अतो निमित्तोपादानभेदवादि-पाशुपतमतमनादरणीयम् ॥
इति पशुपत्यधिकरणम् ॥