॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:
महद्दीर्घाधिकरणम् ॥ २ ॥
काणादपक्षस्य युक्तियुक्ततया आदरणीयत्वमिति पूर्वपक्षे प्राप्त उच्यते –
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ २-२-१० ॥
महद्दीर्घवद्वेत्यादि-पारिमाण्डल्यपरिमाणाश्रयेणा परस्परयुक्तपरमाणु-ह्रस्वद्व्यणुकमुत्पद्यते । परस्परयुक्तेनाणुह्रस्वद्व्यणुकत्रयेण महद्दीर्घम् त्र्यणुकमुत्पद्यत इत्यसमञ्जसप्रक्रियावदितरापि तत्प्रक्रिया असमञ्जसैव । किम् तत्रासामञ्जस्यमिति चेत् – निष्प्रदेशे परमाणौ प्रादेशिक-सम्योगासम्भवात् सम्योगस्याव्याप्यवृत्तित्वनियमात् परस्परासम्युक्त-प्रदेशभेदा-भावेन ततोऽधिक परिमाणकार्यानुत्पत्तिप्रसङ्गात् ।
उभयथाऽपि न कर्मातस्तदभावः ॥ २-२-११ ॥
परमाणुष्वाद्यम् कर्मादृष्टकारितमिति तैरभ्युपगम्यते । तत्र न परमाणुसमवेतमदृष्टम् क्रियाहेतुः अचेतनस्यादृष्टानाधारत्वात् । नाप्या-त्मगतम् क्रियाहेतुः व्यधिकरणत्वात् अतोऽदृष्टकारितकर्मणा परमाणुद्वयसम्योग इति तत्प्रक्रिया न युक्ता ।
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ २-२-१२ ॥
जातिगुणादिविशष्टप्रतीतिनिर्वाहकतया समवायाभ्युपगमे तन्तुषु पटस्समवेत इति समवायिविशिष्टप्रतीतिनिर्वाहकतासामान्येन सम्बन्धा-न्तरस्यावश्यकता तत्रापि सम्बन्धान्तराभ्युपगमे अनवस्था स्यात् ।
नित्यमेव च भावात् ॥ २-२-१३ ॥
समवायलक्षणसम्बन्धस्य च नित्यम् सत्त्वात् सम्बन्धिनोऽपि नित्य- सत्त्वावश्यम्भावेन जगतो नित्यत्वमेव स्यात् ।
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ २-२-१४ ॥
रूपादिमत्त्वाच्च परमाणोस्तदभिमतनित्यत्वनिरवयवत्वादिव्यतिरेकः प्रसज्यते । लोके रूपादिमतामनित्यत्वदर्शनात् ॥
नन्वेतद्दोषशान्तये रूपादिशून्या एव परमाणवस्सन्तु तत्राह –
उभयथा च दोषात् ॥ २-२-१५ ॥
कारणगुणपूर्वकत्वात्त्वन्मते कार्यगुणानाम् पृथिव्यादीनामपि रूपादि-शून्यत्वप्रसङ्गः ।
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ २-२-१६ ॥
वैदिकपरिग्रहशून्यत्वाच्च तत्पक्षस्य निश्रेयसार्थिभिस्तत्पक्षेऽनपेक्षैव कार्या । अत एव कणादादयोऽर्धवैनाशिका इति हि शिष्टगोष्ठीव्यवहारः । तार्किका हि – जाठराग्निना पच्यमानानाम् भुक्तपीताहारौषधरसद्रव्य-रूपाणामवयवानाम् प्रतिक्षणमुपचयापचयवैषम्यादवयविशरीरमपि प्रति-क्षणमुपचयापचयवदन्यदन्यद्भवति । यद्यपि शरीरस्य प्रतिकलमुपचया-पचयदर्शनम् नास्ति, तथाऽपि वर्षधारानिपातैस्तटाकजलस्येव घटी-यन्त्रोत्क्षेपणैः कूपजलस्येव चान्ते तद्दर्शनात् यौक्तिकम् प्रतिक्षणम् किञ्चित्किञ्चिदुपचयापचयज्ञानमस्त्येव । चन्द्रतारकादीनाम् मुहूर्तादि-कालव्यवधानेन बहुळदेशान्तरप्राप्तिदर्शनात् प्रतिक्षणम् स्वदेशान्तरप्राप्ति-ज्ञानवदित्यभ्युपगच्छन्ति । एवम् प्रतिक्षणमवश्यम्भाविभिः खननपूर- णादिभिर्गोळस्य नदीजलसम्सर्गशीकरोत्पतनैस्समुद्रस्य च उपचयापच-यवत: क्षणिकत्वमभ्युपगच्छन्ति अतस्तेऽर्धवैनाशिकाः । बौद्धास्तु सर्वस्य प्रपञ्चस्य क्षणिकत्वमभ्युपगच्छन्तस्सर्ववैनाशिका इति हि वैदिकानाम् व्यवहारः ।
इति महद्दीर्घाधिकरणम् ॥