॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:
(पे-१) रचनानुपपत्त्यधिकरणम् ॥ १ ॥
रचनानुपपत्तेश्च नानुमानम् प्रवृत्तेश्च ॥ २-२-१ ॥
सत्वरजस्तमोमयसुखदुःखमोहात्मकम् जगत् तस्वरूपोपादानाकम् कार्यत्वादित्यनुमानसिद्धम् साङ्ख्याभिमतम् प्रधानम् न जगत्कारणम् । अनुमीयत इति व्युत्पत्त्या अनुमानशब्द आनुमानिकपरः । तादृशप्रधानस्य तत्स्वभावाभिज्ञचेतनानधिष्ठितत्वेन विचित्रप्रपञ्च-रचनासामर्थ्यानुपपत्तेः, तादृशचेतनाधिष्ठितस्यैव दार्वादेरचेतनस्य कार्य-प्रवृत्तेर्दर्शनाच्च न प्रधानम् जगत्कारणमित्यर्थः ।
पयोऽम्बुवच्चेत्तत्रापि ॥ २-२-२ ॥
ननु, पयसश्चेतनानधिष्ठितस्यापि दधिभावेन परिणामवद्वारिदमुक्त-जलस्य नाळिकेररसाद्यात्मना परिणामवच्चेतनानधिष्ठितस्यापि प्रधानस्य परिणामः किम् न स्यादिति चेत् न, तत्रापि प्राज्ञाधिष्ठानमस्त्येव । *योऽप्सु तिष्ठन्नि*(बृह.५-७-४)त्यादिश्रुतेः तस्यापि पक्षत्वादित्यर्थः ।
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ २-२-३ ॥
सृज्यमानप्राणिकर्मपरिपाकाद्यभिज्ञपुरुषाधिष्ठानानपेक्षप्रधानस्य जगत्स्रष्टृत्वे सर्ग एव सर्वदा स्यात् । तद्व्यतिरेकप्रतिसर्गस्यावस्थितिः सत्ता कदापि न स्यादित्यर्थः ।
अन्यत्राभावाच्च न तृणादिवत् ॥ २-२-४ ॥
धेन्वाद्युपयुक्ततृणादेः प्राज्ञानधिष्ठितस्यापि क्षीराकारेण परिणामदर्शना- दित्युदाहरणान्तरावलम्बनेन शङ्का । घेन्वाद्युपयुक्ततृणवत् अनडुदाद्युप-युक्ततृणादेः क्षीरभावाभावात् तत्रापि प्राज्ञाधिष्ठानमपेक्षितमिति परिहारा-भिप्रायः ।
पुरुषाश्मवदिति चेत्तथाऽपि ॥ २-२-५ ॥
दृक्छक्तियुक्तपुरुषसन्निधानादृक्छक्तिशून्योऽप्यन्धो यथा प्रवर्तते, यथा-ऽयस्कान्ताश्मसन्निधानादयसोऽचेतनस्य प्रवृत्तिः, एवम् चिन्मात्रात्मक-पुरुषसन्निधानादचेतनम् प्रधानम् जगत्सर्गे प्रवर्तत इति चेत्, तथापि प्रधानस्य स्रष्टृत्वम् नोपपद्यते । पङ्ग्वादीनाम् मार्गदर्शनतदुपदेशादि-व्यापारवत् पुरुषस्य निष्क्रियस्य तादृशविकारासम्भवात्, सन्निधान-मात्रस्य प्रयोजकत्वे नित्यसर्गप्रसङ्गात् ।
अङ्गित्वानुपपत्तेश्च ॥ २-२-६ ॥
प्रळये साम्यावस्थानाम् सत्वरजस्तमसामुत्कर्षापकर्षलक्षणाङ्गाङ्गि-भाववशेन जगत्स्रष्टिर्वक्तव्या। कालविशेषे अङ्गाङ्गिभावविशेषे नियाम-काभावादित्यर्थः ।
अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॥ २-२-७ ॥
दूषितप्रकारातिरिक्त प्रकारेण प्रधानानुमानेऽपि ज्ञातृत्वशक्त्यभावात् जगत्स्रष्टृत्वम् नोपपद्यते ।
अभ्युऽपगमेऽप्यर्थाभावात् ॥ २-२-८ ॥
आनुमानिक प्रधानाभ्युपगमेऽपि पुरुषस्य तन्मते चिन्मात्रत्वेन निष्क्रियत्वेन च भोगापवर्गयोरभावात् पुरुषभोगार्था प्रधानप्रवृत्तिरिति नोपपद्यते । अतो व्यर्थः प्रधानाभ्युपगमः।
विप्रतिषेधाच्चासमञ्जसम् ॥ २-२-९ ॥
पुरुषो न सम्सरति न मुच्यत इत्युक्त्वा पुरुषभोगार्था प्रधान-प्रवृत्तिरिति प्रतिपादयत् साङ्ख्यदर्शनम् पूर्वोक्तविरोधाच्चासमञ्जसमिति न साङ्ख्याभिमतम् प्रधानम् जगदुपादानम् ॥
इति रचनानुपपत्त्यधिकरणम् ॥