॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:
सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥
लोके विज्ञानम् घटपटादयश्च सर्वे भावा न सन्ति कुतः? उत्पत्त्य-निरूपणात् । न च घटादिभावानामभावात्तावदुत्पत्तिस्सम्भवति । पिण्डादेरनुपमृदितात् स्वेन रूपेण घटाद्युत्पत्त्यदर्शनात् । नाप्यभावात् – अभावात्तावदुत्पद्यमानो घटादिरभाव एव स्यादिति माध्यमिकस्य सर्वशून्यवादस्सम्यगिवेति चेत्, अत्र भावाभावशब्दयोस्तद्बुध्योश्च प्रमाणेन उपलभ्यमानस्यैव वस्तुनोऽवस्थाविशेष एव विषयः । वर्तमानतयोप-लभ्यमानोऽवस्थाविशेषो भावबुद्धिविषयः तद्विरोध्यवस्थाविशेषोऽभाव-बुद्धिविषय इति उत्पत्त्यनिरूपणहेतुरसिद्ध इति दूषणम् मनसि कृत्वा दूषणान्तरम् पठत्याचार्यः –
सर्वथाऽनुपपत्तेश्च ॥ २-२-३० ॥
सर्वशून्यवादी सर्वम् सदिति वाऽसदिति वा प्रकारान्तरेण वा यदि स्वाभिमतसदिति साधयति सर्वथाऽपि सर्वशून्यत्वानुपपत्तेः स्वाभिमता-सिद्धिः । सद्भावासद्भावयोर्विद्यमानवस्तुधर्मत्वोप पादनात् । सूत्रार्थश्च स्पष्टः ॥
इति सर्वथाऽनुपपत्त्यधिकरणम् ॥