॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः
अम्शाधिकरणम् ॥ ७ ॥
*ज्ञाज्ञौ द्वावजावीशनीशावि*(श्वेता.१-९)त्यादिभेदश्रुत्यनुरोधादभेदवादो जात्याद्यभेदाभिप्रायेण गौणो नेतव्यः । अथवा *तत्वमस्या*(छान्.६-८-७)द्य भेदश्रुत्यनुरोधाद्भेदव्यपदेश औपाधिकभेदपरतया नेतव्य इत्येवम् पूर्वपक्षे प्राप्त उच्यते –
अम्शो नानाव्यपदेशादन्यथा चापि
दाशकितवादित्वमधीयत एके ॥ २-३-४२ ॥
नानाव्यपदेशात् – भेदव्यपदेशात् । अन्यथा चापि – अभेदेनापि व्यपदेशात्, श्रुतिद्वयानुग्रहाय ब्रह्मणोंऽशो जीव इत्यवगम्यते । चिद-चिद्विशिष्टम् हि ब्रह्मणस्स्वरूपम् । तत्र विशेषणभूतचिदम्शस्यान्तर्भूत-त्वादभेदव्यपदेशोपपत्तिः । विशेष्यापेक्षया विशेषणस्य भिन्नत्वाद्भेद-व्यपदेशस्याप्युपपत्तिः । *ब्रह्म दाशा ब्रह्म दासा ब्रह्मेमे कितवा उते*(आथर्वण ब्रह्म सूक्तम्) ति दाशकितवादीनामपि ब्रह्मत्वमेके शाखिनः अधीयते । नास्याभेदव्यपदेशस्य गौणत्वम् वक्तुम् युज्यते । नापि सृज्यत्वसम्हार्यत्वादि लक्षणभेदव्यपदेशस्य मानान्तरा-सिद्धार्थाभिधायिनोऽनुवादत्वम् गौणत्वम् वा वक्तुम् युज्यते । अतो व्यपदेशद्वयमुख्यत्वाय नीलगोत्वाद्यपृथक्सिद्धविशेषणभूतरूपजात्यादि-विशिष्टद्रव्यस्य यथा रूपजात्यादिविशेषणमम्शः एवमपृथक्सिद्धविशेषण-भूतशक्तिस्थानीयो जीवोंऽश इत्यर्थः ।
मन्त्रवर्णात् ॥ २-३-४३ ॥
*पादोऽस्य विश्वाभूतानी*(पुरुषसूक्तम्.तै.आर)ति मन्त्रवर्णेन सर्व-जीवानाम् भूतशब्दितानाम् पादशब्दिताम्शत्व प्रतिपादनाच्च जीवो ब्रह्मविशेषणाम्शः ।
अपि स्मर्यते ॥ २-३-४४ ॥
ममैवाम्शो जीवलोक*(गी.१५-७) इति गीतावचनाच्च अम्शत्वम् । ननु जीवस्याम्शत्वे जीवस्य ब्रह्मैकदेशत्वावश्यम्भावेन तद्गता दोषः ब्रह्मणि स्युः । नेत्युच्यते ।
प्रकाशादिवत्तु नैवम् परः ॥ २-३-४५ ॥
तुशब्दश्चोद्यम् व्यावर्तयति । परः – परमात्मा एवम् न जीववन्न दुष्टः प्रकाशादिवत् । यथा प्रकाशगोत्वादिविशिष्टप्रभावद्गवादिद्रव्यस्य प्रभागोत्वादिकमम्शः तादृशोऽयमम्शः । नतु घटाका शादिवत् तदेकदेशरूपः । अतो न जीवदोषेण परस्य दुष्टता ।
स्मरन्ति च ॥ २-३-४६ ॥
स्मरन्ति च पराशरादयः *एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणशक्तिस्तथेदमखिलम् जगदि*(वि.पु.१-२२-५६)ति प्रकाशाद्यम्शसाम्यम् ।
ननु सर्वेषाम् जीवानाम् ब्रह्माम्शत्वे समाने केषाञ्चिद्वेदाध्ययना-द्यनुज्ञाकेषाञ्चित्परिहार इति व्यवस्था कथम् सङ्गच्छताम् । तत्राह –
अनुज्ञापरिहारौ देवसम्बन्धाज्ज्योतिरादिवत् ॥ २-३-४७ ॥
यथाऽग्न्यादेरेकरूपस्यैव श्रोत्रियचण्डालागारादिसम्बन्धवशेन हेयत्वो-पादेयत्वे एवम् ब्रह्माम्शत्वा विशेषेऽपि जीवानाम् त्रैवर्णिकात्रैवर्णिकशरीर-सम्योगाद्वेदाध्ययनाद्यनुज्ञापरिहारावुपपद्येते ।
असन्तेश्चाव्यतिकरः ॥ २-३-४८ ॥
प्रतिशरीरम् भिन्नानाम् जीवानामणुत्वेन सर्वत्रासन्ततत्वात् न भोगव्यतिकरदोषोऽपि भवति । ननु जीवब्रह्मभेदपक्षेsपि अविद्याकृतो-पाधिभेदाद्भोगसङ्कर उपपत्स्यते । तत्राह –
आभास एव च ॥ २-३-४९ ॥
अखण्डैकरसप्रकाशमात्रस्वरूपस्य ब्रह्मण अविद्याकृतस्वरूपतिरोधान-तत्पूर्वकोपाधिभेदपरिकल्पनहेतुराभास एव । प्रकाशस्वरूपस्य तिरोधानम् हि प्रकाशनाश एवेति पर्यवस्येत् ।
ननु पारमार्थिकोपाध्युपहितब्रह्मजीववादे उपाधिभेदहेतुभूतानाद्यदृष्ट-वशाद्भोगव्यवस्था भविष्यति । तत्राह –
अदृष्टानियमात् ॥ २-३-५० ॥
ब्रह्मस्वरूपस्य छेदनभेदानाद्यसम्भवेन सर्वेषामप्यदृष्टानामनियतत्वान्न भोगव्यवस्था सिध्येत् ।
ननु अदृष्टहेतुभूताभिसन्ध्यादिव्यवस्थया अदृष्टव्यवस्था तद्वारा भोग-व्यवस्था च भविष्यतीत्यत्राह –
अभिसन्ध्यादिष्वपि चैवम् ॥ २-३-५१ ॥
अभिसन्ध्यादीनामपि छेदनाद्यनर्हब्रह्मस्वरूपमात्रसम्बन्धित्वदिव्यवस्था तदवस्थैव ।
प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ २-३-५२ ॥
ननु ब्रह्मस्वरूपस्यैकत्वेऽप्युपाधिसम्बन्धिप्रदेशभेदादुपपद्यते भोग-व्यवस्थेति चेन्न । उपाधीनाम् तत्र तत्र गमनात्सर्वप्रदेशानाम् सर्वो-पाध्यन्तर्भावेन भोगव्यतिरेकस्तदवस्थ एव प्रदेशभेदेनोपाधिसम्बन्धेऽपि सर्वस्य ब्रह्मप्रदेशत्वात् सर्वसम्बन्धिदुःखम् ब्रह्मण एव स्यादिति ब्रह्मभावो महाननर्थ आपद्येतेति । अतो जीवो ब्रह्मणो विशेषणाम्शम् इति स्थितम् ॥
इति अम्शाधिकरणम् ॥ ७ ॥
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः ॥