॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः
(पे.२) आत्माऽधिकरणम् ॥ ३ ॥
यथा *वायुश्चान्तरिक्षम् चैतदमृतमि*(बृह.४-३-३)ति वाय्वन्तरिक्ष-योर्नित्यत्वश्रवणेऽपि *तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः*(तै. आन.१-अनु) *आकाशाद्वायुरि*(तै.आन.१-अनु)ति च तयोरुत्पत्तिश्रवणेन तदेकविज्ञानेन सर्वविज्ञानसिध्यर्थम् च सर्ववस्तुनो ब्रह्मविकारत्वस्य अवश्याश्रयणीयत्वादुत्पत्तिरङ्गीक्रियते, एवम् जीवानाम् नित्यत्वश्रवणेऽपि *तोयेन जीवान् व्यससर्ज भूम्याम्*(तै.महाना.१-४) *प्रजापतिः प्रजा असृजते*(तै.यजुः २-१-२)ति जीवानामपि सृष्टिश्रवणात् एकविज्ञानेन सर्वविज्ञानसिध्यर्थम् च जीवस्यापि सृष्टिरभ्युपगन्तव्येति पूर्वपक्षे प्राप्त उच्यते –
नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ २-३-१८ ॥
आत्मा नोत्पद्यते । *न जायते म्रियते वा विपश्चित्*(कठ.१-२-१८), *ज्ञाज्ञौ द्वावजावि*(श्वेत.१-९)ति उत्पत्तिनिषेधश्रुतेः ताभ्य एव श्रुतिभ्यो नित्यत्वावगमाच्च । न च उत्पत्तिश्रुतेः सर्वविज्ञानप्रतिज्ञायाश्च विरोध-श्शङ्क़्यः । स्वरूपस्य नित्यत्वेऽपि ज्ञानसङ्कोचविकासलक्षणान्यथा-भावरूपावस्थान्तरापत्तिसत्वेन उत्पत्तिश्रुतेस्सर्वविज्ञानप्रतिज्ञायाश्च उपपत्तेः । उत्पत्तिनिषेधश्रुतेश्च स्वरूपान्यथाभावलक्षणोत्पत्त्यभावपरतयाऽविरोधात् । इयाम्स्तु विशेष: चिदचिदीश्वराणाम् त्रयाणामपि अवस्थान्तरापत्ति-लक्षणोत्पत्तिरूपो विकारोऽस्त्येव । तथाऽपि अचेतनानाम् स्वरूपान्यथा-भावलक्षणोत्पत्तिः । जीवानाम् तु सा नास्ति अपि तु ज्ञानसङ्कोच-विकासलक्षणस्वभावान्यथा भावरूपा । ईश्वरस्य तत्तन्नियन्तृत्वाद्यवस्था-सत्वेऽपि उक्तलक्षणानिष्टद्वयाभावात् *नित्यो नित्यानाम्*(श्वेत.६-१३-११, कठ.२-५-१३) इति इतरविलक्षणनित्यत्वोक्तिरिति । न चेदम् मन्त्रद्वयम् परविषयमिति शक्यम् वक्तुम् । *न हन्यते हन्यमाने शरीर*(कठ.१-२-१८) इत्येतद्विवरणरूपत्वाद्द्वितीयमन्त्रस्य । *हन्ता चेदि*(कठ.१-२-१९) ति मन्त्रश्च जीवविषय एव । लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रति-पत्त्यभावात् । परमात्मा हि प्रत्यक्षागोचरः कथम् तस्मिन् वध्यत्वादि-प्रतिपत्तिः । *अहमेनम् हन्मि अयम् माम् हन्तुमागच्छती*ति वध्य-घातुकभावाभिमानो हि देहिनाम् जीवविषय एव । ननु *नास्य जरयैतज्जीर्यत*(छान्.८-१-५) इतिवत् परमात्मनोऽपि हननप्रतिषेध उपपद्यते । सत्यम्, दहराकाशस्य देहान्तस्स्थित्या शङ्कितविकारनिषेध उपपद्यते । इह तु लोकसिद्ध भ्रान्तिरर्थान्निरस्यते । न हि परमात्मनि वध्यघातकभावभ्रान्तिः कस्याप्यस्ति । अतोऽनुवाद निषेधावनुपपन्नौ । *न जायत*(कठ.१-२-१८) इति मन्त्रश्च तेनैकार्थः । न च वेदान्तवेद्य-परिशुद्धात्मस्वरूपे कथम् हननादिप्रसक्तितत्पूर्वकनिषेधाविति वाच्यम् तस्यैव क्षेत्रज्ञतया तत्प्रयुक्ततत्सम्भवात् । अतो मन्त्रद्वयमपि जीव-विषयकमिति द्रष्टव्यम् ॥
इति आत्माऽधिकरणम् ॥