॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः
तेजोधिकरणम् ॥ २ ॥
तेजोऽतस्तथाह्याह ॥ २-३-१० ॥
*वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी*(तै.आन.१.अनु)त्यादौ वायुरूपाद्ब्रह्मणः अग्निरुत्पद्यते उत केवलवायोरेवेति विशये, अतः केवलवायोरेव तेज उत्पद्यते । *वायोरग्निरि*(तै.आन.१.अनु)ति श्रुतिराह ।
आपः ॥ २-३-११ ॥
आपस्तेजस एवोत्पद्यन्ते । *अग्नेराप*(तै.आन.१.अनु) इति श्रुतिराह –
पृथिवी ॥ २-३-१२ ॥
पृथिव्यद्भय एवोत्पद्यते । *अद्भयः पृथिवी*(तै.आन.१.अनु), *ता अन्नमसृजन्त*(छान्.६-२-४) इति श्रुतिराह । ननु कथमन्नशब्देन पृथिव्यभिधीयते तत्राह –
अधिकाररूपशब्दान्तरेभ्यः ॥२-३-१३॥
महाभूतसृष्ट्यधिकारात् पृथिव्येवान्नकारणभूतान्नशब्देनोपचारादुच्यते । तथा *यदग्नेः रोहितम् रूपम् तेजसस्तद्रूपम् यच्छुक्लम् तदपाम् यत्कृष्णम् तदन्नस्ये*(छान्.६-४-१)ति कृष्णरूपस्यान्नसम्बन्धितया कीर्तनान्न मुख्यमन्नशब्देनोच्यते अपि तु पृथिव्येव । तैत्तिरीयके – *अद्भयः पृथिवी*(तै.आन.१.अनु)ति पृथिवीवाचक विस्पष्टवाचकाकार-श्रवणाच्चान्नशब्देन पृथिव्येवोच्यते । ततश्च केवलवाय्वादेरेवाग्न्युत्पत्तिः न तु तच्छरीरकब्रह्मण इति पूर्वपक्षे प्राप्त उच्यते –
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ २-३-१४ ॥
तुशब्दः पक्षव्यावर्तकः । वाय्वग्न्यादिशब्दैस्स परमात्मैवाभिधीयते । *तत्तेज ऐक्षत*(छान्.६-२-३) ता आप ऐक्षन्ते*(छान्.६-२-४)ति तत्त-त्कार्यसृष्टिसङ्कल्परूपाभिध्यानलक्षणात् परमात्मलिङ्गादचेतने तेज आदौ ईक्षणासम्भवात् ।
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ २-३-१५ ॥
चशब्दोऽवधारणार्थः । *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खम् वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी*(मुण्ड.२-१-३)त्येव सर्वेषाम् भूतानाम् परब्रह्मानन्तर्यरूपो *वायोरग्निः* *अग्नेराप*(तै.उ.-आन.२-अनु) इत्युपक्रम विपर्येण श्रूयमाणो यः क्रमस्स वाय्वादि-शरीरकपरमात्मोपादानकत्वे एवोपपद्यते । न तु केवल वाय्वाद्युपादान-कत्व इति ॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति
चेन्नाविशेषात् ॥ २-३-१६ ॥
विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यते । ननु *एतस्मा-ज्जायत*(मुण्ड.२-१-३) इति वाक्यम् प्राणादीनाम् सर्वेषाम् नाव्यवहित-ब्रह्मोपादानकत्वम् प्रतिपादयति, किन्तु प्राणोत्पत्त्यनन्तरम् मनसश्च सर्वेन्द्रियाणाञ्चोत्पत्तिः, तत आकाशादिभूतानामुत्पत्तिरिति इन्द्रियाणाम् मनसश्च प्राणभूतान्तराळसृष्टत्वप्रतिपादनार्थम् प्रवृत्तम्, भूतसृष्टिक्रम-प्रत्यभिज्ञानरूपाल्लिङ्गादिति चेन्न अविशेषात् – अविशेषेण प्राणादीनाम् सर्वेषाम् ब्रह्मानन्तर्यरूपक्रमप्रतीतेस्तत्परित्यागकारणाभावात् ।
ननु वाय्वादिशरीरकब्रह्मणोऽग्न्याद्युत्पत्तौ वाय्वादिशब्दानाम् तच्छरी-रकब्रह्मणि लक्षणास्यादित्यत्राह –
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो
भाक्तस्तद्भावभावित्वात् ॥ २-३-१७ ॥
तुशब्दश्शङ्कानिवृत्यर्थः । चराचरव्यपाश्रयो देवमनुष्यादिवृक्षादिव्य-पदेशो भाक्तः । वाच्यैकदेशे भज्यत इत्यर्थः । सर्वेषाम् चराचरशब्दानाम् विशिष्टम् ब्रह्मैवार्थः । विशेषणमात्रप्रयोगस्त्वमुख्यः । ततश्चवाय्वादिशरी-रकब्रह्माभिधानम् मुख्यमेव । यद्वा अभाक्त इति छेदः । वाय्वादिशब्दैः ब्रह्मव्यपदेशः अभाक्तः मुख्य इति यावत् । शरीरवाचिशब्दानाम् शरीरि-पर्यन्तत्वादिति ॥
इति तेजोऽधिकरणम् ॥