॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः
(पे- १) वियदधिकरणम् ॥ १ ॥
न वियदश्रुतेः ॥ २-३-१ ॥
छान्दोग्ये *तत्तेजोऽसृजते*(छान्.६-२-३)ति तेजस एव प्रथमत-स्सृष्ट्यभिधानात् आकाशोत्पत्तेर श्रुतेराकाशो नोत्पद्यत इति पूर्वपक्षे प्राप्त उच्यते –
अस्तितु ॥२-३-२॥
आकाशस्याप्युत्पत्तिरस्त्येव । तैत्तिरीयके *आत्मन आकाशस्सम्भूत* (तै.आन.२ अनु) इति उत्पत्तेः – श्रवणात् । पुनश्चोदयति –
गौण्यसम्भवाच्छब्दाच्च ॥ २-३-३ ॥
*आत्मन आकाशस्सम्भृत *(तै.आन.२ अनु) इत्युत्पत्तिश्रुतिः गौणी । निरवयवाकाशोत्पत्तेः छान्दोग्ये चाश्रुतायाः प्रतिपादनासम्भवात्, *वायुश्चान्तरिक्षञ्चैतदमृतमि*(बृह.४-३-३)ति आकाशस्यामृतत्वश्रवणाच्चेत्यर्थः ।
ननु *आत्मन आकाशस्सम्भूत*(तै.आन.२ अनु) इत्यत्र आकाशे सम्भूतशब्दस्य गौणत्वे *आकाशाद्वायुः*(तै.आन.२ अनु) *वायोरग्निरि* (तै.आन.२ अनु)त्यादौ श्रुतस्य सम्भूतशब्दस्य गौणत्वम् स्यादित्यत्राह –
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ २-३-४ ॥
एकस्यैव सम्भूतशब्दस्य आकाशे गौणत्वम् वायोरित्यादावनुषक्तस्य सम्भूतशब्दस्य मुख्यत्वम् सम्भवति । यथा मुण्डके *तस्मादेतद्ब्रह्म नामरूपमन्नम् च जायत*(मुण्ड.२-१-९) इति प्रधाने गौणतया प्रयुक्तस्य ब्रह्मशब्दस्य एतस्मिन्नेव प्रकरणे *तपसा चीयते ब्रह्मे*(मुण्ड.१-१-८)ति ब्रह्मणि मुख्यतया प्रयोगदर्शनात् । परिहरति –
प्रतिज्ञाऽहानिरव्यतिरेकात् ॥ २-३-५ ॥
आकाशस्यापि ब्रह्मोपादेयतया ब्रह्माव्यतिरेके सत्येव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अहानिर्भवति । ब्रह्माकार्यस्यापि वस्तुनस्सत्वे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा हीयेतेत्यर्थः ।
शब्देभ्यः ॥ २-३-६ ॥
*सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्*(छान्.६-२-१) *ऐत-दात्म्यमिदम् सर्वमि*(छान्.६-८-७) त्यादि शब्दैस्सर्वस्यापि वस्तुनो ब्रह्मकार्यत्वब्रह्मात्मकत्वप्रतिपादनपरैश्चायमर्थो विधीयते –
यावद्विकारम् तु विभागो लोकवत् ॥ २-३-७ ॥
तुशब्दश्चार्थे । छान्दोग्ये *ऐतदात्म्यमिदम् सर्वमि*(छान्.६-८-७) त्यादिभिराकाशादेस्सर्वस्य विकारत्व प्रतिपादनादेव विभागशब्दितोत्पत्ति-रप्युक्तैव । यथा लोके *एते सर्वे देवदत्तपुत्रा* इत्यभिधाय तेषु केषाञ्चि-दुत्पत्तिप्रतिपादनेऽपि सर्वेषामप्युत्पत्तिः प्रतिपादितैव भवति, तद्वत् । *वायुश्चान्तरिक्षम् चैतदमृतमि*(बृह.४-३-३)ति तु देवानामिव चिरकालस्थायित्वाभिप्रायम् ।
एतेन मातरिश्वा व्याख्यातः ॥ २-३-८ ॥
आकाशोत्पत्तिप्रतिपादनेनैव वायोरप्युत्पत्तिः प्रतिपादितैवेत्यर्थः ।
ननु *तदभिध्यानादेव तु तल्लिङादि*(ब्र.सू.२-२-१४)ति उत्तराधि-करणे वाय्वाकाशादिशब्दैः परमात्मैवाभिधीयत इति वक्ष्यते ततश्च सच्छब्दवाच्यब्रह्मोपादेयतया ब्रह्माव्यतिरेके सति ब्रह्मणोऽप्युत्पत्ति-रवर्जनीयेत्यत्राह –
असम्भवस्तु सतोऽनुपपत्तेः ॥ २-३-९ ॥
तुशब्दोऽवधारणे । उत्पत्त्यसम्भवस्तु परस्य ब्रह्मण एव । इतरस्य सदेवेत्यवधारणाद्यनुपपत्तेस्सम्भव इत्यर्थः ॥
इति वियदधिकरणम् ।