॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः
(पे- १) प्राणोत्पत्त्यधिकरणम् ॥ १ ॥
*असद्वा इदमग्र आसीत् । तदाहुः किम् तदासीदिति । ऋषयो वाव ते अग्रे सदासीत्तदाहुः के ते ऋषय इति । प्राणा वाव ऋषय*(शतपथ. ६-११) इति । जगदुत्पत्तेः प्राक् प्राणशब्दितानामिन्द्रियाणाम् सद्भाव-श्रवणात् प्राणोत्पत्तिवादिश्रुतयो जीवोत्पत्तिवादिश्रुतिवदन्यथा नेया इति पूर्वपक्षे प्राप्त उच्यते –
तथा प्राणाः ॥ २-४-१ ॥
वियदादिवत् प्राणशब्दवाच्यानीद्रियाण्युत्पद्यन्त एव । *सदेव सोम्येदमग्न आसीत्*(छान्.६-२-१), *आत्मा वा इदमेक एवाग्र आसीदि*(ऐत.१-१-१)त्यादिषु प्राक्सृष्टेरेकत्वावधारणात्, *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे*(मुण्ड.२-१-३)ति इन्द्रियाणामाहत्योत्पत्ति-श्रवणाच्च उत्पद्यन्त एव । न चेन्द्रियोत्पत्तिवादो जीवोत्पत्तिवदन्यथा नेयः बाधकाभावात् । *प्राणा वाव ऋषय*(शतपथ.६-११) इत्यत्र प्राण-शब्दस्य सार्वज्ञ्यवाचि ऋषिशब्दसमानाधिकृततया परमात्मवाचित्वे-नेन्द्रियवाचित्वाभावात् ।
कथम् तर्ह्येकस्मिन् परमात्मनि *प्राणा वा व ऋषय*(शतपथ.६-११) इति बहुवचनोपपत्तिरिति चेत् तत्राह –
गैण्यसम्भवात्तत्प्राक्छृतेश्च ॥ २-४-२ ॥
बहुवचनश्रुतिर्गौणी तत्र बहुत्वासम्भ
वात् । परमात्मन एव सृष्टेः प्रागवस्थानश्रुतेः तस्यैव प्राणशब्देन प्रतिपादनीयत्वात् ।
तत्पूर्वकत्वाद्वाचः ॥ २-४-३ ॥
वागादीन्द्रियस्य वागिन्द्रियकार्याभिलपनकर्मभूतनामवाच्यवियदादि-सृष्टिपूर्वकत्वात् प्रळये वागिन्द्रियादिकार्यशब्दाभिलापादिप्रयोजनाभावात् न प्रळये तेषामवस्थानमिति स्थितम् ॥
इति प्राणोत्पत्त्यधिकरणम् ॥ १ ॥