॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः
सप्तगत्यधिकरणम् ॥ २ ॥
सप्तगतेर्विशेषितत्वाच्च ॥ २-४-४ ॥
इन्द्रियाणि सप्तैव । *सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्त सप्ते*(मुण्ड.२-१-८)ति सप्तानामेव गतिश्रवणात् । *यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेते*(कठ.२-६-१)- तियोगदशायामिन्द्रियाणाम् परिगणितत्वाच्च सप्तैवेति प्राप्त उच्यते –
हस्तादयस्तु स्थितेऽतो नैवम् ॥ २-४-५ ॥
शरीरे स्थिते आदानादिकार्योपयोगित्वात् हस्तादयो हीन्द्रियाण्येव अतो नैवम् । *दशेमे पुरुषे प्राणा आत्मैकादश*(बृह.५-९-४) इति आत्मशब्देन मनोऽभिधीयते । *इन्द्रियाणि दशैकञ्च*(गी.१३-५), *एकादशम् मनश्चात्रे*(वि.पु.१-२-४७)ति श्रुतिस्मृतिभ्याम् इन्द्रियसङ्ख्या निश्चिता । न्यूनसङ्ख्यावादा उपकारविशेषाभिप्रायाः अधिकसङ्ख्यावादा मनोवृत्तिभेदादिति युक्तमाश्रयितुम् ॥
इति सप्तगत्यधिकरणम् ॥