॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः
तृतीयाध्यायस्य प्रथमः पादः ॥
अनिष्टादिकार्यधिकरणम् ॥३॥
अनिष्टादिकारिणामपि च श्रुतम् ॥३-१-१२॥
*ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ती* (कौषी.१-२)त्यविशेषश्रवणात् इष्टादिकारिणामिव अनिष्टादिकारिणामपि चन्द्रप्राप्ति-रस्त्येवेत्यर्थः । तर्हि सुकृतकारिणाम् दुष्कृतकारिणाम् च चन्द्रप्राप्तिसत्वे को विशेष इत्यत्राह –
सम्यमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥३-१-१३॥
तुशब्दशङ्काम् व्यावर्तयति । सम्यमने यमशासने सति इतरेषाम् अनिष्टादिकारिणाम् यमयातनाः अनुभूय चन्द्रारोहावरोहौ । *अयम् लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे*(कठ.१-२-६) इति अनिष्टादिकारिणाम् दुष्कृतकारिणाम् यमवश्यतादर्शनात् ।
स्मरन्ति च ॥३-१-१४॥
*सर्वे चैते वशम् यान्ति यमस्य भगवन् किल*(वि.पु.३-७-५) इति यमवश्यतास्मरणात् ॥
अपि सप्त ॥३-१-१५॥
पापकृताम् गन्तव्यत्वेन रौरवादीन् सप्तनरकानपि स्मरन्ति ।
ननु सप्तसु लोकेषु गच्छताम् कथम् यमसदनप्राप्तिस्तत्राह –
तत्रापि तद्व्यापारादविरोधः ॥३-१-१६॥
तेष्वपि सप्तसु यमाज्ञयैव गमनादविरोधः । अत अनिष्टादिकारिणामपि यमलोकम् प्राप्य स्वकर्मानुरूपम् यातनाश्चानुभूय पश्चात् चन्द्रारोहावरोहौ स्त इति प्राप्ते उच्यते –
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥३-१-१७॥
तुशब्दश्शङ्कानिवृत्यर्थः । देवयानपितृयाणे हि फलभूते विद्याकर्म-णोरित्यवसीयते । *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धाम् तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति*(छान्.५-१०-१) *अथ य इमे ग्राम इष्टापूर्ते दत्त-मित्युपासते ते धूममभिसम्भवन्ती*(छान्.५-१०-३)ति विद्याकर्मणी प्रकृत्य हि देवयानपितृयाणे आम्नायेते । अतो विद्याकर्मविधुरेष्व-निष्टादिकारिषु देवयानपितृयाणा सम्भवात् न चन्द्रप्राप्तिः । *ये वै के चास्माल्लोकात् प्रयन्ती*(कौषी.१-२)ति वचनम् इष्टादिकारिसर्वविषयम् नेतव्यम् ।
नन्वनिष्टादिकारिणाम् चन्द्रप्राप्त्यभावे पञ्चमाहुत्यसम्भवात् शरीरा-रम्भ एव नोपपद्यते तत्राह –
न तृतीये तथोपलब्धेः ॥३-१-१८॥
*अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावृत्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्येतत् तृतीयम् स्थानमि*(छान्.५-१०-८) ति तृतीयस्थानशब्दितानामनिष्टादिकारिणाम् क्षुद्रजन्तूनाम् च पञ्च-माहुत्यपेक्षा । तथा ह्युपलभ्यते *तेनासौ लोको न सम्पूर्यत*(छान्.५-१०-८) इति । तृतीयस्थानेन हि असौ चन्द्रलोको न प्राप्यत इति हि तस्यार्थः ।
स्मर्यतेऽपि च लोके ॥ ३-१-१९ ॥
केषाञ्चित्पुण्यकर्मणामपि द्रौपदीदृष्टद्युम्रप्रभृतीनाम् पञ्चमाहुत्यनपे-क्षयैव देहारम्भो भारतादिषु स्मर्यते ।
दर्शनाच्च ॥ ३-१-२० ॥
तेषाम् खल्वेषाम् भूतानाम् त्रीण्येव बीजानि भवन्ति । आण्डजम् जीवजमुद्भिज्जमि*(छान्.६-३-१)ति श्रुत्युपात्ताण्डजजीवजोद्भिज्जलक्षण-भूतजातिमध्ये केषाञ्चिदुद्धिज्जानाम् वृक्षादीनाम् पञ्चमाहुत्यनपेक्षा लोके दृष्टा ।
ननु *तेषाम् खल्वेषाम् भूतानाम् त्रीण्येवे*(छान्.६-३-१)त्यवधारणम् नोपपद्यते । स्वेदजानामत्रानुपात्तत्वात् तत्राह –
तृतीयशब्दावरोधस्सम्शोकजस्य ॥ ३-१-२१ ॥
सम्शोकजस्य स्वेदजस्यापि *आण्डजम् जीवजमुद्भिज्जमि*(छान्.६-३-१)त्यत्र तृतीयेनोद्भिज्जशब्देनावरोधस्सङ्ग्रहो विद्यत इत्यर्थः । अतः केवलपापकर्मणाम् चन्द्रप्राप्तिर्न भवतीति स्थितम् ।
इति अनिष्टादिकार्यधिकरणम् ॥