[highlight_content]

अन्याधिष्ठिताधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः

तृतीयाध्यायस्य प्रथमः पादः ॥

अन्याधिष्ठिताधिकरणम् ॥६॥

     *व्रीहियवा ओषधिवनस्पतयः तिलामाषा इति जायन्त*(छान्.५-१०-६) इत्यनेनानुशयिनाम् व्रीह्यादिभाव उच्यते । तत्र देवो जायते मनुष्यो जायत इतिवदिह *तिलमाषा इति जायन्त*(छान्.५-१०-६) इति श्रवणाद्वीह्यादि शरीरका एवानुशयिनो भवन्तीति प्राप्त उच्यते –

अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ३-१-२४ ॥

अवरोहताम् जीवानाम् जीवान्तराधिष्ठिते व्रीह्यादौ सम्श्लेषमात्रम् । कुतः? पूर्ववदभिलापात् । *आकाशाद्वायुम् वायुर्भूत्वा धूमो भवती*(छान्. ५-१०-५)त्यादौ आकाशादिभावे हेतुभूतकर्मकीर्तनाभावाद्यथा आकाशादिषु सम्श्लेषमात्रम्, एवम् व्रीह्यादिस्थावरभावहेतुभूतकर्मकीर्तनभावात् । उत्तरत्रैव *रमणीयचरणा अभ्याशो ह यत्ते*(छान्.५-१०-७)ति ब्राह्मणादिभाव एव हेतुभूतस्य कर्मणः कीर्तनात् व्रीह्यादौ जीवान्तराधिष्ठिते सम्श्लेषमात्रमेव ।

अशुद्धमिति चेन्न शब्दात् ॥ ३-१-२५ ॥

इष्टादिकर्मणाम् पशुहिम्सामिश्रत्वात् हिम्सायाश्च *न हिम्स्यादि*  ति निषिद्धत्वेनानिष्टसाधनत्वेन पापतया तन्मिश्रतया सुकृत-कर्मणामशुद्धत्वात् सुकृताम्शस्य फलम् स्वर्गेऽनुभूय हिम्साम्शस्य स्थावरादिभावलक्षणम् फलमवरोहन्ननुभवतु । ननु *न हिम्स्यादि*  ति निषेधः विहितक्रत्वर्थहिम्सा व्यतिरिक्तविषयोऽस्त्विति चेन्न । पुष्ट्यादिरूपेष्टसाधनघृतपानादौ मोहादिरूपानिष्टसाधनत्वस्य च दर्शनेनोत्सर्गापवादन्यायस्यात्रानवतारात् । अतो यागाद्यनुप्रविष्टहिम्सा-फलत्वेन स्थावरभावोऽनुभोक्तव्य इति चेन्न । प्रवर्तनानिवर्तनारूप-विधिनिषेधयोरविरोधस्य वक्तुमशक्यतया सति च विरोधे सामान्य-विशेषन्यायेन निषेधस्य विहितहिहिम्साव्यतिरिक्तविषयत्वात् । वस्तु-तस्तु यागीयपशुहिम्सायाः हिम्सात्वस्यैवाभावात् । *न वा उवेतन्म्रियसे न रिष्यसी*(तै.यजु.सम्.२-६-९-४९)ति मन्त्रवर्णाद्धिम्सात्वाभावस्यैव प्रतिपादनात् । न रिष्यसि न हिम्स्यसीति हि तस्यार्थः । ननु *न रिष्यसी*(तै.यजु.सम्.२-६-९-४९)ति मन्त्रवर्णाद्धिम्सात्वाभावाभ्युपगमेन *म्रियस*(तै.यजु.सम्.२-६-९-४९) इति मन्त्रवर्णात्तन्मरणस्य मरणत्व-मपि न स्यात् । ततश्च *न म्रियस*(तै.यजु.सम्.२-६-९-४९) इतिवन्न-
रिष्यसीत्युक्तिरप्यौप चारिकीत्येवाश्रयणीयम् । मरणोद्देश्यकमरणानुकूल-व्यापरत्वस्यैव हिम्सात्वरूपत्वादिति चेत् मरणोद्देश्यकमरणानुकूल-व्यापारत्वम् हिम्सात्वम् । कशाताडन तप्तसन्दाम्शिनीपाटनक्रकच- दारणादीनाम् मरणोद्देश्यक मरणानुकूलव्यापारत्वाभावेन हिम्सात्वा-भावप्रसङ्गात् । अतस्तीव्रदुःखजननौपयिकव्यापारत्वस्यैव हिम्सापद-प्रवृत्तिनिमित्तत्वे वक्तव्ये व्रणादिचिकित्सके तादात्विकतीव्र वेदनोत्पादके हिम्सकत्वव्यपदेशाभावेन बलवत्तद्धिताजनकत्वे सति तद्वेदनाजनक-व्यापारत्वम् तद्धिम्सात्वमित्याश्रयणीयम् । ततश्च व्रणचिकित्सया जायमानस्यारोग्यरूपहितस्य तादात्विकवेदनापेक्षया बलवत्त्वान्न हिम्सात्वमिति स्थिते पशुमरणानुकूलव्यापारस्य पशुवेदनाजनकत्वेऽपि स्वर्गप्राप्त्यादि लक्षणस्य पशुहितस्य बलवत्त्वान्न हिम्सात्वम् । अतः *न हिम्स्यादि* ति निषेधाविषयत्वात् क्रत्वर्थपशुहिम्साया न पाप-जनकत्वमिति तद्वशेनावरोहतोऽनुशयिनो न व्रीह्यादि भावापत्तिरिति ।

रेतस्सिग्योगोऽथ ॥ ३-१-२६ ॥

इतश्चौपचारिकम् व्रीह्यादिजन्मवचनम् । व्रीह्यादिभाववचनानन्तरम् *यो यो ह्यन्नमत्ति यो यो रेतस्सिञ्चति तद्भूय एव भवती*(छान्.५-१०-६)ति रेतस्सिग्भावोऽनुशयिनाम् श्रूयमाणो यथा न मुख्यः, एवम् व्रीह्यादिभावोऽपीत्यर्थः ।

योनेश्शरीरम् ॥ ३-१-२७ ॥

योनिप्राप्तेः पश्चादेवानुशयिनाम् ब्राह्मणादिशरीरप्राप्तिश्रवणात् ततः प्राक् न शरीरपरिग्रहः, किन्तु सम्श्लेषमात्रम् । यत्र पुण्यापुण्यकर्मणी तत्रैव सुखदुःखे । यत्र सुखदुःखे तत्रैव तद्धेतुभूतम् शरीरम् । ततश्चाकाशादिषु कर्मकीर्तनाभावेन तत्फलभूतसुखाद्यनुभवाभावात् न तद्धेतुभूतम् शरीर-मिति न योनिप्राप्तेः प्राक्छरीरपरिग्रह इति स्थितम् ॥

इति अन्याधिष्ठिताधिकरणम् ॥
***************
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य प्रथमः पादः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.