॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः
तृतीयाध्यायस्य प्रथमः पादः ॥
तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥
*यथैतमाकाशमाकाशाद्वायुम् वायुर्भूत्वा धूमो भवती*(छान्.५-१०-५) त्यादावाकाशादिभावोऽपि देवमनुष्यादिभाववत्तच्छरीरकत्वलक्षण एवा-स्त्विति पूर्वपक्षे प्राप्त उच्यते –
तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ३-१-२२ ॥
तत्स्वाभाव्यापत्तिः आकाशादिसादृश्यापत्तिरित्यर्थ: । स्वभाव एव स्वाभाव्यम् । *वर्तमानसामीप्य*(अष्टा.३-३-१३१) इत्यादिवत् स्वार्थिकः ष्यङ् । अतः तत्स्वाभाव्यापत्तिः तत्सादृश्यापत्तिरित्यर्थः । चन्द्रमण्डले शरीरारम्भकाणाम् भूतसूक्ष्माणाम् कर्मक्षये द्रवीभूतानामाकाशगतानाम् भेदकाकारप्रहाणेनाकाशादिसादृश्ये तदुपश्लिष्टानुशयिनोऽप्याकाशसमा भवन्तीत्यर्थः । कुतः? उपपत्तेः । सुखदुःखोपभोगाय हि तच्छरीरसम्सर्गः । नह्यनुशयिनम् प्रत्याकाशादेर्जीवान्तरशरीरभूतस्य तद्भोगाश्रयत्वमस्ति । युगपद्धोक्तृद्वयसमावेशे तयोः परस्परविरुद्धभोगार्थतया शरीरोन्मथन-प्रसङ्गात् । ननु अवरोहन्तो जीवा एव तत्तदभिमानिदेवता भवन्त्विति चेन्न । सर्गाद्यकालमारभ्याप्रलयमाकाशाद्यभिमानिदेवतानामनुशयिभ्यो-ऽन्यासाम् क्लृप्तानाम् सत्वेनानुक्षणमवरोहतामनुशयि नामाकाशाद्य-भिमानिदेवतात्वानुपपत्तेरिति स्थितम् ।
इति तत्स्वाभाव्यापत्त्यधिकरणम् ॥