॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः
तृतीयाध्यायस्य प्रथमः पादः ॥
तदन्तरपप्रतिपत्तयधिकरणम् ॥ १ ॥
लोकान्तरम् गच्छतो जीवस्य देहारम्भकभूतसूक्ष्माणाम् तत्रैव सुलभतया न भूतसूक्ष्मपरिष्वक्तया गमनमिति प्राप्त उच्यते –
तदन्तरप्रतिपत्तौ रम्हति सम्परिष्वक्तः
प्रश्ननिरूपणाभ्याम् ॥ ३-१-१ ॥
पूर्वत्र *सञ्ज्ञामूर्तिक्लृप्तिरि*(ब्र.सू.२-४-१७)ति सूत्रे मूर्तिशब्देन निर्दिष्टो देहस्तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ देहान्तरप्रति-पत्त्यर्थम् जीवो भूतसूक्ष्मैः परिष्वक्त एव रम्हति गच्छतीत्यर्थः । पञ्चाग्निविद्यायाम् *वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती*(छान्.५-३-३)ति पञ्चस्वप्याहुतिष्वप्छब्दितानाम् भूत-सूक्ष्माणाम् हूयमानतया सम्बन्धम् सिद्धवत्कृत्वैवापाम् पञ्चम्या-माहुतावापः पुरुषवचसो भवन्तीति कथम् *वेथ्थे*(छान्.५-३-३)ति प्रश्नात् द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपेष्वग्निष्वापश्श्रद्धासोमवृष्ट्यन्नरेतो-रूपेण हूयमानास्सत्यः पञ्चम्याम् रेत आहुतौ पुरुषाकारेण परिणम-न्तीति प्रतिवचनदर्शनाच्चाप्छब्दितभूतसूक्ष्मपरिष्वक्त एवारोहावरोहयो-स्सञ्चरतीति भावः ।
ननु *आपः पुरुषवचसो भवन्ती*(छान्.५-३-३)त्यपामेव पुरुषवच-स्त्वम् प्रतिपाद्यते न भूतान्तराणामिति तत्राह –
त्रयात्मकत्वात्तु भूयस्त्वात् ॥ ३-१-२ ॥
तुशब्दश्चोद्यव्यावृत्त्यर्थः । केवलानामपाम् देहारम्भात्मकत्वा-सम्भवेन त्र्यात्मकत्वादप्छब्दो भूतान्तरस्याप्युपलक्षकः । तर्हि कुतोऽप्छब्देन निर्देश इत्यत्राह – भूयस्त्वात् । तेजोबन्नलक्षणभूतत्रयमध्ये देहस्य लोहितप्रचुरतया अपाम् भूयस्त्वादप्छब्देन निर्देश इति भावः ।
प्राणगतेश्च ॥ ३-१-३ ॥
तमुत्क्रामन्तम् प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तम् सर्वे प्राणा अनूत्क्रामन्ती*(बृह.६-४-२)ति इन्द्रियाणामपि सहगतिश्रवणात् भूत-सूक्ष्मपरिष्वक्ततया जीवगमनाभावे निराश्रयाणामिन्द्रियाणाम् गमना-सम्भवात् भूतसूक्ष्मपरिष्वक्तस्यैव गमनमभ्युपगन्तव्यम् । *गृहीत्वैतानि सम्याति वायुर्गन्धानिवाशयादि*(गी.१५-७)ति इन्द्रियाणाम् च नयनस्य स्मरणात्तेषाम् चाश्रयतया भूतसूक्ष्माणाम् गतिरभ्युपगन्तव्या ।
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ३-१-४ ॥
*यत्रास्य पुरुषस्य मृतस्याग्निम् वागप्येति वातम् प्राणश्चक्षुरादि-त्यमि*(बृह.५-२-१३)त्यादिना प्राणानाम् मरणकाले अग्न्यादिष्वाप्यय-श्रवणान्न प्राणानाम् जीवेन सह गतिस्सम्भवतीति चेन्न, अग्न्यादिष्व-प्ययश्रवणस्य भाक्तत्वात् । *ओषधीर्लोमानि वनस्पतीन् केशा*(बृह.५-१-१३) इति लोमकेशानामप्योषधिवनस्पतिष्वप्यय श्रवणात् तस्य च प्रत्यक्षबाधितत्वेन ओषधिवनस्पतिषु लोमकेशाप्ययस्य भाक्तत्वस्याभ्यु-पगन्तव्यत्वात् तत्सहपठितानामग्न्यादिषु वागाद्यप्ययानामपि भाक्तत्व-मेव । ततश्च *अग्निम् वागप्येती*(बृह.५-२-१३)त्यस्यायमर्थः। *अग्नि- र्वाग्भूत्वा मुखम् प्राविशदि*(ऐत.१-२-४)ति अग्नेर्वागधिष्ठातृतया मुख-प्रवेशप्रतिपादनान्मरणकाले म्रियमाणपुरुषवागधिष्ठातृताम् परित्यज्यान-धिष्ठातृरूपेण वर्तत इति ।
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ३-१-५ ॥
यदुक्तम् प्रश्नप्रतिवचनाभ्याम् द्युपर्जन्यादिषु भूतसूक्ष्मपरिष्वक्तस्यैव जीवस्य गमनमिति तन्नोपपद्यते । *प्रणव एव विस्वर* इति न्यायेन प्रथमाहुतावेव *तस्मिन्नेतस्मिन्नग्नौ देवाश्श्रद्धाम् जुह्वती*(ऐत.१-२-४)ति प्रथमपर्याये श्रद्धाया एव होम्यत्व श्रवणेन अप्च्छब्दितभूतसूक्ष्माणाम् होम्यत्वाश्रवणादिति चेन्न । यदि प्रथमे पर्याये अच्छब्दितव्यतिरिक्तायाः श्रद्धाया होम्यत्वम् तर्हि प्रश्नप्रतिवचनयोः अपाम् पञ्चम्यामाहुताविति निर्देशो नोपपद्येत । अपाम् पञ्चमाहुतिसम्बन्धो हि (छान्.५-४-२) तदितराहुतिचतुष्टयसम्बन्ध एवोपपद्यते । बुद्धिविशेषलक्षणश्रद्धाया आत्मतो निष्कृष्य होमस्यानुपपत्तेश्च श्रद्धाशब्देन आप एवोच्यन्ते । *श्रद्धा वा आप*(तै.अष्ट.२-४-३३) इति श्रुतेः ।
अश्रुतत्वादिति चेन्न इष्टादिकारिणाम् प्रतीतेः ॥ ३-१-६ ॥
द्युपर्जन्यादिषु प्रश्नप्रतिवचनवशाद्भूतसूक्ष्माणाम् गमनसम्भवेऽपि न तत्परिष्वक्तस्य जीवस्य गमनम् अश्रुतत्वादिति चेन्न । उत्तरत्र पितृ-याणवाक्ये – *मासेभ्यः पितृलोकम् पितृलोकादाकाशमाकाशाच्चन्द्रम-समेष सोमो राजे*(छान्.५-१०-४)ति द्युलोकम् प्राप्तस्येष्टादिकारिणो जीवस्य सोमराजभावश्रवणादत्रापि *तस्या आहुतेस्सोमो राजा सम्भवती*(छान्.५-४-२)ति द्युलोकम् प्रविष्टानाम् भूतसूक्ष्माणाम् सोमराजभावश्रवणात्, अत्रापि *आपः पुरुषवचसो भवन्ती*(छान्.५-३-३) ति अप्छब्देन न केवलभूतसूक्ष्ममात्रमुच्यते अपि तु तत्परिष्वक्तो जीवः । पुरुषशब्दाभिलपनीयत्वमपि तत्परिष्वक्तस्य जीवस्यैव । ततश्च *आपः पुरुषवचसो भवन्ती*(छान्.५-३-३)त्यत्राबादिशब्दानाम् तत्परिष्वक्तजीव-परत्वात् भूतसूक्ष्मपरिष्वक्तस्यैव जीवस्य गमनम् सिद्धम् । ननु *तम् देवा भक्षयन्ती*(छान्.५-१०-१)ति सोमराजभावम् प्राप्तस्य भक्ष्यमाणत्व-श्रवणात् जीवस्यानदनीयत्वात् पितृयाणमार्गे सोमराजशब्दनिर्दिष्टो न जीव इत्यत्राह –
भाक्तम् वाऽनात्मवित्त्वात्तथाहि दर्शयति ॥ ३-१-७ ॥
देवभक्ष्यमाणत्ववचनम् भाक्तम् । केवलेष्टादिकारिणामनात्मवित्त्वात्, अनात्मविदाञ्च *यथा पशुरेवम् स देवानामि*(बृह.३-४-१०)ति श्रुति-दर्शनेन पशुवद्भोगोपकरणत्वात् *तम् देवा भक्षयन्ती*(छान्.५-१०-१) त्युक्तिरुपपद्यते । अतो भूतसूक्ष्मपरिष्वक्त एव जीवो गच्छतीति स्थितम् ।
इति तदन्तरप्रतिपत्त्यधिकरणम् ॥