॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः
तृतीयाध्यायस्य प्रथमः पादः ॥
नातिचिराधिकरणम् ॥५॥
आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किम् तत्र तत्र नातिचिरम् तिष्ठति उतानियम इति विशये नियमहेत्वभावादनियम इति प्राप्त उच्यते –
नातिचिरेण विशेषात् ॥३-१-२३॥
आकाशादितो नातिचिरेण निष्क्रमणम् । कुतः? विशेषात् । उत्तरत्र व्रीह्यादिप्राप्तौ *अतो वै खलु दुर्निष्प्रपतरमि*(छान्.५-१०-६)ति विशिष्य कुच्छ्रनिष्क्रमणाभिधानादिति स्थितम् ।
इति नातिचिराधिकरणम् ॥