॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः
अहिकुण्डलाधिकरणम् ॥ ६ ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ ३-२-२६ ॥
*द्वे वाव ब्रह्मणो रूपे*(बृह.४-३-१)इत्यादिनोक्तमचिद्वस्तुनो ब्रह्मरूपत्वम् किम् ब्रह्मस्वरूपस्यैवाचिद्रूपेण परिणामाद्भवति उत परस्मिन् ब्रह्मणि अचिद्वस्तुनि च एकजातियोगात् उत जीववद्ब्रह्मशरीरतया ब्रह्मविशेषण-त्वेनेति सम्शयः ।
भिन्नाभिन्नत्वरूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमत इति प्रथमःपक्षः ।
तथा सति ब्रह्मणो निर्दोषता बाध्यत इति एकजातियोगेनेति द्वितीयः पक्षः । एवम् सति *आत्मैवेदम् सर्वम्*(छान्.७-२५-२) ‘*ब्रह्मैवेदम् सर्वमि*(बृह.४-५-१)ति ब्रह्मस्वरूपस्यैव सर्वशब्दवाच्यत्वव्यपदेशबाध-स्स्यात् । न ह्येकैव गोव्यक्तिः खण्डो गौरित्यादिसर्वगोव्यक्तिवाचि-शब्दैरभिधीयते ।
अतो जीवस्येव ब्रह्मशरीरतया ब्रह्मविशेषणत्वेनाचिद्वस्तुनो ब्रह्माम्शत्वमिति राद्धान्तः । सूत्रार्थः – तुशब्दोऽवधारणे । अहे: कुण्डलभावादिवत् ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थानम् नानात्वैकत्व-रूपोभयव्यपदेशात् ।
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ३-२-२७ ॥
वाशब्दोऽनन्तरोक्तव्यावृत्त्यर्थः । यथा प्रकाशतदाश्रययोस्तेजस्त्वेनैक-जातियोगादभिन्नत्वमेवमचिद्ब्रह्मणोरपि ।
पूर्वावद्वा ॥ ३-२-२८ ॥
वाशब्दः पक्षद्वयव्यावृत्त्यर्थः । पूर्ववद्यथा *अम्शो नानाव्यपदेशात्* (ब्र.सू.२-३-४२), *प्रकाशादिवत्तु नैवम् पर*(ब्र.सू.२-३-४५) इत्युभयव्यप-देशोपपत्ते ब्रह्मणो निर्दोषत्वसिद्धये च प्रकाशजातिगुणशरीरवत् पृथक्सि-ध्यनर्ह विशेषणतया जीवस्य ब्रह्माम्शत्वमुक्तम् । एवमचिद्वस्तुनोऽपि अचिद्वस्तुवाचिशब्देनाचिद्वस्तुविशिष्टम् ब्रह्मैवाभिधेयमिति *आत्मैवेदम् सर्वमि*(छान्.७-२५-२)त्यभेद व्यपदेशोपपत्तिः, विशेषणविशेष्ययो-स्स्वरूपस्वभाव भेदज्ञापनाय विशेषणविशेष्ये निष्कृष्य भेदेन व्यपदेश-श्चोपपद्यते ब्रह्मणो निर्दोषत्वञ्च ।
प्रतिषेधाच्च ॥ ३-२-२९ ॥
*स वा एष महानज आत्मा विजरो विमृत्युः*(बृह.६-५-२२) *नास्य जरयैतज्जीर्यति*(छान्.८-१-५) *विजरो विमृत्युरि*(छान्.८-७-१)त्यादि ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यभावेनैव अम्शाम्शिभाव इत्यर्थः ॥
इति अहिकुण्डलाधिकरणम् ॥