॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः
कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥३॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥३-२-९॥
सुप्तस्य मुक्ताविषयतया ब्रह्मणि लीनस्य पुनर्देहसम्बन्धाभावादन्य एवोत्तिष्ठति सुप्तिरहितपुरुषेषु वैदिककर्मणाञ्च साफल्यम् भविष्यतीति प्राप्त उच्यते – स एव तु – स एवोत्तिष्ठति । कुतः? कर्मानुस्मृतिशब्द-विधिभ्यः । सुप्तेः प्राकृतम् कर्म तेनैव भोक्तव्यम् । अन्यथा कृतहानादि-प्रसङ्गात् । *योऽहम् सुप्तस्सोऽहम् जागर्मी*ति अनुस्मृते: *त इह व्याघ्रो वा सिह्यो वे*(छान्.७-१०-१)त्यादिशब्दान्मोक्षार्थविधि वैयर्थ्य-प्रसङ्गाच्च न सुषुप्तिर्मुक्तितुल्या । अत एव प्रजापतिविद्यायाम् *नाह खल्वयमेवम् सम्प्रत्यात्मानम् जानामी*(छान्.६-९-३)ति अज्ञत्वेन सुप्तिर्निन्द्यते । *मनसैवैतान् कामान् पश्यन् रमत*(छान्.८-१२-५) इति मुक्तिस्तद्विलक्षणतया प्रतिपाद्यते । अतो न सुप्तिर्मुक्तिरिति स एवोत्तिष्ठतीति ततश्च स एवाहमस्मीति प्रत्यभिज्ञावशात् सुप्तौ लयो न पुनरुक्तविरोधीति भावः ॥
इति कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥