॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः
तदभावाधिकरणम् ॥ २ ॥
*तद्यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्नः किञ्चिन्न विजानाति आसु तदा नाडीषु सृप्तो भवति ताभिः प्रत्यवसृप्य पुरीतति शेते*(छान्.८-६-३) *य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते*(बृह.४-१-१७, बृह.४-४-२२) इति नाडीपुरीतद्ब्रह्मणाम् सुषुप्तिस्थानत्वश्रवणात् समुच्चये सप्तम्यवगत-निरपेक्षाधारत्वप्रतीतिभङ्गप्रसङ्गात् युगपदनेकस्थानवृत्त्यसम्भवाच्च विकल्प इति पूर्वपक्षे प्राप्त उच्यते –
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ३-२-७ ॥
तदभाव: पूर्वनिर्दिष्टस्वप्नाभाव: सुषुप्तिरिति यावत् । नाडीषु आत्मनि परमात्मनि चकारात्पुरीतति चेत्यर्थः । तच्छ्रुतेः पूर्वोदाहृतवाक्येषु नाडी-पुरीतद्ब्रह्मणाम् त्रयाणामपि सुषुप्तजीवाधारत्वश्रुतेरित्यर्थः । नाडीमार्गेणैव गत्वा पुरीतदाख्यम् हृदयवेष्टनमाम्सपिण्डम् तत्र हृदयान्तर्वर्तिनि ब्रह्मणि शयाने जीवे, प्रसादे शेते, खट्वायाम् शेते, पर्यङ्के शेत, इतिवन्नाडीषु शेते, पुरीतति शेते, ब्रह्मणि शेत इति निर्देशात् त्रयस्याप्युपपत्तेः समुच्चये सम्भवति पाक्षिकबाधगर्भो विकल्पो नाङ्गीकार्य: । साक्षात् स्थानम् तु ब्रह्मैवेति ।
अतः प्रबोधोऽस्मात् ॥३-२-८॥
यतः ब्रह्मैव सुषुप्तिस्थानम् अत एव सुप्तस्य *सत आगम्य न विदुरि* (छान्.६-१०-२)ति ब्रह्मण एव नित्यवत् प्रबोधश्श्रूयमाण उपपद्यते इति सिद्धान्तः ॥
इति तदभावाधिकरणम् ॥