॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः
फलाधिकरणम् ॥ ८ ॥
ऐहिकामुष्मिकम् शास्त्रीयम् फलम् कर्मण एव स्यात् तस्य फल-साधनत्वश्रवणादिति पूर्वपक्षे प्राप्तेऽभिधीयते –
फलमत उपपत्तेः ॥३-२-३७॥
कर्मभिराराधितादस्मादेव परमपुरुषात्फलम् । सर्वज्ञस्य सर्वशक्तेः ब्रह्मणस्सेवाराधितराजवत्फलप्रदत्वोपपत्तेः ।
श्रुतत्वाच्च ॥ ३-२-३८ ॥
स वा एष महानज आत्माऽन्नादो वसुदान*(बृह.६-४-२४) इति तस्यैव फलप्रदत्वस्य श्रुतत्वात् ।
पूर्वपक्षमाह –
धर्मम् जैमिनिरत एव ॥ ३-२-३९ ॥
कर्मोपासनरूपाराधनात्प्रसन्नस्य परमपुरुषस्य फलदातृत्वे कर्मानु-ष्ठानन्तरमेव प्रसादो वक्तुम् न न शक्यते परमस्वतन्त्रस्य प्रसादे सति फलविळम्बायोगात् कीर्तनादिना फलजननाभावप्रसङ्गाच्च । भावि-सङ्कीर्तनेन फलजननमनुसन्धाय हठात्प्रसीदतश्च असार्वज्ञ्यप्रसङ्गात्, प्रयाजानुष्ठानानन्तरमेव प्रधानानुष्ठाने अङ्गान्तरवैकल्येऽपि फलनिष्पत्ति-प्रसङ्गात् सर्वेश्वरप्रसादस्य वन्ध्यत्वायोगात् । तस्मात्कर्माभिरपूर्वे निष्पन्ने तस्य सङ्कीर्तनादिना नाशहेतुरहितस्य फलजननौन्मुख्ये सति परमपुरुष: प्रसीदतीति वक्तव्यम् । ततश्च अवश्याभ्युपगतापूर्वेणैव निर्वाहे किमीश्वरद्वारप्रसादकल्पनया । न च *तृप्त एवैनमि*(तै.यजु.सम्)त्यादि- वाक्यशेषश्रुतदेवताप्रसादकल्पनमयुक्तमिति वाच्यम् । कृषिकर्मणि *साहाय्यम् कृतवद्धिर्भवद्भिरेवेदम् फलम् दत्तमि*ति प्रशम्सावाक्यवत् तादृशवाक्यशेषस्य कर्माङ्गभूतदेवताप्रसादपरत्वोपपत्तेः । तस्मात् यागदानाख्यधर्ममेव जैमिनिः फलप्रदम् मन्यते । अत एव उपपत्ते-श्शास्त्राच्च कृष्यादीनाम् फलसाधनत्ववत् यागदानादीनाम् विनश्वराणा-मप्यपूर्वद्वारेण फल साधनत्वोपपत्तेः *यजेत स्वर्गकाम*(तै.यजु.सम्.२-५-५) इति विधिप्रत्ययेन प्रकृत्यर्थयागस्यैव फलसाधनत्वश्रवणात् ।
पूर्वम् तु बादरायणो हेतुव्यपदेशात् ॥ ३-२-४० ॥
बादरायणस्त्वाचार्यः पूर्वोक्तमेव परमात्मनः फलप्रदत्वम् मन्यते । हेतुव्यपदेशात् *यज देवपूजायामि*(धातुपाठ: भ्वादिः)ति प्रीतिहेतुत्व-वाचिना पूजाशब्देन यागस्य देवताप्रीतिहेतुव्यपदेशात्, *स एवैनम् भूतिम् गमयती*(तै.यजुः कां.२- प्र.१.पं.१)त्यादिकर्मविधिशेषवाक्येषु कर्मारा-धितदेवताया एव यागादेः प्रीतिहेतुत्वावगमात् *अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभुरेव चे*(गी.९-२४)ति फलप्रदायित्वलक्षणप्रभुत्वस्य परमा-त्मन्येव स्मृतत्वात्, आशुविनश्यतः कर्मणो विधिवाक्य श्रुतकालान्तर-भाविफलसाधनत्वनिर्वाहाय द्वारापेक्षायाम् वाक्यशेषप्रतिपन्नदेवताप्रीति-रूपद्वारपरित्यागेन आत्मसमवेतादृष्टरूपद्वारपरिकल्पनस्यानुचितत्वात् कर्मप्रीतः परमात्मैव फलप्रद इति स्थितम् ॥
इति फलाधिकरणम् ॥
****************
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः ॥