॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः
मुग्धधिकरणम् ॥४॥
जाग्रत्स्वप्नसुषुप्तिानामन्यतमो मोह इति पूर्वपक्षे प्राप्त उच्यते –
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ ३-२-१० ॥
न तावन्मुग्धो जागरितावस्थो भवितुमर्हति इन्द्रियैर्विषयानिरीक्षणात् । नापि स्वप्नान् पश्यति निस्सञ्ज्ञत्वात् । नापि मृतः तस्य प्राणो-ष्मणोरभावात् । न च सुषुप्तः तद्वैलक्षण्यात् । सुप्तो हि प्रसन्नवदनो निमीलितनेत्रश्च । तस्मान्मोहो नाम मृतेरर्धसम्पत्तिः अर्धमृतिरिति यावत् । मरणम् हि सर्वप्राणवियोगः । सर्वप्राणवियोगोपक्रमकतिपय-प्राणसम्पत्तिर्मूर्च्छा । तत्रौषधादिवशात् कर्मशेषे च सति वाङ्मनसे प्रत्यागच्छतः । असति तस्मिन् प्राणोष्माणावप्यपगच्छतः । तस्मादर्धमृतिर्मूर्च्छेति स्थितम् ॥
इति मुग्धाधिकरणम् ॥