॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
कार्याख्यानाधिकरणम् ॥ ५ ॥
*लम्भुको ह वासो भवती*(छान्.५-२-२)त्यर्थवादोपबृम्हितात् *किम् मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चो-परिष्टाच्च अद्भिः परिदधती*(छान्.५-२-२)ति छान्दोग्ये श्रवणात् अपाम् वासस्त्वानुसन्धानम् प्रतीयते । बृहदारण्यके काण्वशाखायाम् – *आपो वास इति तद्विद्वाम्सः श्रोत्रिया अशिष्यंत आचामन्ति अशित्वा चाचा-मन्ति एतमेव तदनमनग्नम् कुर्वन्तो मन्यन्ते तस्मादेवम्विदशिष्य-न्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नम् कुरुत*(बृह.८-१-१४) इति अनग्नत्वचिन्तनात् वासस्त्वचिन्तनविधिरपि प्रतीयते । *आचामेदि* (बृह.८-१-१४)ति आचमनविधिप्रत्ययश्रवणात् आचमनविधिस्स्पष्टम् प्रतीयते । तत्र च द्वयोरपि विधेयत्वे गौरवात् एकस्यैव विधेयत्वे वक्तव्ये *आचामेदि*(बृह.८-१-१४)त्याचमने स्पष्टविधिश्रवणात् स्मृत्याचारप्राप्ता-चमनातिरिक्तम् आचमनान्तरम् विधीयते । वासस्त्वादिश्रवणम् तु कथञ्चित् स्तुतिरूपतया नेतव्यमिति प्राप्तेऽभिधीयते –
कार्याख्यानादपूर्वम् ॥३-३-१८॥
विधेरप्राप्तविषयत्वस्वाभाव्यात् आचमनस्य स्मृत्याचाराभ्यामेव प्राप्तत्वात् आचमनान्तरविधाने विनिगमकानुपलम्भात् अप्राप्तम् आचमनीयास्वप्सु वासस्त्वानुसन्धानम् विधीयते । छान्दोग्ये आचमनस्यैवाप्रतीतेः शाखान्तरेति वासस्त्वानुसन्धानस्यानुगतत्वात् तदेव विधीयत इति सिद्धान्तः ।
इति कार्याख्यानाधिकरणम् ॥