[highlight_content]

पूर्वविकल्पाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

पूर्वविकल्पाधिकरणम् ॥२०॥


पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् ॥३-३-४४॥

    तत्र मनश्चितादयो विद्यामयाग्नयः क्रियामयक्रत्वङ्गतया क्रिया । एवम् एषाञ्च विहितानाम् फलाकाङ्क्षायाम् पूर्वत्र *असद्वा इदमग्र आसीदि*(तै.आन.७-१)तीष्टकचिताग्नेः  प्रस्तुतत्वात् तस्य च क्रत्वव्यभिचारित्वेन क्रतूपस्थापकत्वात् तेन च क्रतोस्सन्निहिततया सन्निहितेन क्रतुना एकवाक्यतैव कल्प्यते । न च तस्य क्रतोरिष्ट-कचिताग्न्यावरुद्धत्वात् कथम् तत्र विद्यामयस्य मनश्चितादेरग्नेस्समावेश इति वाच्यम् । विकल्पेन समावेशोपपत्तेः । न चैककार्यत्व एव विकल्प- स्यात् न हीष्टकचिताग्नेः विद्यामयमनश्चिताद्यग्नेश्चैककार्यत्वम् सम्भवति इष्टकचिताग्निकार्यस्याग्निधारणस्य विद्या मयैर्मनश्चितादिभिः कर्तुमशक्यत्वादिति वाच्यम् । *अभागिप्रतिषेधादि*(जै.मी.सू.१-२-५)ति सूत्रे वार्तिके *पशुकामश्चिन्वीते* त्यग्नेः पश्वर्थत्वश्रवणात् पश्चादि-लक्षणफले विद्यामयस्यापि साधनत्वसम्भवात् विकल्पोपपत्तेः । न च विद्यारूपस्य क्रियाङ्गत्वम् न दृष्टमिति वाच्यम् । द्वादशाहे दशमेऽहनि अविवाक्यनामके विहितस्य मानसग्रहस्य विद्यामयस्यापि क्रियामय-क्रत्वङ्गत्वदर्शनात् ॥

अतिदेशाच्च ॥ ३-३-४५॥

*तेषामेकैक एव तावान्यावानसौ पूर्व*(अग्निरहस्यम्) इति विद्या-मयेषु मनश्चितादिषु इष्टकचिताग्निकार्यातिदेशात् तद्वदेव क्रियामयक-तूपकारका इति प्राप्त उच्यते –

विद्यैव तु निर्धारणाद्दर्शनाच्च ॥३-३-४६॥

मनश्चितादिः विद्यैव विद्यामयक्रत्वङ्गभूतेत्यर्थः । विद्यारूपत्वस्य पूर्वपक्षेऽपि सत्वेन तस्यास्साधनीयतया विद्याशब्दस्य विद्यामयक्रतुशेष-त्वार्थकत्वस्यैव युक्तत्वात् । निर्धारणात् – विद्याचित एवेति निर्धारणा-दित्यर्थ: । विद्यामयानामेव मनश्चितादीनाम् विद्याचित एवेत्युक्तिश्शेषि-णोऽपि विद्यामयत्वमेव न क्रियामयत्वमिति प्रतिपादयति । न च विद्यामय एव क्रतुरित्यत्र न दृश्यत इति वाच्यम् । *यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञीयम् कर्मे*(अग्निरहस्यम्)ति वाक्येन यज्ञानाम् तदङ्गानाञ्च मनोमयत्वप्रतिपादनेन विद्यामयक्रतोर्दर्शनाच्च विद्यामय-क्रतुशेषत्वमेवेत्यर्थः ।
ननु *यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञीयम् कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयः क्रियत*(अग्निरहस्यम्) इत्यत्र विद्यामयक्रतुप्रतीतावपि विध्यश्रवणात् न विद्यामयक्रतुशेषता, अपि तु पूर्वप्रस्तुतेष्टकचित्यग्न्युपस्थितत्वात्तच्छेषतैव उचिता अतो विद्यामय-क्रतुशेषता बाध्यत इत्यत्राह –

श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥३-३-४७॥

श्रुतिलिङ्गवाक्यानाम् प्रकरणात् बलीयस्त्वेन श्रुत्याद्यवगतस्य  विद्यामयक्रत्वन्वयस्य प्रकरणेन न बाधः कर्तुम् शक्यते । *विद्यया हैवेते एवम्विदश्चिता भवन्ती*(अग्निरहस्यम्)ति वाक्यगता विद्ययेति तृतीया श्रुतित्वेन विवक्षिता । न तु तृतीयायाश्शेषत्वश्रुतित्वेऽपि न शेषित्व-श्रुतित्वम् अतो विद्ययेति तृतीयाश्रुत्या न विद्यामयक्रतोश्शेषित्वम् प्रतिपादयितुम् शक्यत इति चेत्तर्हि *ते है ते विद्याचित एव विद्यया है वैते एवम् विदश्चिता भवन्ती*(अग्निरहस्यम्)ति वाक्यद्वयगत एवकारः श्रुतित्वेन विवक्षितोऽस्तु । ततश्चेवकारश्रुत्या विद्याव्यतिरिक्तक्रियामय-क्रतुशेषत्वे व्युदस्ते विद्यामयक्रतुशेषत्वमर्थात्सिध्यति । तथा *तान्  हैतानेवम्विदे सर्वाणि भूतानि विचिन्वन्ती*(अग्निरहस्यम्)ति सर्व-भूतकालव्यापि चयनस्य मनसा सम्पाद्यस्य परिमितकर्तृकक्रियामय-क्रत्वनुप्रवेशासामर्थ्यात् सामर्थ्यलक्षणलिङ्गविरोधेन क्रियामयक्रत्वनुप्रवेशे व्युदस्ते विद्यामयक्रतुशेषत्वम् सिध्यति । तथा *एवम्विदे सर्वाणि भूतानि विचिन्वन्ती*(अग्निरहस्यम्)ति विद्यासमभिव्याहाररूपवाक्य-वशादपि विद्यामयक्रतुशेषत्वसिद्धिः ।
ननु एवम्विद इति चुतर्थी श्रुत्यैव विद्यायाश्शेषित्वावगमात् समभि-व्याहारलक्षणवाक्यस्य विद्यामयक्रतुशेषत्वम् कुतोऽभ्युपेयमिति चेत् *एवम्विद*(अग्निरहस्यम्) इति चतुर्थीश्रुत्या विद्यावतश्शेषित्वबोधनेऽपि विद्यायाश्शेषित्वाबोधनेन वाक्येनैव विद्यामयक्रतोशेषत्वस्य बोधनीयत्वात् ।
ननु विद्यामयक्रतौ विध्यनुपलम्भात् कथम् तच्छेषत्वमित्यत्राह –

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ॥३-३-४८ ॥

यज्ञानुबन्धिग्रहस्तोत्रशस्त्रादीनाम् *मनसाऽस्तुवत मनसाऽशम्सन्नि* (अग्निरहस्यम्)त्यादिना आम्नातत्वात् तेषाम् च क्रत्वव्यभिचारित्वात् क्रियामयस्य च क्रतोरसम्भवस्योक्तत्वात् विद्यामयक्रतुविधिरुन्नीयते । यथा *स यदि सोमम् बिभक्षयिषेत् न्यग्रोधस्तिभिनीराहृत्य तास्सम्पि-ष्यदधन्युन्मृज्य तमस्मै भक्षम् प्रयच्छेत् न सोममि* त्यत्र यागार्थद्रव्यसम्स्कारभक्षणसङ्गत्या स्तिभिनीचमसेषु यागान्वयकल्प-नस्य दृष्टत्वात् । अनुबन्धादीत्यादिशब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते । प्रज्ञान्तरपृथक्त्ववत् – यथा प्रज्ञान्तर दहरविद्यादिकम् क्रियामयात् क्रतोः पृथग्भूतम् श्रुत्यादिभिरवगम्यते, एवमनुबन्धादिभिर्विद्यामयः क्रतुः कल्प्यत इत्यर्थः । दृष्टश्चानुवादसरूपेषु कल्प्यमानो विधिः । तदुक्तम् *वचनानि त्वपूर्वत्वादि*(जै.मी.सू.३-५-२१)ति ॥

ननु *तेषामेकैक एव तावान्यावानसौ पूर्व*(अग्निरहस्यम्) इत्य-तिदेशेन प्रकृतेष्टकचिताग्नितुल्यत्वावगमात् क्रियामयक्रत्वनुप्रवेशोऽव-गम्यत इति चेत्तत्राह –

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ३-३-४९ ॥

न ह्यतिदेशबलात् सर्वथा साम्यम् वक्तव्यम् । येन क्रियामयक्रत्व-नुप्रवेशस्स्यात् । स्वशेषिभूतक्रतुद्वारा फलजनकत्वरूपविवक्षितसामान्य-मात्रेणाप्यतिदेश उपपद्यते । *स एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुष*  इत्यत्र सम्हर्तृत्वसामान्यविवक्षयाऽपि मृत्युशब्दः प्रयुक्तः । न तु सर्वथा साम्यम् विवक्षित्वा । तथात्वे मृत्युवन्मण्डलपुरुषस्यापि मृत्युलोकप्राप्तिस्स्यात् । अतो विवक्षितसाधर्म्यमात्रेणापि *तेषामेकैक एव तावानि*(अग्निरहस्यम्)त्यतिदेश उपपद्यते ।

परेण च शब्दस्य तद्विध्यम् भूयस्त्वात्त्वनुबन्धः ॥३-३-५०॥

परेण च ब्राह्मणेन अस्यापि मनश्चिताद्यभिधायिनश्शब्दस्य ताद्विध्यम् तद्विधत्वम् विद्यामयप्रतिपादकत्वमवगम्यते । परस्मिन् हि ब्राह्मणे *अयम् वाव लोक एषोऽग्निश्चितस्तस्याप एव परिश्रितो मनुष्या यजुष्मत्य इष्टका*(अग्निरहस्यम्) इत्यारभ्य “सर्वोऽग्निर्लोकम् पृणाम-भिसम्पद्यते स यो हैतदेवम् वेद लोकम् पृणामेनम् भूतमेतत्सर्वमभि-सम्पद्यत’*(अग्निरहस्यम्) इति सर्वभूताभिसम्पत्तिफलायाः क्रियामय क्रत्वनङ्गभूताया विद्यायाः प्रतिपादनदर्शनेन मनश्चितादीनाम् साम्पादि-काग्नीनाम् न क्रियामय क्रत्त्वनुप्रवेशित्वम् ।
ननु मनश्चितादीनाम् क्रियानुबन्धाभावे अग्निरहस्ये कर्मकाण्डे-ऽनुबन्धः किमर्थमित्यत्राह भूयस्त्वात्त्वनुबन्धः – मनश्चितादिषु सम्पादनीयानामग्न्यङ्गानाम् भूयस्त्वात् तत्सन्निधाविहानुबन्धः कृत इति स्थितम् ॥

इति पूर्वविकल्पाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.