[highlight_content]

प्रदानाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

प्रदानाधिकरणम् ॥ १८ ॥

     तद्य इहात्मानमनुविद्य व्रजन्ती*(छान्.८-१-६)ति दहराकाशो-पासनमुक्त्वा *एताम्श्च सत्यान्कामान्*(छान्.८-१-६) इत्यपहतपाप्म-त्वादिगुणानामुपासनस्य पृथगभिधानाम्नानादपहतपाप्मत्वादिगुणो-पासनदशायाम् न धर्मिस्वरूपम् चिन्तनीयम् । ततश्च प्रथमम् दहरा-काशाख्यम् धर्मिस्वरूपमनुसन्धाय तस्यापहतपाप्मत्वविजरत्वविशोकत्व-सत्यकामत्वसत्यसङ्कल्पत्वरूपाः कामा इत्येव चिन्तनीयम् । न तु *अपहत पाप्मा विजरो विमृत्युरि* (छान्.८-१-५)ति गुणिनोऽपि चिन्तनमिति पूर्वपक्षे प्राप्त उच्यते –

प्रदानवदेव तदुक्तम् ॥ ३-३-४२ ॥

यद्यपि दहराकाश एव अपहतपाप्मत्वादिगुणानाम् गुणी । स च प्रथमम् चिन्तितः तथाऽपि स्वरूपमात्रात् गुणविशिष्टाकारस्य भिन्नत्वात् प्रकृते च *अस्मिन्कामास्समाहिता*(छान्.८-१-६) इति ब्रह्मणि काम-समाधानमुक्त्वा के ते कामा इत्याकाङ्क्षायाम् निष्कृष्य अपहतपाप्म-त्वम् विजरत्वमित्यनुक्त्वा *अपहतपाप्मा विजरो विमृत्युरि*(छान्.८-७-१)ति तत्तद्विशिष्टविशेष्यपर्यन्ततया निर्देशादनेनैवाकारेणानुसन्धानम् कर्तव्यमिति श्रुतेराशय उन्नीयते । अतो वैशिष्ट्यानुसन्धानार्थम् विशेष्यचिन्तनमप्यावर्तनीयम् । प्रदानवत् – तदुक्तम् साङ्कर्षे *नाना वा देवता पृथक्त्वादि*(सङ्कर्षणकाण्ड १४-२-१४-१५)ति । प्रतिपादितम् नानाप्रदानाधिकरणमित्थमस्ति । त्रैधातवीयेष्टिः *इन्द्राय राज्ञे पुरोडाश-मेकादशकपालम् निर्वपेत् इन्द्रायाधि राजायेन्द्राय स्वराज्ञ*(तै.यजु.सम्. २-३-६) इति त्रिपुरोडाशा । तेषाम् पुरोडाशानामुपर्युपर्यधिश्रयणम् सर्वेषु युगपदवदानञ्च विहितम् । तेषाम् पूर्वार्धादवदानम् प्रकृतिवत् कर्तुम् शक्यम् तथा मध्यादवदानम् कर्तुमशक्यम् पुरोडाशानाम् मध्ये नळक-प्रवेशाद्युपायेन मध्यादपि युगपदवदानम् ग्राह्यम् । एवम् स्थिते प्रदान-मपि युगपत् कर्तव्यम् क्रमेण वेति सम्शये *तेषाम् पृथक्प्रदानमव-दानैकत्वादि* ति सूत्रेण अवदानवत्प्रदानमपि युगपदेव कर्तव्य-मिति पूर्वपक्षः । तत्रेदम् सिद्धान्तसूत्रम् *नाना वा देवता पृथक्त्वादि*  (सङ्कर्षणकाण्ड १४-२-१४-१५)ति । त्रयाणाम् युगपद्द्रव्याणाम् भेदा-द्विशिष्टरूपाणाम् देवतानाञ्च भेदात् त्रिभिर्द्रव्यदेवतासम्बन्धैः कल्प्या-नाञ्च यागानाम् भेदात्तत्तद्देवतोद्देशेन क्रमिकाणि प्रदानानि कर्तव्यानीति सूत्रार्थः ॥

इति प्रदानाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.