॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
भूमज्यायस्त्वाधिकरणम् ॥ २३ ॥
छान्दोग्ये वैश्वानरविद्यायाम् द्युमूर्धादिव्यस्तोपासनेषु औपमन्यवादि-भिरुक्तेषु *अत्यन्नम् पश्यति प्रियम् भवत्यस्य ब्रह्मवर्चसम् कुले य एते वैश्वानरमुपास्त*(छान्.५-१२-२) इति व्यस्तोपासनेषु फलश्रवणाद्व्यस्तो-पासनमेव प्रामाणिकम् । *यस्त्वेतमेवम् प्रादेशमात्रमभिविमानमात्मानम् वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ती* (छान्.५-१८-१)ति व्यस्तोपासनसमुदायानुवाद एव । न तु समस्तो-पासनविधिः । अथवा अनेन वाक्येन समस्तोपासनमपि विधीयते । अतो द्वयमपि प्रामाणिकम् । अल्पफलार्थिभिर्व्यस्तोपासनम् कर्तव्यम् । फलभूमार्थिभिस्तु समस्तोपासनम् कर्तव्यमिति पूर्वपक्षः । सिद्धान्तस्तु –
भूम्नः क्रतुवज्ज्यायस्त्वम् तथा हि दर्शयति ॥३-३-५५॥
भूम्नस्सामन्यस्य ज्यायस्त्वम् प्रामाणित्वकम् । तथा हि दर्शयति श्रुतिः व्यस्तोपासनेऽनर्थम् ब्रुवती । *मूर्धा ते व्यपतिष्यद्यन्माम् नाग-मिष्य*(छान्.५-१२-२) इति *अन्धो भविष्यो यन्माम् नागमिष्य*(छान्. ५-१३-२) इति । नचेदम् *न हि निन्दा* न्यायेन समस्तोपासनप्रशम्सा-र्थमेव किम् न स्यादिति वाच्यम् । अग्निहोत्रम् प्रकृत्य श्रुतेन *र्जति-लयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा न ग्राम्यान् पशून् हिनस्ति नारण्यानि*(तै.यजु.सम्.५-४-३)ति वाक्येन र्जतिलगवीधुकशब्दवाच्या-रण्यतिलारण्यगोधूमकृतयवाग्वोर्विकल्पेनाग्निहोत्राहुतौ द्रव्यत्वविधाने ग्राम्यारण्यपशुहिम्सारहिततया तयोस्स्तवनेऽपि *अथो खल्वाहुरनाहुतिर्वै र्जतिलाश्च गवीधुकाश्च पयसाग्निहोत्रम् जुहुयादि*(तै.यजु.सम्.५-४-३)ति तदनन्तरम् र्जतिलादिप्रतिक्षेपेण पयोविधिदर्शनादेकवाक्यतया जर्तिलय-वाग्वेत्यादेः ग्राम्यारण्यपशुहिम्साराहित्येन प्रशस्ततया होमार्हा अपि र्जतिलगवीधुकाश्च यदपेक्षया दुष्टास्तत्पय एव प्रशस्तमिति पयस्स्तुत्य-र्थत्वमेकवाक्यातनुरोधादिति । *न चेदन्यम् प्रकल्पयेत् प्रक्लृप्तावर्थ-वादस्स्यादि*(जै.मी.सू.१०-८-७)ति पूर्वतन्त्राधिकरणे किञ्चिद्विधिपूर्वकम् तन्निन्दायाम् विध्यन्तरश्रवणे सति तदेकवाक्यतानुरोधात् पूर्वप्रवृत्तयो-र्विधिनिन्दयोस्तदर्थवादत्वमिति समर्थितम् । तद्वदेवेहापि युक्तम् । ननु र्जतिलगवीधुकयोः पयसा सह सम्बन्धाभावात् र्जतिलगवीधुकयवागू-विधानयोरर्थवादतयैव विध्येकवाक्यता समर्थनीयेति तत्र तथाऽस्तु । इह तु भूमविद्यायाम् नामादीनाम् सत्येन ब्रह्मणा सह भूयस्त्वावधित्वेन सम्बद्धानाम् प्रासङ्गिकोपासनविधिवत् समस्तोपासनाविषयेण वैश्वान- रात्मनाद्व्यादित्यादीनाम् तदवयवत्वेन सम्बद्धानाम् प्रासङ्गिकोपासन-विधिः किम् न स्यादिति चेत् मैवम् । व्यस्तोपासननिन्दनेन *मूर्धा त्वेष आत्मन इति होवाचे*(छान्.५-२२-२)त्यादिवाक्येषु तु शब्दकृतेन- द्व्यादित्यानाम् स्वतन्त्रोपास्यत्वव्यवच्छेदेन *तान् होवाचैते वै खलु यूयम् पृथगिवेममात्मानम् वैश्वानरम् विद्वाम्सोऽन्नमात्थे*(छान्.५-१८-१) ति व्यस्तोपासनानाम् भ्रममूलत्वोद्घाटनेन भूमविद्यावैषम्यस्य बहुविधस्य सत्वेन र्जतिलयवागुन्यायस्यैव अत्र प्रवृत्त्यौचित्यात् । क्रतुवत् यथा *वैश्वानरम् द्वादशकपालम् निर्वपेत् पुत्रे जाते*(तै.यजु.सम्.२-२-५) इति विहितस्य क्रतोः *यदष्टाकपालो भवती*(तै.यजु.सम्.२-२-५)त्यादि-रर्थवादः नत्वष्टाकपालादिद्रव्यविधायकः । एवम् *अत्यन्नम् पश्यति प्रियमि* त्यादि-न्व्यस्तोपासन श्रवणमर्थवादः । तस्मात्समस्तोपासनमेव प्रामाणिकमिति ॥
इति भूमज्यायस्त्वाधिकरणम् ॥