॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
विकल्पाधिकरणम् ॥ २५ ॥
सद्विद्यादीनाम् ब्रह्मप्राप्तिफलकानामेकस्मिन् पुरुषे समुच्चयो वा विकल्पो वेति सम्शये अग्निहोत्रदर्शपूर्णमासादीनाम् स्वर्गैकफलानाम् भूयस्त्वापेक्षया यथैकस्मिन्नधिकारिणि समुच्चयः तथा एकस्मिन्नेव पुरुषे ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयस्स्यादिति पूर्वपक्षे प्राप्त उच्यते –
विकल्पोऽविशिष्टफलत्वात् ॥३-३-५७॥
तासाम् विद्यानाम् विकल्प एव । ब्रह्मानुभवविरोध्यनाद्यविद्याकर्म-निरसनपूर्वकानवधिकातिशयानन्द ब्रह्मानुभवरूपफलस्य सर्वविद्यासाधा-रण्यात् विकल्प एव ।
काम्यास्तु यथाकामम् समुच्चीयेरन्न वा
पूर्वहेत्वभावात् ॥३-३-५८॥
ब्रह्मप्राप्तिव्यतिरिक्तानाम् फलानाम् काम्यत्वेन यथेष्टम् समुच्चयो वा विकल्पो वा भवतु । परिमितफलानाम् कर्मणाम् फलभूयस्त्वापेक्षायाम् एकस्मिन्नधिकारिणि समुच्चयस्य तदभावे विकल्पस्य च अग्निहोत्र-दर्शपूर्णमासादिषु दृष्टत्वात् । अपरिमितफलासु ब्रह्मविद्यासु न तादृश-न्यायावतारः ॥
इति विकल्पाधिकरणम् ॥